________________
साहित्यदर्पणः।
[षष्ठःअत्र नारभटी, नामि विष्कम्भकप्रवेशको । अङ्गी हास्यरसस्तत्र वीथ्यङ्गानां स्थितिर्न वा ॥ ५६२ ॥
तपस्विभगवद्विप्रप्रभृतिष्वत्र नायकः । . ५९३ एको यत्र भवेदृष्टो हास्यं तच्छुद्धमुच्यते ॥ ५६३ ॥ यथा-कन्दर्पकेलिः।
५९४ आश्रित्य कञ्चन जनं सङ्कीर्णमिति तद्विदुः । यथा-धूर्सचरितम् ।
५९५ वृत्तं बहूनां धृष्टानां सङ्कीर्ण केचिदूचिरे ॥ ५६४ ॥
५९६ तत्पुनर्भवति व्यङ्कमथवैकविनिर्मितम् । यथा--लटकमेलकादि । मुनिस्त्वाह-"वेश्याचेंटनपुंसक-विटधूर्ती बन्धकी च यत्र स्युः ।
__ अविकृतवेशपरिच्छद-चेष्टितकरणं तु सङ्कीर्णम् ॥” इति । ५९७ विकृतं तु विदुर्यत्र षण्डकञ्चुकितापसाः ॥ ५६५ ॥
भुजङ्गचारणभटप्रभृतेवैशवाग्युताः।
सन्धिदयन यथासम्भवमुपक्षेपादिभिः सन्ध्यङ्गैः, सर्वेश्च लास्याङ्गः, एकेनाङ्केन च निर्मितस्तथानिर्मितमिति भावः । प्रहसनम् । भवेत् । अत्र । कविकल्पितम् । 'नतु चिरात् प्रसिद्धम् इति भावः । निन्द्यानाम् । वृत्तम् । 'निवेश्य'मिति शेषः । आरभटी तदाख्या वृत्तिः न किन्तु तद्भिना भारत्यादय एवाश्रयणीया इति भावः । विष्कम्भकप्रवेशको तदाख्यो प्रस्तावनाभेदौ । अपि । न । तत्र । अङ्गी प्रधानभूतः । हास्यरसः । वीथ्यङ्गानामु. द्वातकादीनाम् । स्थितिः। 'भवेदिति शेषः । वाऽथवा । न । वीथ्यङ्गानां स्थितिरनियतेति भावः । तपस्विभगवद्विप्रप्रभृतिषु तपस्वी ( ब्रह्मचारी) च भगवान् (संन्यासी) च विप्रः ( वेदवेत्ता ब्राह्मणः ) चेति ते प्रभृतावादौ येषां (याज्ञिकादीनाम्) तेषु लक्षणया तथा प्रतीयमानेषु धर्मध्वजेष्वित्यर्थः । निर्धारणार्थंय सप्तमी। 'कश्चि'दिति शेषः । अत्र प्रहसने । नायकः ॥ ५६१ ॥ ५६२ ॥
अस्य शुद्धाख्यं भेदमाह-५९३ यत्र । एकः । धृष्टः । 'नायक'इति शेषः । भवेत् । तत् । शुद्धम् । हास्य तत्प्रधान प्रहसनम् । उच्यते ॥ ५६३ ॥
उदाहरति-यथेत्यादिना । स्पष्टम् ।
सङ्कीर्णाख्यं भेदमाह-५९४ कञ्चन धृष्टं धूर्त वा कमपीति भावः । जनम् । आश्रित्य नायकतयाऽवस्थाप्योस्पादितमिति भावः । तत् पूर्वोक्तलक्षणाकान्तं प्रहसनम् । सङ्कीर्णम् । इति । विदुः। 'आचार्या'इति शेषः ।
उदाहरति-यथेत्यादिना । स्पष्टम् ।
अत्र परमतं निर्दिशति-५९५ बहूनाम् । धृष्टानाम् । 'यत्रे'ति शेषः । वृत्तम् । 'तत्प्रहसन'मिति शेषः । सङ्कीर्णम् । केचित् । ऊचिरे कथितवन्तः ॥ ५६४ ॥
अत्र विशेषं निर्दिशति-५९६ तत् निरुक्तलक्षणं सङ्कीर्णं प्रहसनम् । पुनः । व्यङ्कम् । अथवा । एकविनि. मितमेकाङ्कम् । भवति ।
उदाहरति-यथेत्यादिना । स्पष्टम् । आदिना-हास्यार्णवादीनां ग्रहणम् ।
नाट्य शास्त्रकारमतं दर्शयितुमाह-मुनिर्भरतः। तु। आह-“यत्र । वेश्याचे तथा । बन्धकी पुंश्चली । 'वर्ण्यमाना'इति शेषः: । स्युः । 'त'दिति शेषः । अविकृतवेशपरिच्छदचेष्टितकरणमविकृतानि सम्भवीनि वेशपरिच्छदचेष्टितकरणानि यत्र तादृशम् (करणं चरितम् )। तु । सङ्कीर्णम् ॥ इति ।
अस्य विकृताख्यं भेदं लक्षयति-५९७ भुजङ्गचारणभटप्रभृतेर्भुजङ्गः ( वेश्याऽनुरक्तः ) च चारण: