________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः। .
तत्र मुक्तकं यथा मम,
"सान्द्रानन्दमनन्तमव्ययमजं यद्योगिनोऽपि क्षणं साक्षात्कर्तुमुपासते प्रति मुहुर्ध्यानकताना मुहुः । धन्यास्ता मथुरापुरीयुवतयस्तद् ब्रह्म याः कौतुका
दालिङ्गन्ति समालपन्ति शतधा कर्षन्ति चुम्बन्ति च ॥ ३४०॥" युग्मकं यथा मम"किं करोषिकरोपान्ते कान्ते! गण्डस्थलीमिमाम्। प्रणयप्रवणे कान्तेऽनैकान्ते नोचिताःक्रुधः३४१॥ इति यावत् कुरङ्गाक्षी वक्तमीहावहे वयम् । तावदाविरभूच्चूते मधुरो मधुपध्वनिः ॥ ३४२॥"
एवमन्यान्यपि । " मुद्दितं सन्दितं सितम् ।' इत्यमरः । इष्यते । चतुर्भिः तैः पद्यैरिति पूर्वतः । च । कलापकं कलापः समूह इवेति तथोक्तम् । पञ्चभिः पञ्चसङ्ख्यातोऽन्यूनसङ्ख्याकैस्तैः पधैरिति भावः । कुलकं कुलमिवेति तथोक्तं काव्यम् । मतम् ॥ ६११ ॥ ६१२ ॥ तानि क्रमादुदाहत्तुमाह-तत्र तेषु मुक्तकादिषु मध्ये इति यावत् । मुक्तकम् । यथा । मम ।
ध्याननैकतानाः समाहितचित्ताः सन्तः । योगिनः। अपि । सान्द्रानन्दमानन्दघनम् । अनन्तं देशकालपरिच्छेदशून्यम् । अव्ययं परिणामिताशून्यमपचयहीनं वा। अजं जन्मरहितम् । यत् । परं सर्वतो विलक्षणं किमपि वस्तु । साक्षातकर्तुम् । प्रति महः पुनःपुनः । उपासते उद्गीथाद्युपासनं कुर्वते ।
। कोतुकात् । आलिङ्गन्ति । समालपन्ति । शतधा बहुप्रकारेण । कर्षन्ति खानुकूलतयाऽवस्थापयन्ति । चुम्बन्ति । च ( इदं समुच्चयार्थम् )। ताः। मथुरापुरीयुवतयो मथुरापुथ्यों निवासिन्यो योषितः । धन्याः कृतार्थाः सफलभाग्याः । नत ते योगिन इति भावः । शार्दूलविक्रीडितं वृत्तम्॥३४०॥
युग्मकम् । यथा । मम-हे कान्ते सुन्दरि ! करोपान्ते करतलसमीपभागे । इमाम् । गण्डस्थलीम् । किम् । करोषि करतलोपरि गण्डस्थलनिधानं हि मन्युव्यञ्जिका मुदेति सा तया किं क्रियत इति प्रश्नाभिप्रायः । ननु त्वमन्यासक्त इति युक्तैव तथाऽवस्थितिरित्याशङ्कयाह-अनैकान्तेऽन्यस्यामनासके। नैकाऽन्ते निश्चये यस्य स नैकान्तः तद्भिन्नस्तथोक्तः । तथाऽपि-प्रणयप्रवणे प्रणये प्रेमिण प्रवणः कृताभिलाषः तादृशे, यद्वा-प्रणये. प्रेम्णाऽऽनमने प्रवण उद्यतस्तादृश इत्यर्थः । कान्ते वल्लभजने । क्रुधः । न । उचिताः। इति । यावत् । वयम् । कुरङ्गाक्षी मृगनयनाम् । वक्तुम् । इहामहे चेष्टामहे । तावत् तदवधि । चूते रसाले । मधुरो मन्मथोद्वर्द्धकतया माननिवर्तक अतएव प्रिय इति भावः । मधुपध्वनिर्मधुपानप्रमत्तानां भ्रमराणां ध्वनिः । आविरभूत्। मधुपध्वनिराविभवन्नेव तस्या मानं जहार, न पुनः प्रार्थनाऽऽवश्यकत्वमापतितमिति भावः ॥ ३४ ॥ ३४२॥"
सन्दानितकान्येवं खयम्मृग्यानीत्याह-पवमित्यादि । स्पष्टम् । तत्र सन्दानितकं यथा-"हरुदिषा वदनाम्बुरुहधियः सुतनु ! सत्यमलङ्करणाय ते । तदपि सम्प्रति सन्निहिते मधावधिगम धिगमङ्गलमश्रुणः ॥ त्यजति कष्टमसावचिरादसून विरहवेदनयेत्यघशङ्किभिः । प्रियतया गदितास्त्वयि वान्धवैरवितथा वितथाः सखि ! मा गिरः ॥ न खलु दूरगतोऽप्यतिवर्तते महमसाविति वन्धुतयोदितैः । प्रणयिणो निशमय्यवधर्बहिः स्वरमृतैरमृतरिव निर्ववौ ॥" एतस्यैव विशेषकमिति सज्ञान्तरम् । कलापकं यथा-"न खलु वयममुष्य दानयोग्याः इत्यादि । कुलकं पञ्चभिर्यथा-"यात यूयं यमाय दिश नायेन दक्षिणाम् । विक्षास्तोयविश्रावं तर्जयन्तो महोदधेः ॥ उन्नायानधिगच्छन्तः प्रदावैर्वसुधाभृताम् । वनाभिलावान् कुर्वन्तः स्वेच्छया चारुविक्रमाः ॥ सदोद्वारसुगन्धीनां फलानामलमाशिताः । उत्कारेषु च धान्यानामनभीष्टपरिग्रहाः ॥ संस्तावमिव शृण्वन्तश्छन्दोगानां महाध्वरे । शिञ्जितं मधुलहानां पुष्पप्रस्तारशायिनाम ॥ आलोचयन्तो विस्तारमम्भसा दक्षिणोदधेः । खादयन्तः फलरसं मुष्टिसङ्ग्राहपीडितम् ॥" षइभिर्यथा-विततवलिविभाव्यपाण्डुलेखाकृतपरभागविलीना रोमराजिः । कृशमपि कृशतां पुनर्नयन्ती विपुलवरोन्मुखलोचनावलग्नम् ॥ प्रसकलकुचबन्धुरोद्धरोरःप्रसभविभिन्नतनूत्तरीयबन्धा । अवनमदुदरोच्छसद्कूलस्फुटतरलक्ष्यगभीरनाभिमला। व्यवहितमविजानती किलान्तर्ऋणभुवि वल्लभमाभिमुख्य. भाजम् । अधिविटपि सलीलमग्रपुष्पग्रहणपदेन चिरं विलम्ब्य काचिन ॥ अथ किल कथिते सखीभिरत्र क्षणमपरव सस