________________
५१८ साहित्यदर्पणः ।
[षष्ठ:एतदेव नाटकम् । यथा-बालरामायणम् । अथ प्रकरणम्५६८ भवेत् प्रकरणे वृत्तं लौकिक कविकल्पितम् ॥ ५२१ ॥
शृङ्गारोऽङ्गी नायकस्तु विप्रोऽमात्योऽथवा वणिक् ।
सापायधर्मकामार्थ-परो धीरप्रशान्तकः ॥५२२ ॥ विप्रनायकं यथा-मृच्छकटिकम् । अमात्यनायकं मालतीमाधवम्, वणिङ्नायकं पुष्पभूषितम् ।
५६९ नायिका कुलजा कापि वेश्या कापि द्वयं क्वचित् ।
तेन भेदास्त्रयस्तस्य ५७० तत्र भेदस्तृतीयकः ॥ ५२३ ॥
कितवद्यूतकारादिविटवेटकसङ्कुलः । कुलस्त्री पुष्पभूषिते, वेश्या तु रङ्गदत्ते द्वे अपि मृच्छकटिकायाम्। अस्य नाटकप्रकृतित्वात शेषं नाटकवत् । अथ भाणः
५७१ भाणः स्यातचरितो नानाऽवस्थाऽन्तरात्मकः ॥ ५२४ ॥
कारिकास्थमेतत्पदार्थमाह-एतदेवेत्यादिना । उदाहरति-यथेयादिना । स्पष्टम् ।
प्रकरणं लक्षयितुमाह-अथ नाटकस्य सप्रपञ्चं निरूपणानन्तरम् । प्रकरणम। लक्ष्यते-५६८ प्रकरणे तदाख्ये द्वितीये रूपक इत्यर्थः । कविकल्पितं 'नतु पुराणेतिहासप्रसिद्ध'मिति भावः । लौकिकमेतल्लोकमात्रोचितम् । वृत्तं नायकचरितम् । शङ्कारः । अङ्ग्री प्रधानभूतो रसः । नायकः। तु पुनः । विप्रो ब्राह्मणः । अमात्यो मन्त्री। अथवा। वणिक वैश्यः । सापायधर्मकामार्थपरोऽपायाः क्षयान्तसम्पत्तयस्तैः सहिता ये धर्मकामाथास्तेषु परो भोगाईधर्मकामार्थनिष्ठ इति भावः । धीरप्रशान्तको धीरप्रशान्तलक्षणाक्रान्तः । भवेत् ॥५२१ ॥ ५२२ ॥
उदाहरति-विप्रमायकमित्यादिना । स्पष्टम् ।
अस्य भेदानाह-५६९ क्वापि कस्मिंश्चित्तस्य भेदे इत्यर्थः । कुलजा कुलीना। नायिका । क्वापि । वेश्या 'नायिकेति पूर्वतोऽन्वेति । क्वचित् । द्वयं कुलजा वेश्या चेत्येवं नायिकायुगलम् । “स्या"दिति शेषः । तेन । बस्य प्रकरणस्य । त्रयः । भेदाः । 'स्युरिति शेषः ।
अत्रापि तृतीयभेदस्य विशेषमाह-५७० तत्र तेषु त्रिषु भेदेधिति भावः । तृतीयकः। भेदः कितवद्युतकारादिविटचेटकसङ्कलः । अत्र कितवो धूर्तः ए॒तकारो द्यूतव्यसनी, आदिना नागरिकादिः, विटचेटौ च लक्षितपूर्वो ॥ ५२३ ॥
उदाहरणं दर्शयति-कुसस्त्रीति । 'विना विशेषं सर्वेषां लक्ष्म नाटकवन्मतम्' इत्युक्तं स्मारयति-अस्येत्यादिना । स्पष्टम् । ___ भाणं लक्षयितुमाह-अथ । भाणः । लक्ष्यते ५७१ धूर्तचरितो धूर्तेन छलप्रधानेन ( नायकेन ) चरितोऽधिकृतः । नानाऽवस्थाऽन्तरात्मको नानाऽवस्थाऽन्तरं विविधाः प्रारम्भादिपञ्चविधावस्थातिरिक्ता अवस्था आत्मा