________________
- साहित्यदर्पणः ।
[ षष्टः केचित्-'प्रक्रान्तवाक्यस्य साकाङ्क्षस्यैव निवृत्तिर्वाक्कलिः' इत्याहुः । अन्ये तु 'अनेकस्य प्रश्नस्यैकमुत्तरम् ।' इति ।
- ५८५ अन्योऽन्यवाक्याधिक्योक्तिः स्पर्द्धयाऽधिबलं मतम् । यथा-मम प्रभावत्याम् , "वज्रनाभःअस्य वक्षः क्षणेनैव निर्मथ्य गदयाऽनया । लीलयोन्मूलयाम्येष भुवनद्वयमद्य वः ॥ ३३४॥ प्रद्युम्नः-अरेरे असुरापसद ! अलममुना बहुप्रलापेन । मम खलु
अद्य प्रचण्डभुजदण्डसमर्पितोरुकोदण्डनिर्गलितकाण्डसमूहपातैः। आस्तां समस्तदितिजक्षतजोक्षितेय क्षोणिः क्षणेन पिशिताशनलोभनीया ॥३३५॥"
५८६ गण्डं प्रस्तुतसम्बन्धि भिन्नार्थ सत्वरं वचः ॥ ५५७ ॥ यथा-वेणीसंहारे, “राजा--
लोलांशुकस्य पवनाकुलितांशुकान्तं त्वदृष्टिहारि मम लोचनबान्धवस्य । अध्यासितुं तव चिराजघनस्थलस्य पर्याप्तमेव करभोरु ! ममोरुयुग्मम् ॥३३६॥"
प्रश्नः)। नष्टस्य वधर्मतश्च्युतस्य । 'धर्म एव हतो हन्ती'ति मनुः । अन्या का । गतिः ? न काऽपि गतिरिति पर्यवसितोऽर्थः (इत्युत्तरम् ) । शार्दूलविक्रीडितं वृत्तम् ॥ ३३३ ॥"
अन्येषाम्मतं दर्शयति-'साकाशस्य । एव ( नतु निराकाङ्क्षस्य ) प्रक्रान्तवाक्यस्य । निवृत्तिः सम्पूर्तिः । वाकूकेलिः।' इति । केचित् । आहुः।' अन्ये। तु । अनेकस्य नानाविधस्य । प्रश्नस्य । एकम्। उत्तरम् । 'वाक्केलि'रिति पूर्वतोऽन्वेति ।' इति 'आहुरिति पूर्वतोऽन्वेति ।
___ अधिवलं लक्षयति-५८५ स्पर्द्धया। अन्योऽन्यवाक्याधिक्योक्तिरन्योऽन्यं वाक्यस्याधिक्येनोक्तिः अधिबलम् । मतम् ।
उदाहरति-यथा। मम । प्रभावत्याम् । "वज्रनाभस्तदाख्यो दैत्यविशेषः । 'आहे'ति शेषः । अनया। गदया। क्षणेन । एव । अस्य । वक्ष उरःस्थलम् । निर्मथ्य विभेद्य । एषः। 'अहमिति शेषः । अद्य । वो युध्माकं युष्माननादृत्येति यावत् । लीलया 'न त्वायासेने'ति शेषः । भुवनयं मनुष्यलोकं देवलोकं चेति भावः । उन्मूलयामि ॥३३४॥ प्रद्यम्नः 'प्रत्याहेति शेषः। अरेरे । असुरापसद ! अमुना । बहुप्रलापेन । अलम् । मम । खल-अद्य। प्रचण्ड...पातेः प्रचण्डं यद्भजदण्डसमर्पितोरुकोदण्डं तेन निर्गलिताः पातिता ये काण्डाः शरास्तेषां समूहस्तस्य पातास्तैः । भुजौ दण्डाविव तयोः समर्पितं तच यदुरुकोदण्डं महाधनुरिति तथोक्तम् । इयम् । क्षोणिः पृथिवी । समस्तदितिजक्षतजोक्षिता । समस्ता ये दितिजा दैत्यास्तेषां क्षतजं रुधिरं तेनोक्षिता सिक्ता । पिशिताशनलोभनीया पिशितं मांसमशनं भोजनं येषां तेषां (रक्षसां गृध्रादीनां च) लोभनीया। क्षणेन । आस्ताम्। अत्र वजनाभस्य वाक्यापेक्षया प्रद्युम्नस्य वाक्यमधिकम् । वसन्ततिलकं वृत्तम् ॥३३५॥"
गण्डं लक्षयति-५८६ प्रस्तुतसम्बन्धि प्रसङ्गानुप्रसक्तम् । भिन्नार्थ प्रस्तुताननुकूलम् । सत्वरं झटिति 'उच्चरित'मिति शेषः । वच उत्तरम् । गण्डम् ॥ ५५७ ॥
उदाहरति-यथा । वेणीसंहारे 'तृतीयेऽके' इति शेषः । “राजा दुर्योधनः (प्रियां प्रत्याह ) हे करभोरु करभाविव हस्तयोर्बाह्यभागाविवोरू यस्यास्तत्सम्बुद्धौ तथोक्ते ! लोलांशुकस्य लोलं चञ्चलमंशुकं वस्त्रं यत्र तादृशस्य । मम | लोचनबान्धवस्य मदीयनेत्रयोस्तप्तिकरस्य । तव । जघनस्थलस्य । अध्यासितुमधिष्ठातुम् । पवना. कुलितांशकान्तं पवनेनाकुलितोऽशुकान्तो वस्त्रपर्य्यन्तभागो यस्य तादृशम् । त्वदृष्टिहारि त्वदीयनेत्रयो रनकम् । मम । अरुयुगम् । चिरात् चिरकालं व्याप्य । पर्याप्तम् । एव । वसन्ततिलकं वृत्तम् ॥ ३३६ ॥”