________________
साहित्यदर्पणः
[ षष्ट:यथा-यादवोदयः । अथ प्रेङ्क्षणम्
६०६ गर्भावमर्शरहितं प्रेक्षणं हीननायकम् ॥ ५८३ ॥ - असूत्रधारमेकाङ्कमविष्कम्भप्रवेशकम् । नियुद्धसम्फेटयुतं सर्ववृत्तिसमाश्रितम् ॥ ५८४ ॥
नेपथ्ये गीयते नान्दी तथा तत्र प्ररोचना । यथा-वालिवधः । अथ रासकम् । ६०७ रासकं पञ्चपात्रं स्यान्मुखनिर्वहणान्वितम् ॥ ५८५ ॥
भाषाविभाषाभूयिष्ठं भारतीकौशिकीयुतम्। असूत्रधारमेकाई सवीथ्यङ्गं कलान्वितम् ॥ ५८६ ॥ श्लिष्टनान्दीयुतं ख्यातनायिकं मूर्खनायकम् । उदात्तभावविन्याससंश्रितं चोत्तरोत्तरम् ॥ ५८७ ॥
इह प्रतिमुखं सन्धिमपि केचित् प्रचक्षते । यथा-मेनकाहितम् । अथ संलापकम्६०८ संलापकेंऽङ्काश्चत्वारस्त्रयो वा, नायकः पुनः ॥ ५८८ ॥
पाषण्डः स्याद्रसस्तत्र शृङ्गारकरुणेतरः। भवेयुः पुरसंरोधच्छलसङ्ग्रामविद्रवाः ॥ ५८९ ॥
न तत्र वृत्तिर्भवति भारती नच कौशिकी । उदाहरति-यथेत्यादिना । स्पष्टम् । प्रेझणं लक्षयितुमाह-अथ । प्रेक्षणम् । लक्ष्यते ६०६ गर्भावमर्शरहितं गर्भविमर्शाख्यसन्धिभिन्नसन्धियुतम् । हीननायकं हीनो नीचो नायको यत्र तत् । असत्रधारं सूत्रधार प्रवेशशून्यम् । एकाङ्कम् । अविष्कम्भप्रवेशकं विष्कम्भप्रवेशकव्यतिरिकार्थोपक्षेपकयुतम् । नियुद्धसम्फेटयुतं नियुद्ध (युद्ध) च सम्फेट: (रोषभाषणं) च ताभ्यां युतम् । सर्ववृत्तिसमाश्रितं सर्वाभि रत्यादिभिर्वृत्तिभिः । सम्पन्नम्। प्रेक्षणं तदाख्यमुपरूपकम् । तत्र तस्मिन् प्रेखणे । नेपथ्ये जवनिकायाम् । नान्दी । गीयते । तथा । प्ररोचना कविप्रभृतिप्रशंसनं 'गीयत'इति पूर्वतोऽन्वेति ॥ ५८३ ॥ ५८४ ॥
उदाहरति-यथेत्यादिना । स्पष्टम् । रासकं लक्षयितुमाह-अथ । रासकम् । लक्ष्यते ।
६०७ पञ्चपात्रं पञ्चपुरुषमात्रव्यापृतम् । मुखनिर्वहणान्वितं मुखनिर्वहणाख्याभ्यामेव सन्धिभ्यां युक्तम् । भाषाविभाषाभूयिष्ठं भाषा (संस्कृतम् ) च विभाषा (प्राकृतं) च ताभ्यां भूयिष्ठम् । भारतीकौशिकीयुतं भारतीकौशिकीभ्यामेव वृत्तिभ्यां संग्रथितम् । असूत्रधारं सूत्रधारप्रयोगशून्यम् । एकाङ्कम् । सवीथ्यङ्गं वौथ्यङ्गैः सहितम् । कलाऽन्वितम् । श्लिष्टनान्दीयुतं श्लिष्टाऽनेकार्था मङ्गलमात्रपरार्थताशून्येति यावत् , या नान्दी तया युतम् । ख्यातनायिकं प्रसिद्धया नायिकया सहितम् । मूखंनायक शठनायकाधिष्ठितम् । उत्तरोत्तरमग्रेऽग्रे। च । उदात्तभावविन्याससंश्रितमुदात्त उदारो यो भावोऽभिप्रायस्तस्य किन्यासो विशदरूपेण प्रकटनं तेन संश्रितम् । रासकम् । स्यात् । इह रासकाख्य उपरूपके । केचित् । प्रतिमुखं तदाख्यम् । सन्धिम् । अपि । प्रचक्षते ॥ ५८५-५८७ ॥
उदाहरति-यथेत्यादिना । स्पष्टम् ।
संलापकं लक्षयितुसाह- अथ । संलापकम् । लक्ष्यते ६०८ संलापके तदाख्ये उपरूपके । चत्वारः। त्रयः। वा। अङ्काः । नायकः। पुनः। पाषण्डः पाषण्डपरः । स्यात् । तत्र तथाविधे संलापक इत्यर्थः । शृङ्गारकरुणेतरः शृङ्गारकरुणाभ्यां भिन्नः। रसः । पुरसंरोधच्छलसङ्ग्रामविद्रवाः पुरसंरोधो नगराक्रमण ।