________________
साहित्यदर्पणः।।
[षष्ठ:-- ५७६ ईहामृगो मिश्रवृत्तश्चतुरङ्कः प्रकीर्तितः।।
मुखप्रतिमुखे सन्धी तत्र निर्वहणं तथा ॥ ५४२ ॥ नरदिव्यावनियमौ नायकप्रतिनायकी । ख्यातौ धीरोद्धतावन्यो गूढभावादयुक्तकृत् ॥ ५४३ ॥ दिव्यस्त्रियमनिच्छन्तीमपहारादिनच्छतः ।
शृङ्गाराभासमप्यस्य किञ्चिकिश्चित् प्रदर्शयेत् ॥ ५४४ ॥ . पताकानायका दिव्या मर्त्या वाऽपि दशोद्धताः। युद्धमानीय संरम्भं परं व्याजान्निवर्तयेत् ॥ ५४५ ॥ महात्मानो वधप्राप्ता अपि वध्याः स्युरत्र नो। एकोङ्को देव एवात्र नेतेत्याहुः परे पुनः ॥ ५४६ ॥
दिव्यस्त्रीहेतुकं युद्धं नायकाः षडितीतरे । मिश्रं ख्याताख्यातम् । अन्यः प्रतिनायकः । पताकानायकास्तु नायकप्रतिनायकयोमिलिता दश। नायको मृगवदलभ्यामपि नायिकामत्र ईहते वाञ्छतीति ईहामृगः। यथा-कुसुमशेखरविजयादिः । अथाङ्क:
ईहामृग लक्षयितुमाह-अथ । ईहामृगस्तन्नामकं रूपकम् । लक्ष्यते ५७६ मिश्रवत्तो मिश्रं ख्याताख्यातमितिवृत्तं यत्र तादृशः । चतुरङ्कश्चत्वारोऽङ्का यत्र तादृशः । ईहामृगः । प्रकीर्तितः । तत्र तस्मिन्नीहामृगाख्ये रूपके । मुखप्रतिमुखे तदाख्यो । सन्धी । तथा । निर्वहणं तदाख्यः सन्धिर्विधेय इति भावः । अनियमौ विकल्पितनिरूपणौ। नरदिव्यौ मनुष्यो दिव्यश्च (देवयक्षाद्यन्यतमश्च)। ख्यातौ । धीरोद्धतौ । नायकप्रतिनायकौ तथा च-नायकः क्वचिन्मनुष्यः, कचित दिव्यश्च; एवं प्रतिनायको मनुष्यो दिव्यो वा वर्णनीयः । एतावपि धीरोद्धतावेवेति निष्कर्षः । अत्रापि-अन्यः प्रतिनायक इति भावः । गूढभावात्तात्पर्य्यान्निगृह्येति भावः । अयुक्तकृत् नीतिविरुद्धचे. ष्टित इति भावः । अस्य प्रतिनायकस्य । अपहारादिनाऽपहारो बलात्कार आदिर्यत्र (छलादेः) तेन तद्वारेति भावः । अनिच्छन्तीम् । दिव्यस्त्रियम् । इच्छतः 'सत'इति शेषः । शृङ्गाराभासम् । अपि । किश्चिवकिश्चित् । प्रदर्शयेत् । दश । उद्धता धीरोद्धताः । दिव्याः। मां मनुष्याः वा । अपि । पताकानायकाः पञ्चविधानां पताकानां नायका: (पञ्चनायकाः पञ्च प्रतिनायकाश्चेति कृत्वा ) फलखामिनः । 'वर्णनीया' इति शेषः । अयम्भावः-पताकानां पञ्चविधत्वेन द्वयोरपि नायकप्रतिनायकयोस्तासां स्वामिभूतत्वात् प्रत्येकं पञ्चविधत्वे दशविधत्वम् । इति । परं प्रतिनायकम् । युद्धं युद्धभूमिम् । आनीय प्रापय्य । व्याजात कञ्चिच्छलमापायेति भावः । संरम्भं क्रोधम् । निवर्तयेत् । यद्वा-संरम्भम् आनीय युद्धं निवर्तयेदित्यन्वयः । अत्रास्मिन्नीहामृगे । वधप्राप्ताः पुराणेतिहासानुकूल्येन प्रतिनायकेन हननीयतया दर्शनीयाः । अपि । महात्मानः । वध्या हननीयाः । नो नैव। एवं स्वारस्येन लक्षयित्वा परमतेन तत्र किञ्चिदाह-अत्रेहामृगे इत्यर्थः । एकः । अङ्कः । देवो दिव्यजनः । एव न तु नर इत्यर्थः । नेता नायकः । इति । परे । आहुः । इतरे एतेभ्योऽपि भिन्ना आचार्य्याः । पुनः। दिव्यस्त्रीहेतुकं दिव्यस्त्रियं निमित्तीकृत्येति भावः । युद्धं 'वर्णनीय'मिति शेषः । षट्। 'चेति शेषः । नायकाः । इति । 'आहुरिति शेषः ॥ ५४२-५४६ ॥
कारिक सुगमयितुमाह-मिश्रमित्यादि । स्पष्टम् ।