________________
५२८ साहित्यदर्पणः।
[षष्ठः५८९ असत्प्रलापो यदाक्य-मसम्बद्धं तथोत्तरम् ।
___अगृह्णतोऽपि मूर्खस्य पुरो यच्च हितं वचः ॥ ५५९ ॥ तत्राद्यो यथा, यथा-मम प्रभावत्याम्"प्रद्युम्नः (सहकारवल्लीमवलोक्य सानन्दम्)अहो कथमिव !।
अलिकुलमजुलकेशी परिमलबहुला रसावहा तन्वी।
किशलयपेशलपाणिः कोकिलकलभाषिणी प्रियतमा मे ॥३३७॥" एवमसम्बद्धोतरोऽपि । तृतीयो यथा वेणीसंहारे दुर्योधनं प्रति गान्धारीवाक्यम् ।
५९० व्याहारो यत् परस्यार्थे हास्यक्षोभकरं वचः।। यथा-मालविकाग्निमित्रे (लास्यप्रयोगावसाने मालविका निर्गन्तुमिच्छति) विदूषकःभोदि ! चिट्ठि किंचि । वो विसुमरिदो कम्मभेदो तं दाव पुच्छिस्वं' इत्युपक्रमे "गणदासः-(विदू षकं विलोक्य ) गौतम ! उच्यतां यस्त्वया क्रमभेदो लक्षितः। विदूषकः- पुढमोपदेसदसणे पुढमं बह्मणस्त पूआ कादवा, सा णं वो विसुमरिदी ( सर्वे प्रहसिताः, मालविका स्मितं करोति)।" इत्यादिना नायकस्य विशुद्धनायिकादर्शनप्रयुक्तेन हासक्षोभकारिणा नचला व्याहारः। इति शेषः । ता तत् । एदं एतम् । गेह गृहाण ।" अत्र। "त्वम् । राज्ञो वत्सराजस्य । कृते । आगता"इत्यर्थः । संवृतो निगूढः कृतः ।।
असत्प्रलापं लक्षयति-५८९ यत् । वाक्यम् । असम्बद्धं युक्तिविरुद्धम् । 'त'दिति शेषः । तथा। 'य' दिति शेषः । उत्तरम् । 'असम्बद्धं तदसत्प्रलाप'इति पूर्वतोऽनुवृत्तम् । यत् । च । अगृहृतोऽस्वीकुर्वाणस्य । अपि । मूर्खस्य । पुरोऽग्रे। हितं हितकरम् । वचः। 'तदसत्प्रलाप'इति प्रसङ्गानुप्रसक्तम् । तथा च-असत्प्रलापस्त्रिविधः, तत्र-आद्यः असम्बद्धवाक्यात्मा, द्वितीयः-असम्बद्धोत्तरात्मा, तृतीयः पुनः पण्डितम्मन्यं प्रति उपदेशात्मा । इति निष्कृष्टोऽर्थः ॥ ५५९ ॥
उदाहरति-तत्र तेषु त्रिष्यसत्प्रलापेषु मध्ये। आद्यो'ऽसत्प्रलाप'इति शेषः । यथा। मम । प्रभावत्या । "प्रद्युम्रः (सहकारवल्लीं सहकारोऽतिसुगन्धित आम्रो वल्लीव ताम् । अवलोक्य । सानन्दम्) अहो । कथम् । इहास्मिन् । एव
अलिकलमजलंकेशी अलिकुलेन भ्रमरपुजेन मञ्जुला मनोरमाः केशा यस्याः सा । परिमलबहला परिमलेन सौरभेण बहुलाऽतिशयिता । रसावहा। तन्वी सूक्ष्माङ्गी । किशलयपेशलपाणिः किशलयवत कोमलपत्रवत पेशलौ स्निग्धसुकुमारौ पाणी यस्याः सा । कोकिलकलभाषिणी कोकिलकलं भाषत इत्येवं शीलेति तथोक्ता । मे मम । प्रियतमा प्रभावती । गीतिश्छन्दः । अत्र वल्ली प्रियां मत्वाऽभिधानादसत्प्रलापः ॥ ३३७॥"
एवम् । असम्बद्धोत्तरोऽसम्बद्धमुत्तरं यत्र तादृशः । 'असत्प्रलाप' इति शेषः । अपि 'ऊह्य' इति शेषः । स च यथा-रत्नावल्यां द्वितीयेऽङ्के "सहि को एसो तुए आलिहि दो इति सुसङ्गतया पृष्टाया: सागरिकायाः "भअवं अणं गो" इत्युत्तरवाक्ये । तृतीयः । 'असत्प्रलाप' इति शेषः । यथा । वेणीसंहारे 'पञ्चमेऽङ्के' इति शेषः । दुर्योधनम् । प्रति । गान्धारीवाक्यम् । अयम्भाव:-गान्धारी दुःशासनादिमरणोत्तरमपि युधिष्ठिरेण सन्ध्यर्थमसकृद्दुर्योधनमुपदिष्टवती, न तेन तत्प्रतिग्रहीतमित्यसत्प्रलापः । इति ।
व्याहारं लक्षयति-५९० यत् । परस्य । अर्थे निमित्तम् । हास्यक्षोभकरं हास्यक्षोभयो: कारकम् । वचः 'त'दिति शेषः । व्याहारः।
उदाहरति-यथा। मालविकाग्निमित्रे 'द्वितीयेऽङ्के' इति शेषः । "(लास्यप्रयोगावसाने नृत्यानुष्ठानस्यान्ते । मालविका । निर्गन्तुम् । इच्छति । 'तदैव तो प्रत्याहे ति शेषः) विदषकः। भोदि भवति किंचि
१ "भवति ! तिष्ठ किञ्चित् । वो विस्मृतः कर्मभेदः तं तावत् प्रक्ष्यामि'' इति संस्कृतम् । २ "प्रथमोपदेशदर्शने प्रथमं ब्राह्मणस्य पूजा कर्तव्या, सा. ननु वो विस्मृता" इति संस्कृतम् । ३ "सखि ! क एष त्वयाऽऽलिखितः” इति संस्कृतम् । ४ "भगवान् अनङ्गः" इति संस्कृतम् ।