________________
पारच्छेदः ]
रुचिराख्यंया व्याख्या समेतः। ५९१ दोषा गुणा, गुणा दोषा यत्र स्युमर्दिवं हि तत् ॥ ५६० ॥ क्रमेण यथा"प्रिय ! जीक्तिताक्रौर्य निःस्नेहत्वं कृतघ्रता। भूयस्त्वदर्शनादेव ममैते गुणतांगताः ३३८॥" "तस्यास्तद्रूपसौन्दर्य भूषितं यौवनश्रिया । सुखैकायतनं जातं दुःखायैवममाधुना ॥३३९॥"
एतानि च भङ्गानि नाटकादिषु सम्भवन्त्यपि वीथ्यामवश्यं विधेयानि, विस्पष्टतया माटकादिषु विनिविष्टान्यपि इहोदाहतानि । वीथीव नानारसानां च अत्र मालारूंपतया स्थितत्वाद्वीथी यम् । यथा-मालविका । अथ प्रहसनम्५९२ भाणवस् सन्धिसन्ध्यङ्गलास्याङ्गाङ्कविनिमितम् ।
भवेत् प्रहसनं वृत्तं निन्द्यानां कविकल्पितम् ॥ ५६१ ॥ किचित् । चिट्ठि तिष्ठ । वो युष्माकम् । विसुमरिदो विस्मृतः । कम्मभेदो कर्मभेदः किञ्चित् कर्मेति यावत् ! तं तम् । दाव तावत् । पुच्छिस्सं प्रक्ष्यामि" इत्युपक्रमे । गणदासः। ( विदूषकम् । विलोक्य ) गौतम । (इदं विदूषकस्य नाम ) उच्यताम् । यः । त्वया । कर्मभेदः । लक्षितो ज्ञातः। विदूषकः 'गणदासं प्रत्याहे'ति शेषः । पुढमोपदेसदसणे प्रथमोपदेशदर्शने । पुढमं प्रथमम् । बह्मणस्स ब्राह्मणस्य । पूआ पूजा। कादव्वा कर्त्तव्या । सा। णं ननु । वो युष्माकम् । विसुमरिदा विस्मृता । ( सर्वे राजसभासदः । प्रहसिता हास्यं कृतवन्तः । आदिकर्मणि क्तः । मालविका । स्मितम् । करोति)" इत्यादिना । नायकस्य राज्ञोऽग्निमित्रस्य । विशुद्धनायिकादर्शनप्रयुक्तेन विशुद्धा विगुणत्वाभावेन निरवद्याऽसौ नायिका मालविका तस्या दर्शनं तत्र प्रयुक्तस्तेन । हालक्षो (लो) भकारिणा । वचसा । व्याहारः।
मार्दव लक्षयति-५९१ यत्र यस्मिन् वाक्ये । दोषाः । गुणा गुणात्मना निर्दिष्टाः । गुणाः 'पुनः' इति शेषः । दोषा दोषात्मना निर्दिष्टाः । स्युः । बहुवचममविवक्षितम् । तत् । 'द्विभेद' मिति शेषः। मार्दवम् ! हि किल । ५६० ॥ ___ उसहरति-क्रमेणानुपौय॑ण । यथा-“हे प्रिय ! जीवितताक्रौर्य्य जीवितताया जीवनस्य क्रौर्य्य काठिन्यं धाष्टर्यमिति यावत् । निःोहत्वं स्नेहशून्यता । एवम् । कृतघ्नता। मम । एते 'दोषा' इति शेषः । भूयः पुनः । त्वदर्शनात् तव दर्शनं प्राप्य । एव । गुणतां गुणात्मत्वम् । गताः। विदेशतो बहोः कालादायातं प्रियं तप्रियाया उक्तिरियम् ,तथा च-प्रिय ! तव विरहे जीवनमनावश्यकमिति अस्य निर्गमयुक्तत्वेऽपि यदनेन धाष्टमवलम्बितं, तथा-स्नेहाधारस्यानवस्थितौ स्नेहाभावस्य प्रत्यक्षसिद्धत्वात् निःस्नेहत्वम् , एवम् उपकारिण उपकारं विस्मृत्य तत्सेवनार्थमनुगमनाभाषः कृतघ्नता, इत्येते दोषा अपि सांप्रतं तव दर्शनं प्राप्य गुणभूताः, अन्यथाऽमोदानुत्पत्तः । इति निष्कृष्टोऽर्थः ॥ ३३८ ॥"
_ "तस्याः परलोकं यातायाः प्रियतमाया इति भावः। तत्। यौवनश्रिया। भूषितम् । सुखैकायतनमानन्दस्यैकमात्रं पात्रम् । रूपसौन्दर्य रूपे सौन्दर्य मनोहरम् । मम तया वञ्चितस्य । अधुना तद्विरहे । दुःखाय । एव।जातम् । अत्र सुखानुभवैकाधारभूतस्य सुन्दरीसौन्दर्यस्य गुणस्य दुःखकारित्वाभिधानाद्दोषात्मना परिणामः ॥३३९॥"
ननु एतानि त्रयोदशाङ्गानि यद्यन्यत्रापि सम्भवन्ति, तत् कथमेतेषां वीथीसम्बन्धित्वम् ? इत्याशङ्कयाहएतामि चेत्यादि । स्पष्टम् । अस्याः सञ्जानिमित्तं दर्शयति-वीथीव पङ्क्तिारव । 'वीथ्यालिरावलि: पङ्क्तिः श्रेणी' त्यमरः । नानारसानां च । (भावानां च )। अत्र अस्मिन् रूपके । मालारूपतया मालारूपेण । स्थितत्वात् । इयम् (विधेयलिङ्गतयायं निर्देशः)। वीथी तदाख्यं रूपकमिति भावः । उदाहरति-यथेत्यादिना । यथा। मालविका, नतु 'मालविकाग्निमित्रम्' इति शङ्कयम्, एतस्य नाटकतयैव व्यपदिष्टत्वात्
प्रहसनं लक्षयितुमाह-अथ । प्रहसनम् । लक्ष्यते ५९२ भाणवदित्यादिना । ५९२ भाणवत् भाण इव । सन्धि-सन्ध्यङ्ग-लास्याङ्गा-कैः।. विनिर्मितम् । भाणो यथा-मुखनिर्वहण.