________________
परिच्छेदः
रुचिराख्यया व्याख्यया समेतः । यथा-मालतीमाधवे "मकरन्दः-एषोऽस्मि मालतीसंवृत्तः।" ५६३ कश्चन भ्रष्टसङ्केतः सुव्यक्तकरणान्वितः ॥ ५१६ ॥
प्राकृतं वचनं वक्ति यत्र तत्सैन्धवं मतम् । करणं वीणाऽऽदिक्रिया।
५६४ चतुरस्रपदं गीतं मुखप्रतिमुखान्वितम् ॥ ५१७ ॥
द्विगूढं रसभावाढयम् - ५६५ उत्तमोत्तमकं पुनः ।
कोपप्रसादजमधि-क्षेपयुक्तं रसोत्तरम् ॥ ५१८ ॥
हावहेलाऽन्वितं चित्र-श्लोकबन्धमनोहरम् । ५६६ उक्तिप्रत्युक्तिसंयुक्तं सोपालम्भमलीकवत् ॥ ५१९ ॥
विलासान्वितगीतार्थमुक्तप्रत्युक्तमुच्यते । एषां स्पष्टान्युदाहरणानि । ५६७ एतदेव यदा सर्वैः पताकास्थानकैर्युतम् ॥ ५२० ॥
अबैश्च दशभिर्धारा महानाटकमूचिरे।
उदाहरति-यथेत्यादिना । स्पष्टम् ।
सैन्धवं लक्षयति-५६३ भ्रष्टसङ्केतो भ्रष्टो नायिकाशन्यत्वेन हतः सङ्केतो यस्य तादृशः । सुव्यक्तकरणान्वितः सुव्यक्तानि सुव्यक्तस्वराणि यानि करणानि वीणादिक्रियास्तैरन्वितः । कश्चन । यत्र यस्मिन् नत्य इति यावत् । प्राकृतम् । वचनम् । वक्ति गायति । तत् । सैन्धवम् । मतम् ॥ ५१६ ॥
कारिको सुगमयितुं तत्कठिनांशभूतं करणपदार्थ व्याचष्टे-करणमित्यादिना । स्पष्टम् । उदाहरणमूह्यम् ।
द्विगूढं लक्षयति-५६४ मुखप्रतिमुखान्वितं मुखप्रतिमुखाभ्यां तदाख्याभ्यां सन्धिभ्यामन्वितम् । रसभावाढयं रसभावाभ्यामाढयं सम्पन्नम् । चतुरस्रपदं चतुरस्राणि पूर्णसप्तखराणि रसिकमनोहराणि वा पदानि यत्र तथोक्तम् । गीतम् । द्विगूढम् । उदाहरणमूह्यम् ॥ ५१७ ॥
उत्तमोत्तमकं लक्षयति-५६५ कोपप्रसाद कोपप्रसादाभ्यां जायत इति तथोक्तम। अधिक्षेपयतमधिक्षेपस्तिरस्कारस्तेन युक्तम् । रसोत्तरं रस उत्तरस्मिन् यस्य तथोक्तं, सरसमिति भावः। हावहेलाऽन्वितं हावहेलाभ्यां शृङ्गार. जन्यचेष्टाविशेषाभ्यामन्वितम् ( एतौ च लक्षितपूर्वो)। चित्रश्लोकबन्धमनोहरं चित्रा विचित्रा ये श्लोकबन्धाः श्लोकरचनास्तैर्मनोहरम् । पुनः । उत्तमोत्तमकम् । उदाहरणमूह्यम् ॥ ५१८ ॥
__ उक्तप्रत्युक्तं लक्षयति-५६६ उक्तिप्रत्युक्तिसंयुक्तम् वचनप्रतिवचनशालि । अत एव-सोपालम्भमुपा लम्भव्यजकम् । अत एव-अलीकवन्मृषावादसहितम् । विलासान्वितगीतार्थ विलासः शृङ्गारचेष्टाविशेषस्तेनान्वितो गीतार्थों यत्र तादृशम् । लास्यमिति प्रसङ्गानुप्रसक्तम् । उक्तप्रत्युक्तम् । उच्यते । उदाहरणमूह्यम् ॥ ५१९ ॥ __ नन्वेषां कान्युदाहरणानीत्याशङ्कयाह-एषामित्यादि । स्पष्टम् ।
महानाटकं लक्षयति-५६७ एतनिरुक्तलक्षणं नाटकम् । एव । यदा । सर्वैः समस्तप्रभेदकैः । पताकास्थानकैः । च तथा । दशभिः । अङ्कः । युतम् । धीराः। महानाटकम् । ऊचिरे कथितवन्तः ॥ ५२० ॥