________________
परिच्छेदः]
रुचिराख्यया व्याख्यया समेतः ।
अथ प्रस्थानम्६०३ प्रस्थाने नायको दासो हीनः स्यादुपनायकः ॥ ५७७ ॥
दासी च नायिका, वृत्तिः कौशिकी भारती तथा । सुरापानसमायोगादुद्दिष्टार्थस्य संहतिः ॥ ५७८ ॥
अङ्को द्वौ लयतालादिविलासो बहुलस्तथा । यथा-शृङ्गारतिलकम् । अथोल्लाप्यम्
६०४ उदात्तनायकं दिव्यवृत्तमेकाभूषितम् ॥ ५७९ ॥
शिल्पकाङ्गैर्युतं हास्य-शृङ्गारकरुण रसैः। उल्लाप्यं बहुसयाममस्रगीतमनोडरम् ॥ ५८० ॥
चतस्रो नायिकास्तत्र त्रयोङ्का इति केचन ।। शिल्पकाङ्गानि वक्ष्यमाणानि । यी-देवीमहादेवम् । अथ काव्यम्६०५ काव्यमारभटीहीनमेका हास्यसङ्कुलम् ॥ ५८१ ॥
खण्डमात्राद्विपदिकाभनतालैरलकृतम् । वर्णमात्राच्छगणिका-युतं शृङ्गारभूषितम् ॥ ५८२ ॥
नेता स्त्री चाप्युदात्तात्र सन्धी आद्यौ तथाऽन्तिमः। प्रस्थानं लक्षयितुमाह-अथ । प्रस्थानम् लक्ष्यते ६०३ प्रस्थाने तदाख्य उपरूपके । दासः शूदः । नायकः । हीनो दासादपि निकृष्टः । उपनायकः। स्यात् । दासी। च । नायिका । कौशिकी। वृत्तिः। तथा। भारती तदाख्या वृत्तिः स्यादित्यर्थः । सुरापानसमायोगात । मद्यपानसम्बन्धं पुरस्कृत्येति भावः । ल्यबथेयं पञ्चमी । उद्दिष्टार्थस्य प्रस्तुतस्येतिवृत्तस्य । संहतिः समाप्तिः । दौ। अङ्कौ । तथा। लयतालादिः । आदिना स्वरादीनां ग्रहणम् । बहुलः। विलासः 'वर्णनीय' इति शेषः ॥ ५७७ ॥ ५७८ ॥
उदाहरति-यथेत्यादिना । स्पष्टम् । नेदं कालिदासकृतम् , अस्य निरुक्तलक्षणानाकान्तत्वात् ।
उल्लाप्यं लक्षयति-अथ। उल्लाप्यं लक्ष्यते ६०१ उदात्तनायकं धीरोदात्तो नायको यत्र तादृशम् । दिव्यवृत्तं स्वर्गीयेतिवृत्तशालि । एकाङ्कभूषितमेकाकेन भूषितम् । शिल्पकाङ्गैः। युतम् । तथा-हास्यशृङ्गारकरुणः । रसैः। 'युत'मिति पूर्वतोऽन्वेति । बहुसङ्कामं सङ्ग्रामवर्णनप्रचुरम् । अत्रगीतमनोहरम् "उत्तरोत्तररूपं यत् प्रस्तुतार्थपरिष्कृतम् । अन्तर्जवनिकं गीतमस्रगीतं तदुच्यते ॥” इत्युक्तलक्षणेनास्रगीतेन मनोहरम् । व्यस्रगीतेति पाठे तु 'ध्यस्रो विरामस्त्रिकल' इति भरतोत्या त्र्यस्रं त्रिकलं यद्गीतं तेन मनोहरमित्यर्थः । उल्लाप्यम्। तत्रोलाप्याख्य उपरूपके । चतस्रः। नायिकाः। त्रयः 'पुनरिति शेषः । अङ्काः। इति । केचन । 'प्राहुरिति शेषः । अयम्भाव:चतुर्नायिकं श्यङ्कम्' इति केषाञ्चिन्मतं नतु सर्वेषाम् । इति ॥ ५७९ ॥ ५८० ॥
कारिको सुगमयितुमाह-शिल्पकाडानीत्यादि । स्पष्टम् । उदाहरति-यथेत्यादिना । स्पष्टम् । .. काव्यं लक्षयितुमाह-अथ । काव्यं तदाख्यमुपरूपकम् । लक्ष्यते ६०५ आरभटीहीममारभटीव्यतिरितभारत्यादिवृत्तिशालीत्यर्थः । एकाङ्कम् । हास्यसकुलं हास्यरसपूर्णम् । खण्डमात्राद्विपदिकाभग्नतालेस्तदाख्यैर्गीतरित्यर्थः । अलङ्कृतम् । वर्णमात्राच्छगणिकायुतं वर्णमात्रेण नतु चारित्र्येण अच्छा या गणिका तया युतम् । शृङ्गारभाषितं शृङ्गारेण तद्वयनकेन वाक्येन भाषितम् । काव्यं तदाख्यमुपरूपकं स्यात् । अत्र । नेता 'उदात्त इति लिङ्गव्यत्ययेनान्वेति । धीरोदात्तः । स्त्री नायिका । च । अपि । उदात्ता धीरोदात्तलक्षणा । आद्यौ मुखप्रतिमुखाख्यौ इत्यर्थः । सम्धी। तथा। अन्तिमोऽन्ते भवो निबहणाख्यः सन्धि य इति भावः॥५८१॥५८२॥