________________
परिच्छेदः ] . रुचिराख्यया व्याख्यया समेतः ।
स्वाभाविकः कृत्रिमश्च दैवजो, विद्रवः पुनः ।
अचेतनश्चेतनैश्च, चेतनाचेतनैः कृतः ।। ५३७ ॥ तत्र शास्त्राविरोधेन कृतो धर्मशृङ्गारः, अर्थलाभार्थ कल्पितोऽर्थशृङ्गारः, प्रहसनशृङ्गारः कामशृङ्गारः, । तत्र कामशृङ्गारः प्रथमाङ्क एव, अन्ययोस्तु न नियम इत्याहुः । चेतनाचेतना गजादयः। समवकीर्य्यन्ते बहवोऽर्था अस्मिन्निति समवकारः। यथा-समुद्रमथनम्-अथ डिमः
५७५ मायेन्द्रजालसमाम-क्रोधोद्भ्रान्तादिचेष्टितैः ।
उपरागैश्च भूयिष्ठो डिमः ख्यातेतिवृत्तकः ॥ ५३८ ॥ , अङ्गी रौद्ररसस्तत्र सर्वेऽङ्गानि रसाः पुनः।
चत्वारोऽङ्का मता, नेह विष्कम्भकप्रवेशकौ ॥ ५३९ ॥ नायका देवगन्धर्वयक्षरक्षोमहोरगाः । भूतप्रेतपिशाचाद्याः षोडशात्यन्तमुद्धताः ॥ ५४० ॥ वृत्तयः कौशिकीहीना निर्विमर्शाश्च सन्धयः ।
दीप्ताः स्युः षड्रसाः शान्तहास्यशृङ्गारवर्जिताः ॥ ५४१ ॥ अत्रोदाहरणं च "त्रिपुरदाहः” इति महर्षिः। अथेहामृगः
शृङ्गारः कामशृङ्गारस्तृतीय इति भावः । कपटः । पुनः । स्वाभाविकः । च। कृत्रिमः स्वाभाविकेतरः । दैवजः तदुभयव्यतिरिक्तोऽतर्कितोपनतः । 'इति इति शेषः । 'त्रिविध'इति पूर्वतोऽन्वेति । विद्रवः पलायनम् । पनः । अचे. नने स्थाणभतादिभिरित्यर्थः । चेतनैर्दस्युप्रभृतिभिः । चेतनाचेतनश्चेतनत्वेऽपि जडप्रकृतिकत्वेनाचेतनैरित्यर्थः । कृतः। इदम्बोध्यम्-त्रिविधाः शृङ्गारः कपटो विद्रवश्चेत्येतेऽवश्यं समवकारे समुद्भावनीयाः । इति ॥ ५३७ ॥
. तदेव परिष्कृत्याह-तत्र तेषु शृङ्गारेवित्यर्थः । शास्त्राविरोधेन 'ऋतौ भार्यामुपेया'दित्यादिशास्त्रानकल्येन । कतः शृङ्गारः'इति शेषः । धर्मशृङ्गारः । तथा च-निषिद्धकाले निषिद्ध स्त्रियां कृतः शृङ्गारः(तदर्थं चेष्टितम) पापक्षास्तितो भिन्नो धर्मशृङ्गार इति निष्कृष्टार्थः । अर्थलाभार्थ प्रयोजनसिद्धयर्थं धनलाभमुद्दिश्य वेति भावः । कल्पितः । अर्थशृङ्गारः। कामशृङ्गारो विषयभोगमात्रनिमित्तकः शृङ्गारः । प्रहसनशृङ्गारस्तदपरनामधेयो बोध्य इत्यर्थः ।
निरूपणव्यवस्थामाह-तत्रेत्यादिना । स्पष्टमन्यत् । उदाहरति-यथा। समुद्रमथनं तदाख्य इत्यर्थः । डिम लक्षयितुमाह-अथ समवकारनिरूपणानन्तरम् । डिमः । लक्ष्यते ५७५ मायेन्द्रजालसङ्ग्रामक्रोधोद्भ्रान्तादिचे. टितैः। आदिपदेनोन्मत्तादीनां ग्रहणम् । उपरागैश्चन्द्रसूर्यायोग्रहणैरुपचारात्तवर्णनैः । च (इद समुच्चयार्थम् )। यद्वा-चकारेण निर्घातोल्कापातादिवर्णनैश्चैत्यर्थः । भूयिष्ठो विस्तरं प्राप्तः । ख्यातेतिवृत्तकः ख्यातमितिवृत्तं पत्र तादृशः । डिमः । तत्र डिमाख्ये रूपक इत्यर्थः । रौद्ररसः । अङ्गी । सर्वे रौद्रव्यतिरिक्ताः शृङ्गारादयः । रसः । पनः । अडान्यप्रधानभूताः । तथा-चत्वारः। अङ्काः। मताः । इहास्मिन् डिमे । विष्कम्भकप्रवेशको। न 'कायौँ'इति शेषः । षोडश । अत्यन्तम् । उद्धता धीरोद्धताः । देवगन्धर्वयक्षरक्षोमहोरगाः । भतप्रेतपिशाचाद्या आयपदेन दैत्यादीनां ग्रहणम् । नायकाः । कौशिकीहीनाः कौशिकीं विहायान्याः । वृत्तयः। निर्विमर्शा विमर्शाख्यं सन्धि परित्यज्यान्ये । सन्धयः । च । दीप्ता विभावादिसामग्रीबलेन स्फुटाः । शान्तहास्यशडारवर्जिताशान्तं हास्यं शृङ्गारं च वर्जयित्वाऽन्ये इत्यर्थः । षट। रसाः । शान्तहास्यशृङ्गा. रास्तु अस्फुटा निरूपणीया इति भावः । स्युः ॥ ५३८-५४१॥
नन्वेतादृशः क इत्याशङ्कयाह-अत्रेत्यादि । स्फुटम् । महर्षिवाक्यं च-"इदं त्रिपुरदाहे तु लक्षणं ब्रह्मणोदितम् । ततत्रिपुरदाहश्च डिमसज्ञः प्रयोजितः ॥” इति ।