________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः । अनन्तरम् "(प्रविश्य ) कञ्चुकी-देव ! भग्नम्" इत्यादि । अत्र रथकैतनभङ्गार्थ वचनमूरु. भाथै सम्बन्धे सम्बद्धम्।
५८७ व्याख्यानं स्वरसोक्तस्यान्यथाऽवस्यन्दितं भवेत् । यथा-छलितरामे-"सीता-जाद ! कल्लं क्खु अजोज्झापण गंतव्वं तहिं सो राआ विणएण पणयिदेम्बो । लवः-अथ किमावाभ्यां राजोपजीविभ्यां भवितव्यम् ? सीता-जादः ! सो तुह्माणं पिदा । लवः-किमावयो रघुपतिः पिता? सीता-(साशङ्कम्) मा अण्णधा संकधं ण क्षु तुह्माणं सअलाए जेब पुहबीए ति ।"
५८८ प्रहेलिकैव हास्येन युक्ता भवति नालिका ॥ ५५८ ॥ ' संवरणकार्युत्तरं प्रहेलिका, यथा-रत्नावल्याम्, "सुसङ्गता-सहि ! जस्स किदे तुम आअदा, सो अअं दे पुरदो चिट्ठदि । सागरिका (सासूयम्) कस्स किदे अहं आअदा ? सुसङ्गता (विहस्य) अइ अण्णसंकिदे ! णं चित्तफलअस्स ता गेह युदं " अत्र "त्वं राज्ञः कृते आगते''त्यर्थः संवृतः ।
अनन्तरम् । “प्रविश्य 'शुद्धान्त'इति शेषः । कञ्चुकी 'आह राजान'मिति शेषः । हे देव ! भग्नम् ।" इत्यादि । अत्र । रथकेतनभङ्गार्थ स्थध्वजपतनसूचनाय प्रवृत्तमिति भावः । वचनम् । ऊरुभनार्थे ऊरुभनसूचके । सम्बन्धे । सम्बद्धमन्वितम् । ___अवस्यन्दितं लक्षयति-५८७ स्वरसोक्तस्य खरसेन स्वेच्छया स्वभावत इति यावत् उक्तं तस्य । अन्यथा प्रकारान्तरेण । व्याख्यानम् । अवस्यन्दितम् । भवेत् ।
उदाहरति-यथा । छलितरामे । “सीता 'लवं प्रत्याहे'ति शेषः । जाद जातपुत्र ! इति यावत् । कलं कल्यं परेयुः । क्खु खलु । अजोज्झाएण अयोध्यायाम् । गंतव्वं गन्तव्यम् 'अस्माभिरिति शेषः । तहि तर्हि । सो सः । राआ राजा रामचन्द्र इति यावत् । बिणएण विनयेन । पणयिदब्बो प्रणयितव्यः । लवः 'सीतां प्रत्याह'ति शेषः । अथैतस्मात् दिवसात् परम् । किम् । आवाभ्याम् । राजोपजीविभ्याम् । भवितव्यम् ? सीता 'लवं प्रत्याहे'ति शेषः । हे जाद जातपुत्र इति यावत् । सो स राजा। तुह्माणं युष्माकम् । पिदा पिता । लवः 'सीतां प्रत्याहेति शेषः । किम् । आवयोः (मम कुशस्य च)। रघुपतिः। पिता? सीता 'लवं प्रत्याह'ति शेषः । (साशङ्कम् ) मा । अण्णधा अन्यथा । संकधं शङ्कध्वम् । ण न । क्खु खलु। तुह्माणं युष्माकम् । सअलाए सकलायाः । जेब एव । पुहबीए पृथिव्याः । त्ति इति । अत्र पितृशब्दस्य खभावत उक्तस्य सकलाया अपि पृथिव्या इत्येवं पालकरूपेण व्याख्यानम् । ___नालिका लक्षयति-५८८ हास्येन हास्यव्यञ्जकेन वचनेनेति भावः । युक्ता । प्रहेलिका संवरणकारकमुत्तरम् । एव । नालिका । भवति ॥ ५५८ ॥ ___ कारिकां सुगमयति-संवरणकारि संवरणं प्रस्फुटीभवतोऽर्थस्य निगृहनं करोतीति तथोक्तम् । उत्तरं प्रतिबाक्यम् । प्रहेलिका।
__ उदाहरति-यथा । रत्नावल्याम् । 'द्वितीयेऽङ्के' इति शेषः । “सुसङ्गता 'सागरिकां प्रत्याहेति शेषः । सहि हे सखि ! जस्स । किदे यस्य कृते यं लब्धुमिति यावत् । तुम त्वम् । आअदा आगता। सो सः । अअं अयम् । दे ते । पुरदो पुरतः । चिट्ठदि तिष्ठति । सागरिका ‘सुसङ्गतां प्रत्याहे'ति शेषः । (सासूयम् ) कस्ल कस्य । किदे कृते । अहं अहम् । आअदा आगता । सुसङ्गता'सागरिका प्रत्याहे'ति शेषः । (विहस्य) अइ अयि ! (इदं कोमलालापे) अण्णसंकिदे अन्यशङ्किते ! णं ननु । चित्तफलअस्स चित्रफलकस्य । ‘कृते आगता असि'
१"जात! कल्यं खलु अयोध्यायां गन्तव्यं, तर्हि स राजा .विनयेन प्रणयितव्य" इति संस्कृतम् । २ "जात! स युष्माकं पिता"इति संस्कृतम् । ३ "माऽन्यथा शङ्कध्वं, न खलु युष्माकं सकलाया एव पृथिव्या इति" इति संस्कृतम् । ४ “सखि ! यस्य कृते त्वमागता, सोऽयं ते पुरतस्तिष्ठति ।...कस्य कृते अहमागता...अपि अन्यशङ्किते । ननु चित्तफलकस्य तद्गहाणैतम् ।" इति संस्कृतम् ।