________________
५३८
साहित्यदर्पणः ।
६१९ उपन्यासः प्रसङ्गेन भवेत् कार्य्यस्य कीर्त्तनम् । निर्वेदवाक्यव्युत्पत्तिर्विन्यास इति सुस्मृतः ॥ ६०८ ॥ भ्रान्तिनाशो विबोधः स्यान्मिथ्याख्यातं तु साध्वसम् । सोपालम्भवचः कोपपीडयेह समर्पणम् ॥ ६०९ ॥ निदर्शनस्योपन्यासो निवृत्तिरिति कथ्यते ।
संहार इति च प्राहुर्यत् कार्य्यस्य समापनम् ॥ ६१० ॥ स्पष्टान्युदाहरणानि । यथा- कामदत्ता ।
एतेषां सर्वेषां नाटकप्रकृतिकत्वेऽपि यथौचित्यं यथालाभं नाटकोक्तविशेषपरिग्रहः । यत्र च नाटकक्तस्यापि पुनरुपादानं तत्र तत्सद्भावस्य नियमः । अथ श्रव्यकाव्यानि - ६२० श्रव्यं श्रोतव्यमात्रं तत्पद्यगद्यमयं त्रिधा ।
तत्र पद्यमयान्याह
६२१ छन्दोबद्धपदं पद्यं तेनैकेन च मुक्तकम् ॥ ६११ ॥ द्वाभ्यां तु युग्मकं, सन्दानितकं त्रिभिरिष्यते ।
कलापकं चतुर्भिश्च पञ्चभिः कुलकं मतम् ॥ ६१२ ॥
[ षष्टः
क्रमादेतानि लक्षयति-६१९ प्रसङ्गेन । कार्यस्य प्रयोजनस्य । कीर्त्तनम् । उपन्यासः । भवेत् । निर्वेदवाक्यव्युत्पत्तिर्निर्वदप्रधानं वाक्यं विरक्तिसूचकं वाक्यं तस्य व्युत्पत्तिः प्रपञ्चनम् । विन्यासः । इति । सुस्मृतः सम्मतः । भ्रान्तिनाशः । विबोधः । स्यात् । मिथ्याख्यानं मिथ्याकथनम् । तु । साध्वसम् । इह नाटके । कोपपीडया क्रोधावेशेन । खोपालम्भवचः उपालम्भपूर्वकं कथनम् । समर्पणम् । तदाख्यमङ्गम्म तम् । निदर्शनस्य दृष्टान्तस्य । उपन्यासः फलतः स्थापनम् । निवृत्तिः । इति । कथ्यते । यत् । कार्यस्य । समापनं समाप्तिबोधकतया वर्णनम् । 'त' दिति शेषः । संहारः । इति । प्राहुः । च ॥ ६०८- ६१० ॥
एषामुदाहरणानि प्रख्यातानीत्याह - स्पष्टानीत्यादि । भाणिकाया उदाहरणं दर्शयति-यथेत्यादिना । स्पष्टम् । एवं नाटिकाऽऽदिं लक्षयित्वाऽत्रानुक्तं सर्वं नाटकोतमेव ग्राह्यमित्याह - एतेषां नाटिकादीनाम् । सर्वेषाम् । नाटकप्रकृतिकत्वे नाटक साजात्ये । अपि । यथौचित्यम् । यथालाभम् । नाटकोक्त विशेषपरिग्रहो नाटके उक्त कथितं (यल्लक्षणं) तस्माद्विशेषस्तस्य परिग्रहः । यत्र येषु नाटिकाऽऽयुपरूपकेषु मध्ये । च । नाटकोक्तस्य नाटक उक्तं तस्य । अपि । पुनः । उपादानम् । तत्र । तत्सद्भावस्य नाटकेऽभिहितस्य । नियमः । अयम्भावः -यत्र नाटिकादौ नाटकापेक्षया विशेषाभिधानं तत्तु युक्तमेव, किन्तु अन्यत्सर्वे तस्य नाटकप्रकृतिकत्वात् नाटकलक्षणाभिन्नत्वम् । यत्र च नाटिकाssदौ नाटकलक्षणापेक्षया विशेषाभावेऽपि पुनस्तदीयतयाऽभिधानं तस्यावश्यकत्वद्योतनार्थमिति ।
एषं दृश्यकाव्यान्यभिधाय - श्रव्य काव्यानि लक्षयितुमाह- अथ । श्रव्यकाव्यानि 'लक्ष्यन्त' इति शेषः । ६२० श्रोतव्यमात्रम् । मात्रपदेन द्रष्टव्यस्य व्यवच्छेदः । श्रव्यं तत्सञ्ज्ञकं काव्यमित्यर्थः । तत् 'पुन 'रिति शेषः । पद्यगद्यमयं पद्यं च गद्यं चेति, पद्यगद्य च पद्यगद्यं चेति, पद्यगद्यानि प्रकृतान्युच्यन्ते यत्र तत्तथोक्तम् । 'सरूपाणामेकशेष एकविभक्तौ ।' १।२।६४ इत्येकशेषः । 'तत्प्रकृतवचने मयटू ।' ५।४।२१ इति मयट् । तथा च पद्यमयम् । गद्यमयम्, पद्यगद्यमयं चेत्यर्थः । त्रिधा ।
तत्र पद्यमयस्य भेदान् लक्षयितुमाह-तत्र तेषु त्रिविधेषु । पद्यमयानि 'काव्यानी'ति प्रसङ्गानुप्रसक्तम् । अत्र बहुवचनं वक्ष्यमाणबहुत्वनिर्देशार्थम् । आह् ६२१ छन्दोबद्धपदं छन्दोभिरुताऽऽदिभिर्बद्धानि पदानि यस्य तादृ . शम् । पद्यम् । तेन तादृशलक्षणकेन । एकेन पद्यान्तरनिरपेक्षेण । च । मुक्तकं मुक्तमिवेति तथोक्तम् । 'इवे प्रतिकृतौ ।' ५।३।९६ इति कन् । द्वाभ्याम् 'ताभ्या' मिति पूर्वतो वचनविपरिणामेनान्वेति । एवं परत्र । तु । युग्मकं युग्ममिवेति तथोक्तम् । त्रिभिस्तेः पथैः । सन्दानितकं सन्दानितं बद्धमिवेति तथोक्तम् । 'बद्धे सन्दानितं मूत
ין