________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः। ५७७ उत्सृष्टिकाङ्क एकाङ्को नेतारः प्राकृता नराः ॥ ५४७ ॥
रसोऽत्र करुणः स्थायी बहुस्त्रीपरिदेवितम् । प्रख्यातमितिवृत्तं च कविर्बुद्धया प्रपञ्चयेत् ॥ ६४८ ॥ भाणवत सन्धिवृत्त्यङ्गान्यस्मिन् जयपराजयौ ।
युद्धं च वाचा कर्त्तव्यं निर्वेदवचनं बहु ॥ ५४९ ॥ ___ इमं च केचित् 'नाटकाऽऽद्यन्तःपात्यङ्कपरिच्छेदार्थमृतसृष्टिकाऽङ्कनामानम्' आहुः, अन्ये तु "उत्क्रान्ता विलोमरूपा सृष्टिर्यत्र" इत्युत्सृष्टिकाङ्कः । यथा शमिष्ठा ययातिः । अथ वीथी५७८ वीथ्यामेको भवेदङ्कः कश्चिदेकोऽत्र कल्प्यते ।
आकाशभाषितैरुक्तैश्चित्रां प्रत्युक्तिमाश्रितः ॥ ५५० ॥ सूचयेद्भरि शृङ्गार किश्चिदन्यान् रसानपि ।।
मुखनिर्वहणे सन्धी अर्थप्रकृतयोऽखिलाः ॥ ५५१॥ कश्चिदिति, उत्तमो मध्यमोऽधमो वा । शृङ्गारबहुलत्वाच्च अस्याः कौशिकीवृत्तिबहुलत्वम् ।
रूपकस्य सज्ञायाः सार्थकतां दर्शयति-नायक इत्यादिना । स्पष्टम् । उदाहरति-यथेत्यादिना। आदिपदार्थ ऊह्यः । स्पष्टमन्यत् ।
अझं लक्षयितुमाह-अथ । अङ्कस्तन्नामकं रूपकं लक्ष्यते ५७७ उत्सृष्टिकाङ्क एतदपरनामकोऽङ्क इति भावः । एकाङ्क एकोऽङ्को यत्र तादृशः । अत्राकाख्ये रूपके। प्राकृता अनतिचतुराः । नराः। नेतारो नायकाः (अत्र बहुवचनमेषामेकद्विसङ्ख्याऽतिरिक्तत्वं सूचयन् बहुत्वमात्रमाह)। करुणः। रसः करुणरसः । स्थायी । अत एव-बहुस्त्रीपरिदेवितं बहुस्त्रीणां विलापवर्णनगर्भितम् । प्रख्यातम् । च क्वचिदविख्यातमिति भावः । इतिवृत्तम् । कविः । बुद्ध्या खप्रतिभया । प्रपश्चयेत् विस्तरं नयेत् । तथा हि भरत:-" प्रख्यातवस्तुविषयस्त्वप्रख्यातः कदाचिदेव स्यात् । दिव्यपुरुषैर्वियुक्तः शेषैरन्यैर्भवेत् पुम्भिः ॥"इति । भाणवद्यथा भाणे तथा । अस्मिन् । सन्धिवृत्त्यङ्गानि ( मुखनिर्वहणे ) सन्धी च (कौशिकीभारत्यौ) वृती च (गेयपदादीनि ) अङ्गानि चेति तानि तथोक्तानि । तथा-जयपराजयौ। 'प्रपञ्चयेदिति पूर्वतोऽन्वेति । वाचा नतु शास्त्रादिना । च । युद्धम् । कर्तव्यम् । तथा-बहु अत्यन्तम् । निर्वेदवचनं वैराग्यवर्णनम् । 'कर्तव्य'मिति शेषः ॥ ५४७-५४९ ॥
अस्योत्सृष्टिकाऽङ्के' इति नामान्तरे हेतुं परमतमुद्घाट्य दर्शयति-इममऋमित्यर्थः । स्पष्टमन्यत् । उदाहरतियथेत्यादिना । स्पष्टम् ।
वीथीं लक्षयितुमाह-अथाङ्कनिरूपणानन्तरम् । वीथी। लक्ष्यते । ५७८ वीभ्याम् । एकः । अङ्कः। भवेत् । अवास्याम् । कश्चिदुत्तममध्यमाधमान्यतमः । एकः । 'नेते'ति शेषः । कल्प्यते । उक्तैरुचरितैः । आकाशभाषितः । चित्रां मनोरमाम् । प्रत्युक्ति प्रतिवचनम् । आश्रितः । सन्निति शेषः । भूरि । शृङ्गारम् । किश्चित् । अन्यान् । अपि । रसान् । सुचयेत । मुखनिर्वहणे। सन्धी 'कर्तव्यौ'इति शेषः । एवम्-अखिलाः समस्ताः । अर्थप्रकृतयो बीजादयः । 'काऱ्यां'इति शेषः ॥५५॥५५१॥
कारिकां सुगमयितुमाह-कश्चिदितीत्यादि । स्पष्टम् ।