________________
परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः ।
५४१ सन्ध्यङ्गानि यथालाभमत्र विधेयानि, अवसानेऽन्यवृत्तकैरिति बहुवचनमविवक्षितम् । साङ्गोपाना इति जलकेलिमधुपानादयः । यथा-रघुवंश-शिशुपाल वध-नैषधादि । यथा वा मम राघवविलासादि।
६२३ अस्मिन्नार्षे पुनः सर्गा भवन्त्याख्यानप्तज्ञकाः । अस्मिन् महाकाव्ये । यथा-महाभारते ।
६२४ प्राकृतैनिर्मिते तस्मिन् सर्गा आश्वाससञकाः ॥ ६२३ ॥
__ छन्दसाऽऽस्कन्दकेनैतत् कचिद्गलितकैरपि । यथा-सेतुबन्धः, यथा वा-मम कुवलयाश्वचरितम्।। ६२५ अपभ्रंशनिबद्धेऽस्मिन् सर्गाः कडवकाभिधाः ॥ ६२४ ॥
तथाऽपभ्रंशयोग्यानि च्छन्दांसि विविधान्यपि । यथा कर्णपराक्रमे। 'महाकाव्य'इति प्रकृतम् । खलादीनां दुर्जनदुष्कृत्यादीनामिति भावः । निन्दा । सताम् । च वा । गुणकीर्तनम् । विधेयमिति शेषः । एकवृत्तमयैरेकलक्षणानुगतैः । पद्यैः । अवसाने अन्ते। अन्यवृत्तकैः। बहुवचनमविवक्षितम् । 'उपलक्षिता'इति शेषः। इह । नातिस्वल्पाः। नातिदीर्घाः । अष्टाधिका अष्टसङ्ख्यातोऽधिकसङ्ख्याकाः । सर्गाः । कापि कस्मिंश्चिन्महाकाव्ये । नानावृत्तमयोऽनेकच्छन्दोनिबद्धः। कश्चन । सर्गः । दृश्यते। सर्गान्ते । भाविसर्गस्य भाविविधानस्य सर्गस्य । कथायाः। सूचनं निदर्शनम् । भवेत् । सन्ध्यासूख्येन्दुरजनीप्रदोषध्वान्तवासराः। अत्र-रजनी रात्रिः, प्रदोषः सायङ्काल:, वासरो दिनम् अन्यत्स्पष्टम् । प्रातमध्याह्नमृगयाशैलर्नुवनसागराः। अत्र मृगया वने धावतां मृगादीनां हननम् । सम्भोगविप्रलम्भौ शृङ्गारविशेषौ । च । मुनिस्वर्गपुराध्वराः पुरं नगरम् , अध्वरो यज्ञः । रणप्रयाणोपयममन्त्रपुत्रोदयादयः प्रयाणं सैन्येन सह राज्ञोऽन्यत्र यानम् , उपयमो विवाहः, मन्त्रः कर्त्तव्यनिर्णयः आदिना नायकप्रतापादीनां ग्रहणम् । अमी। साङ्गोपाङ्गाः। यथायोगं यथोपयोगं यथासम्भवं वा । इह । वर्णनीयाः। अस्य महाकाव्यस्य । कवेः। वृत्तस्य । नायकस्य । नाम्रा । वा । इतरस्य प्रतिनायकस्य । 'नाना' इति पूर्वतोऽनुवृत्तम् । 'सदृश'मिति शेषः । नाम । सर्गोपादेयकथया सर्गोपादेयमधिकृत्य निबद्धस्तया कथया सदृशमिति भावः । तु । सर्गनाम । 'विधेय'मिति शेषः ॥ ६१३-६२२ ॥ • उक्तमर्थ स्फुटयितुं तत्कठिनाशं विवृणोति-सन्ध्यङ्गानीत्यादिना । स्पष्टम् ।
उदाहरति-यथेत्यादिना । स्पष्टम् ।
आर्षमहाकाव्ये किञ्चिद्वैलक्षण्यमाह-६२३ अस्मिन् महाकाव्ये । पुनः। आर्षे ऋषिप्रणीते 'सती'ति शेषः । आख्यानसज्ञका आख्यानमितिवृत्तवर्णनं सज्ञा येषां तादृशाः । सर्गाः। भवन्ति ।
काठिन्यपरिहारायाह-अस्मिन्नित्यादि । स्फुटम् ।
प्राकृतमहाकाव्ये विशेष लक्षयति-६२४ प्राकृतैः प्राकृतभाषामयैः पयः । निर्मिते । तस्मिन् महाकाव्ये । आश्वाससज्ञका आश्वासनामानः । उच्छाससञका इति पाठान्तरे तु उच्छासनामान इत्यर्थः । सर्गाः । 'भवन्ती' ति शेषः । एतत्प्राकृतमहाकाव्यम् । आस्कन्दकेन तदभिधेयेन । छन्दसा वृत्तेन । कचित् । गलितकैस्तदाख्यैः छन्दोभिः । अपि । 'निबद्धं विधेय'मिति भावः ॥ ६२३ ॥
उदाहरति-यथेत्यादिना । स्पष्टम् ।
अपभ्रंशमहाकाव्ये विशेषमाह-६२५ अस्मिन्महाकाव्ये। अपभ्रंशनिबद्धेऽपभ्रंशेनानियतस्वरूपया भाषया निबद्ध । कडवकाभिधाः कडवकनामानः । सर्गाः । तथा। अपभ्रंशयोग्यानि तदुचितानीति भावः । विविधानि । छन्दांसि लक्षणया तन्निबद्धानि पद्यानि भवन्तीत्यर्थः ॥ ६२४ ॥
उदाहरति-यथेत्यादिना । स्पष्टम् ।