________________
परिच्छेदः ] । रुचिराख्यया व्याख्यया समेतः।
इदं च सङ्कीर्णेनैव गतार्थमिति मुनिना पृथङ् नोक्तम् । अथोपरूपकाणि । तब-- ५९८ नाटिका कुलप्तवृत्ता स्यात्स्त्रीमाया चतुरकिका ॥ ५६६ ॥
प्रख्यातो धीरललितस्तत्र स्यान्नायको नृपः। स्यादन्तःपुरसम्बन्धा सङ्गीतव्यापृताऽथवा ॥ ५६७ ॥ नवाऽनुरागा कन्याऽत्र नायिका नृपवंशजा । सम्प्रवर्तेत नेताऽस्यां देव्यास्त्रासेन शङ्कितः ॥ ५६८ ॥ देवी पुनर्भवेज्ज्येष्ठा प्रगल्भा नृपवंशजा। पदेपदे मानवती तद्वशः सङ्गमो द्वयोः ॥ ५६९ ॥
'वृत्तिः स्यात् कौशिकी स्वल्प-विमर्शाः सन्धयः पुनः ।। द्वयोर्नायिकानायकयोः । यथा-रत्नावली-विद्धशालभञ्जिकादिः । अथ त्रोटकम्५९९ सप्ताष्टनवपञ्चाकं दिव्यमानुषसंश्रयम् ॥ ५७० ॥
त्रोटकं नाम तत् प्राहुः प्रत्यक्षं सविदूषकम् । प्रत्यक्षं सविदूषकत्वादेव अत्र शृङ्गारोऽङ्गी । सप्ताङ्कं यथा स्तम्भितरम्भम् , पश्चाङ्कं यथाविक्रमोर्वशी । अथ गोष्ठी( नटविशेषः ) च भटश्चेति ते प्रभृतौ यस्य ( चेटादेः ) तस्य । वेशवाग्युताः। षण्डकञ्चुकितापसाः । यत्र । 'तदिति शेषः । तु । विकृतं तत्प्रभेदभिन्न प्रहसनमित्यर्थः । विदुः ॥ ५६५॥
अस्य च मुनिमतेन सङ्कीर्णप्रभेदे प्रहसने एवान्तर्भाव इत्याह-इमं चेत्यादिना । स्पष्टम् । एवं रूपकाणि लक्ष्यलक्षणाभ्यां निरूप्योपरूपकाणि निरूपयितुमाह-अथेत्यादि ।
अथ । उपरूपकाणि । लक्ष्यन्ते तत्र ।
५९८ क्लप्तवृत्ताऽप्रसिद्धचरितपूर्णा । स्त्रीप्राया स्त्रीप्रचुरा । चतुरङ्किका चतुरङ्का । नाटिका । स्यात् । तत्र तस्यां नाटिकायाम् । प्रख्यातो लोके प्रख्यातनामा । धीरललितः । नृपः । नायकः । स्यात् । अत्रास्मिन्नायके । नवानुरागा । नपवंशजा राजनन्दिनी । कन्याऽप्रौढा । अन्तःपुरसम्बन्धा कथमपि अन्तःपुरे प्राप्तेति भावः । अथवा । सङ्गीतव्यापृता सङ्गीतचतुरा । 'सती'ति शेषः । नायिका । स्यात् । अस्यां नायिकायाम् 'पुन'रिति शेषः । देव्या ज्येष्ठाया राश्याः । त्रासेन कोपातङ्केन शङ्कितः । 'स'निति शेषः । नेता नायकः । सम्प्रवर्तेतानुरक्तोऽनुगतो भवेत् । देवी । पुनः । प्रगल्भा समस्तकलाप्रवीणा। नपवंशजा राजनन्दिनी । पदेपदे पुनः पुनारति भावः । मानवती दर्शितकोपा। ज्येष्ठा प्रथमं परिणीता। भवेत् । तद्धशस्तस्या वश इच्छा यत्र (प्रधानभूता) तादृशः । द्वयोस्तस्याः कन्यायास्तस्य च राज्ञ इति भावः । सङ्गमः। 'कीर्तनीय'इति शेषः । तथा-कौशिकी। वृत्तिः। स्यात् । स्वल्पविमीः प्रायेण विमर्शरहिताः, सत्यावश्यके किञ्चिद्विमर्शनापि सहिता इति भावः । पुनः। सन्धयः । 'निरूप्या इति शेषः ।
कारिका सुगमयितुं 'द्वयो' रित्यर्थं विवृणोति-द्वयोरित्यादिना । स्पष्टम् । उदाहरति-यथेत्यादिना । स्पष्टम् ।
नोटकं लक्षयितुमाह-अथ । त्रोटकम् । लक्ष्यते ५९९ सप्ताष्टनवपश्चाई सप्त वाऽष्ट वा नव वा पञ्च वाऽका यत्र तादृशम् । दिव्यमानुषसंश्रयं दिव्यमानुषयोः संश्रयो नायिकानायकत्वेन यत्र तादृशम् । प्रत्यङ्कम
सविदूषकं विदूषकोपस्थितिकम् । तत् प्रसिद्धम् । त्रोटकम् । नाम 'उपरूपक'मिति शेषः। प्राहुः॥५७०॥ प्रत्यकमित्यादिना बोधनीयमर्थान्तरं दर्शयति-प्रत्यङ्कमित्यादिना । स्पष्टम् ।