________________
साहित्यदर्पणः ।
[षष्ठःअभिनवगुप्तपादास्स्वाहः-"उपलक्षणं चैतत्, क्रोधोद्धान्तस्यापि प्राकृतपठनं स्थितपा. उचम्।" इति।
५५९ निखिलातोद्यरहितं शोकचिन्ताऽन्विताऽबला।
अप्रसाधितगात्रं यदासीनाऽऽसीनमेव तत् ॥ ५१३ ॥ . ५६० आतोयमिश्रितं गेयं छन्दांसि विविधानि च ।
स्त्रीपुंसयोर्विपर्यास-चेष्टितं पुष्पगण्डिका ॥ ५१४ ॥ ५६१ अन्यासङ्गं पति मत्वा प्रेमविच्छेदमन्युना।
वीणापुरःसरं गानं स्त्रियाः प्रच्छेदको मतः ॥ ५१५ ॥ ५६२ स्त्रीवेषधारिणां पुंसां नाट्यं श्लक्ष्णं त्रिगूढकम् ।
दिशोऽवलोक्य) सहअरि दुक्खालिद्धअं सरवर अमूहिसिणिद्धं । वाहो-वग्गिअ-णअणअं तम्मइ हंसीजुअलअं॥" इति ॥ ५१२. ॥
अत्र भरतसूत्रव्याख्यातणामभिप्राय दर्शयति-अभिनवगुप्तपादा इत्यादिना।
अभिनवगुप्तपादा नाट्यशास्त्रव्याख्यातारः । तु । आहः। "एततमदनोत्तापितेति विशिष्याभिधानमित्यर्थः । च । उपलक्षणम् । तेन न केवलं मदनोत्तापितेत्येवार्थः, किन्तु इति शेषः । स्पष्टमन्यत् । इति । तन्मते यथा-विक्रमोर्वश्यामेव-"राजा.. हिअआहिअपिअदुक्खओ सरवरुए धुअपक्खओ।वाहो-वग्गिअ-णअणओ तम्मइ हंसजुअणेओ" इति। .
आसीनं लक्षयति-५५९ आसीनोपविष्टा । शोकचिन्ताऽन्विता । अबला। निखिलातोद्यरहितं निखिलानि सर्वाण्यातोद्यानि वाद्यानि ते रहितं यथा भवेत्तथा । तथा-अप्रसाधितगात्रं न प्रसाधितमलड्कृतं गात्रं यस्मिन् कम्मणि तद् यथा भवेत्तथेत्यर्थः । यत् 'प्राकृतं पठती'ति पूर्वतोऽन्वेति । तत् । आसीनम् । एव । यथाऽभिज्ञानशाकुन्तले, तृतीयेऽङ्के "शकुन्तला-तुज्झ ण आणे हिअअंमम उण कामो दिवा वि रत्तिम्मि । णिग्घिण! तवइ बलीअं तुइवुत्तमणोरहाई अंगाई"।। ५१३॥
___ पुष्पगण्डिका लक्षयति-५६० आतोद्यमिश्रितं वाद्यमिश्रितम् । गेयम् । च तथा । विविधानि । छन्दांसि छन्दोनिबद्धानि गीतानीति भावः । एवम्-स्त्रीपुंसयोर्नायिकानायकयोः । विपर्यासचेष्टितं विपरीतं चेष्टितम् । पुष्पगण्डिका । ऊह्यमुदाहरणम् ॥ ५१४ ॥
प्रच्छेदक लक्षयति-५६१ अन्यासङ्गमन्यस्यामासङ्गः प्रीतिर्यस्य तम् । पतिम् । मत्वा। प्रेमविच्छेदमन्युना प्रेम्णो विच्छेदस्तेन (कृतः) मन्युः शोकस्तेन तदभिन्नमित्यर्थः । वीणापुरःसरम् । स्त्रियाः स्त्रीकर्तृकमित्यर्थः । गानम् । प्रच्छेदकः । मतः । उदाहरणमूह्यम् ॥ ५१५॥
त्रिगूढकं लक्षयति-५६२ स्त्रीवेषधारिणाम् । पुंसाम् । श्लक्ष्णं मृदुलम् । नाट्यम् । विगूढकम् ।।
१ ‘सहचरीदुःखालीढं सरोवरे स्निग्धम् । अविरलवाष्पजलार्द्रताम्यति हंसीयुगन्नम् ॥' इति संस्कृतम् । २ 'हृदयाहितप्रियदुःखः सरोवरे धुतपक्षः । बाष्पावलिगतनयनस्ताम्यति हंसयुवा ॥'इति संस्कृतम् । ३ 'तव न जाने हृदयं मम पुनः कामो दिवाऽपि रात्रावपि। निघृणः तपति बलीयांस्त्वयि वृत्तमनोरथान्यङ्गानि ॥'इति संस्कृतम् ।