________________
५३५
परिच्छेद
रुचिराख्यया व्याख्यया समेतः।। ५८२ प्रियाभैरप्रियैर्वाक्यैर्विलोभ्य च्छलना छलम् । यथा-वेणीसंहारे, “भीमार्जुनौ
कती द्यूतच्छलानां जतुमयशरणोद्दीपनः सोऽभिमानी राजा, दुःशासनादेर्गुरुरनुजशतस्यागराजस्य मित्रम् । कृष्णाकेशोत्तरीयव्यपनयनपटुः पाण्डवा यस्य दासाः कास्ते दुर्योधनोऽसौ कथयत न रुषा द्रष्टुमभ्यागतौ स्वः ॥ ३३२॥" ५८३ अन्ये त्वाहुश्छलं किञ्चित् कार्यमुद्दिश्य कस्यचित् ॥ ५५५ ॥
उदीर्यते यद्वचनं वञ्चनाहास्यरोषकृत् । . ५८४ वाक्केलिहस्यिसम्बन्धो द्वित्रप्रत्युक्तितो भवेत् ॥ ५५६ ॥ द्विवेत्युपलक्षणम् । यथा
"भिक्षो ! मांसनिषेवणं प्रकुरुषे किं तेन मद्यं विना, मद्यं चापि तव प्रियं ? प्रियमहो वाराङ्गनाभिः सह । वेश्याऽप्यर्थरुचिः कुतस्तव धनं ? द्यूतेन चौर्येण वा चौर्य्यद्यूतपरिग्रहोऽपि भवतो नष्टस्य काऽन्या गतिः ॥ ३३३ ॥"
छलं लक्षयति-५८२ प्रियाभैः प्रियसदृशैः । वस्तुतः-अप्रियैः । वाक्यैः । विलोभ्य लुब्धं विधाय । छलना वञ्चना । छलम्।
उदाहरति-यथा । वेणीसंहारे । 'पञ्चमेऽङ्के' इति शेषः । भीमार्जुनौ 'पृच्छत' इति शेषः ।
द्यूतच्छलानां बूतरूपस्य कपदस्य (बहुवचनमविवक्षितम् ) । कर्ता । जतुमयशरणोद्दीपनो जतुमयं लाक्षाप्रचुरं यच्छरणं स्थानं तदुद्दीपयतीति तथोक्तः । 'शरणं गृहरक्षित्रो'रित्यमरः । लाक्षाभवनस्य दाहक इति भावः । दुःशासनादेः । अनुजशतस्य । गुरुज्येष्ठः । अङ्गराजस्य कर्णस्य । मित्रम् । कृष्णाकेशोत्तरीयव्यपनयनपटुः कृष्णाया द्रौपद्याः केशोत्तरीयाणि केशा उत्तरीयवस्त्रं च तेषां व्यपनयनं स्थानाच्यावनं तत्र पटुः । यस्य । पाण्डवाः। दासाः किङ्कराः । सः। अभिमानी । असौ। राजा। दुर्योधनः । व कस्मिन् स्थाने । आस्ते । कथयत 'भोः समन्तपञ्चकसञ्चारिणः !' इति शेषः । यूयम्-कथयत । रुषा क्रोधेन । द्रष्टम् । न 'आवा' मिति शेषः । अभ्यागतौ। स्वो भवावः । अत्र कर्तेत्यादीनां पदानां प्रियसदृशत्वं स्पष्टम् । शार्दूलविक्रीडितं वृत्तम्॥३३२॥"
परमतेनाह-५८३ कस्यचित् । किश्चित् । कार्य प्रयोजनम् । उद्दिश्य निमित्तीकृत्य । वश्चनाहास्य: रोषकृत् वञ्चना (प्रतारणं) च हास्यं च रोषः (क्रोधः) च तान् करोतीति तथोक्तम् । यत् । वचनम् । उदी. र्यते । 'त'दिति शेषः । छलम् । तु पुनः । अन्ये । आहुः॥ ५५५ ॥
वाकेलिं लक्षयति-५८४ द्विवप्रत्युक्तितो द्वे वा तिस्रो वेति द्वित्राः, ताः प्रत्युक्तयस्ताभ्य इति तथोक्ततः । . 'द्वित्रि'इति पाठे तु समासविधेरनित्यतामाश्रित्य अप्रत्ययाविधानम् । हास्यसम्बन्धः । वाकेलिः । भवेत् ॥५५६॥
द्विति पदं ततोऽधिकानामप्युपलक्षकमिति निरूपयन् उदाहति-द्विवेत्यादिना । स्पष्टम् ।
'हे भिक्षो! मांसनिषेवणं मांसस्य भक्षणम् । प्रकरुषे ननु करोषि? (इति प्रश्नः) । मद्यम । विना। तेन मांसनिषेवणेन । किम् (इत्युत्तरम् ) । मद्यम् । अपि । च पुनः । तव । प्रियम् ? (इति प्रश्नः)। अहो। वाराङ्गनाभिर्वेश्याभिः । सह । प्रियं न केवलं समांस मद्यम्, किन्तु वाराङ्गना अपि मम प्रियाः इति भावः (इत्युत्तरम् ) । वेश्याऽपि 'तव प्रिया'इति शेषः (इति प्रश्नः ) । अर्थरुचिलुब्धा 'साऽपि प्रिये'ति शेषः (इत्युत्तरम् ) । तब (भिक्षोः) । धनम् । कुतः (इति प्रश्नः)। द्यूतेन । चौरर्पण । वा 'धनं मयाऽऽनीयत'इति शेषः (इत्युत्तरम्)। भवतो गृहीतभिभुवेशतया पूज्यस्य तवेत्यर्थः । चौर्यचूतपरिग्रहश्चौर्ये द्यूते चासक्तिः । अपि । ( इति