________________
५४०
साहित्यदर्पणः ।
६२२ सर्गबन्धो महाकाव्यं तत्रैको नायकः सुरः ।
सद्वंशः क्षत्त्रियो वाऽपि धीरोदात्तगुणान्वितः ॥ ६१३ ॥ एकवंशभवा भूषाः कुलजा बहवोपि वा । शृङ्गारवीरशान्तानामेकोऽङ्गी रस इष्यते ॥ ६१४ ॥ अङ्गानि सर्वेऽपि रसाः सर्वे नाटकसन्धयः । इतिहासोद्भवं वृत्तमन्यद्वा सज्जनाश्रयम् ॥ ६१५ ॥ चत्वारस्तस्य वर्गाः स्युस्तेष्वेकं च फलं भवेत् । aat नमस्काsara वस्तुनिर्देश एव वा ।। ६१६ ॥ क्वचिन्निन्द्रा खलादीनां सतां च गुणवर्णनम् । एकवृत्तमयैः पद्यैरवसानेऽन्यवृत्तकैः ॥ ६१७ ॥ नातिस्वल्पा नातिदीर्घाः सर्गा अष्टाधिका इह । नानावृत्तमयः कापि सर्गः कश्चन दृश्यते ॥ ६१८ ॥ सर्गान्ते भाविसर्गस्य कथायाः सूचनं भवेत् । सन्ध्यासूय्यैन्दुरजनप्रिरोषध्वान्तवासराः ॥ ६१९ ॥ प्रातर्मध्याह्नमृगयाशैल चुंबनसागराः । सम्भोगविप्रलम्भौ च मुनिस्वर्ग पुराध्वराः ॥ ६२० ॥ रणप्रयाणोपयममन्त्रपुत्रोदयादयः ।
वर्णनीया यथायोगं साङ्गोपाङ्गा अमी दश ॥ ६२१ ॥ कवेर्वृत्तस्य वा नाम्ना नायकस्येतरस्य वा ।
नामास्य सर्वोपायकथया सर्गनाम तु ॥ ६२२ ॥
[ षष्ठः
मा भवन्ती । शिथिलितकुसुमाकुलाग्रपाणिः प्रतिपदसंयमितांशुकावृताङ्गी ॥ कृतभयपरितोषसन्निपातं सचकितसस्मितवऋवारिजश्रीः । मनसिजगुरुतत्क्षणोपदिष्टं किमपि रसेन रसान्तरं भजन्ती ॥ अवनतवदनेन्दुरिच्छतीव व्यवधिमधीरतया यदस्थितास्मै । अहरत सुतरामतोऽस्य चेतः स्फुरमभिभूषयति स्त्रियस्त्रपैव ॥” इति एवं सप्तभिरष्टभिर्नवभिर्दशभिर्वाऽपि कुलकं भवतीति तत्तदुदाहरणानि स्वयमूह्यानि ।
महाकाव्यं लक्षयति-६२२ सर्गबन्धः सगैरवान्तरार्थः सन्दर्भविशेषैबंन्धः । महाकाव्यम् । तत्र । एकः । सुरो दिव्यः । वाऽथवा । सद्वंशः शोभनवंशोद्भवः । क्षत्त्रियः । अपि । धीरोदात्तगुणान्वितो धीरोदात्तलक्षसम्पन्न इति भावः । नायकः । वाऽथवा । एकवंशभवाः । कुलजाः सगोत्राः सपिण्डा वा । बहवः । अपि । भूपा राजानः । ' नायका' इति पूर्वतो वचनविपरिणामेनान्वेति । शृङ्गारवीरशान्तानाम् । निर्धारणार्थेयं षष्ठी । एकः । रसः । अङ्गी । इष्यते । सर्वेऽङ्गितो भिन्नाः समस्ताः । अपि । रसाः । अङ्गानि तदुद्भावकतया स्थिताः । ' भवन्ती 'ति शेषः । तथा सर्वे । नाटकसन्धयो मुखप्रतिमुखादयः पञ्च नाटकोपकारितयाऽभिहिताः सन्धय इति भावः । 'विधेया' इति शेषः । इतिहासोद्भवं पुराणादिप्रसिद्धम् । वा । अन्यत्तथाऽप्रसिद्धम् । सज्जनाश्रयं सज्जन आयो यस्य तादृशं सज्जनमधिकृत्य प्रस्तुतम् । वृत्तं चरितम् । तस्य महाकाव्यस्य । चत्वारः । वर्गा धर्म्मार्थकाममोक्षरूपाः वर्गाः । स्युः । तेषु । एकं तदन्यतमरूपमिति भावः । च अथवा । फलम् । भवेत् । अयम्भावः- धर्मादिचतुष्टयं धर्म्माद्यन्यतमं वा तस्य फलं समुद्भावनीयम् इति । आदौ प्रारम्भे । नमस्त्रिया । वा । आशीराशीर्वादः । वा । वस्तुनिर्देश इतिवृत्तसङक्षेपः । एव । 'मङ्गलत्वेनाचरणीय' मिति शेषः । क्वचित