________________
५३२
साहित्यदर्पणः। . .
[षष्ठः६०० प्राकृतैर्नवभिः पुम्भिर्दशभिर्वाऽप्यलकृता ॥ ५७१॥
नोदात्तवचना गोष्ठी कौशिकीवृत्तिशालिनी। हीना गर्भविमर्शाभ्यां षट्पञ्चयोषिदन्विता ॥ ५७२ ॥
कामशृङ्गारसंयुक्ता स्यादेकाङ्कविनिर्मिता । यथा-रैवतमदनिका । अथ सट्टकम्
६०१ सट्टकं प्राकृताशेषपाठचं स्यादप्रवेशकम् ॥ ५७३ ॥ . नच विष्कम्भकोऽप्यत्र प्रचुरश्चाद्भुतो रसः।
___ अङ्का जवनिकाऽऽख्याः स्युः स्यादन्यन्नाटिकासमम् ॥ ५७४ ॥ यथा-कर्पूरमञ्जरी । अथ नाट्यरासकम्६०२ नाटचरासकमेकाझं बहुताललयस्थिति ।
उदात्तनायकं तद्वत् पीठमोपनायकम् ॥ ५७५ ॥ . हास्योऽङ्गयत्र स शृङ्गारो नारी वासकसज्जिका । मुखनिर्वहणे सन्धी लास्याङ्गानि दशापि च ॥ ५७६ ॥
केचित् प्रतिमुखं सन्धिमिह नेच्छन्ति केवलम् । तत्र सन्धिद्वयवत्-यथा, मर्मवती, सन्धिचतुष्टयवत् यथा, विलासवती।
उदाहरति-सप्ताङ्गमित्यादिना । स्पष्टम् । 'अष्टाङ्क नवाझं चोह्य' मिति शेषः ।
गोष्टी लक्षयितुमाह-अथ । गोष्ठी । लक्ष्यते ६०० प्राकृतैरनतिचतुरैः । नवभिः। पुम्भिर्नायकैः । वाऽ. श्रवा । दशभिः । अपि 'पुम्भि' रिति पूर्वतोऽन्वेति । अलंकृता वर्णितचारिता । नोदात्तवचनाऽमुदारवर्णनासंस्कृतेतरभाषामयी वा । कौशिकीवृत्तिशालिनी । गर्भविमर्शाभ्यां तदाख्याभ्यां सन्धिविशेषाभ्याम् । हीना। षट्पञ्चयोषिदन्विता षड्भिः पञ्चभिर्षा योषिद्भिरन्विता । कामशृङ्गारसंयुक्ता न तु धर्मार्थशृङ्गारवर्णनशालिनीति भावः । एकाङ्कविनिर्मितैकाङ्का । गोष्ठी । स्यात् ॥ ५७१ ॥ ५७२ ॥
उदाहरति-यथेत्यादिना । स्पष्टम् । सट्टकं लक्षयितुमाह-अथ । सट्टकम् । लक्ष्यते ६०१ प्राकृताशेषपाठयं प्राकृतं प्राकृतभाषामयमशेष पाठ्यं यत्र तादृशम् । अप्रवेशकं प्रवेशकाख्यया प्रस्तावनया हीनम् । सट्टकम् । स्यात् । अत्र सके। विष्कम्भकस्तदाख्या प्रस्तावना । अपि । नच नैव। प्रचुरः प्रधानभूतः । च । अद्भुतः। रसः। अङ्काः । जवनिकाऽऽख्याः । स्युः । अङ्कस्थाने जवनिकाशब्दो निवेश्य इति भावः । अन्यदङ्कसङ्ख्याऽऽदिकम् । नाटिकासमं यथा नाटिकायां तथाs. त्रापि शेयमिति भावः । स्यात् ॥ ५७३ ॥ ५७४ ।।
उदाहरति-यथेत्यादिना । स्पष्टम् ।
नाट्यरासकं लक्षयितुमाह-अथ । नाट्यरासकम् । लक्ष्यते ६०२ एकाङ्कम् । बहुताललयस्थिति बढी ताललयस्थितियत्र तादृशम् । ताललययोः स्थितिरिति ताललयस्थितिः । 'ताल: कालक्रियामानो लयः साम्य'मित्यमरः । उदात्तनायकं धीरोदात्तनायकाधिष्टितम् । तद्वत् । पीठमोपनायकं पीठमर्द उपनायको नायकसहायो अत्र तादृशम् । नाट्यरासकम् । अत्र नाटथरासके । सशृङ्गारः। हास्यो हास्यरसः । अङ्गी । वासकसज्जिका वास कसज्जा । नारी नायिका । मुखनिर्वहणे तदाख्यो । सन्धी। च तथा । दश। अपि । लास्याङ्गानि । 'भवन्तीति शेषः । केचित । 'पुनरि'ति शेषः । इह नाटयरासके । केवलम् । प्रतिमुखम् । सन्धिम् । न । इच्छन्ति, किन्तु तद्भिन्नाः सर्वेऽपि मुखादयः सन्धयः सम्भवन्तीति भावः ॥ ५७५ ॥ ५७६ ॥
उदाहरति-तत्रेत्यादिमा । स्पटम् । सन्धिद्वयवतीति त्वपपाठः, नाटथरासकविशेषणत्वे स्त्रीप्रत्ययान्तताऽनुपपत्तेः । एवं परत्रापि।