________________
परिच्छेदः ]
वीथ्यङ्गानि वक्ष्यंते, लास्याङ्गान्याह
रुचिराख्यया व्याख्यया समेतः ।
अत्र च
५५६ गेयं पदं स्थितं पाठयंमासीनं पुष्पमण्डिक ॥ ५०९ ॥ प्रच्छेद कैस्त्रिगूढं च सैन्धवाख्यं द्विगूढकर्म । उत्तमोत्तम चान्यदुक्तप्रत्युक्तमेव च ॥ ५१० ॥ लास्ये दशविधं ह्येव - दङ्गमुक्तं मनीषिभिः ।
५५७ तन्त्रीभाण्डं पुरस्कृत्योपविष्टस्यासने पुरः ॥ ५११ ॥ शुष्कं गानं गेयपदं
यथा-गौरीगृहे वीणां वादयन्ती "मलयवती
उत्फुल्लकमलकेसरपरागगौरद्युते मम हि गौरि ! अभिवाञ्छितं प्रसिध्यतु भगवति तव सुप्रसादेन ॥ ३३० ॥" ५५८ स्थित पाठ्यं तदुच्यते ।
मदनोत्तापिता यत्तु पठति प्राकृतं स्थिता ॥ ५९२ ॥
५१५
।
रवीरकरुणशान्तान्यतमो रसः प्रधानत्वे यत्र तत्तथोक्तम् । महाभोगम्महान् भोगः सहायकादिर्यत्र तत्तथोक्तम् । उदातरच नान्वितमुदात्ता सप्रासादा या रचना तयाऽन्वितम् । महापुरुषसत्कारं महापुरुषो धीरोदात्तो धीरललितो वा तस्य सत्कारो यत्र तत्तथोक्तम् । अत एव साध्वाचारं रमणीयव्यवहारो वर्णनीयत्वेन यत्र सत् । जनप्रियम् । सुलिटसन्धियोगं सुष्टिः सन्धीनां योगो यत्र सत् । सुप्रयोगम् । सुखाश्रयम् । मृदुशब्दाभिधानं मृदुभिः शब्दैरभिधानं पात्रनाम यत्र तत् । च । नाटकम् । कुर्यात् । तु ( इदं वाक्यालङ्कारे) ॥ इतिमुनिनेत्येवम्भरतेन । उक्तत्वात् । नाटके । अवश्यम् । कर्त्तव्यानि । एव न त्वेष्वेकं द्वे वा । अतः - एतत्प्रदर्शयितुं भूषणादीनि विशिष्योद्दिष्टानीति विभाव्यम् ।
एवं नाव्यालङ्कारान्निर्दिश्य क्रमप्राप्तमपि वीथ्यङ्गानां प्रसङ्गौचित्येन पुनर्निर्देष्टव्यत्वमाह - वीथ्यङ्गानि वीथी रूपकविशेषस्तस्या अङ्गानि प्रभेदास्तानि । वक्ष्यन्ते तन्निरूपणप्रसङ्गे इति शेषः ।
लास्याङ्गानि वक्तुं प्रतिजानीते - लास्याङ्गानि लास्यस्य नृत्यस्याङ्गानि प्रभेदास्तानि । आह - ५५६ गेये पर्दै गेयपदमित्यर्थः । स्थितं पाठ्यं स्थितपाठ्यमित्यर्थः । स्पष्टमन्यत् ॥ ५०९ ॥ ५१० ॥
एतानि क्रमालक्षयितुकाम आह-अत्रैषु दशसु लास्याङ्गेषु मध्ये । च 'गेयपदं लक्ष्यते' इति शेषः । ५५७ तन्त्र भाण्डं वीणायन्त्रम् । पुरस्कृत्य । ग्रे निधाय गानोपयोगित्वेन निरूप्येति यावत् । आसमे । उपविष्टस्य । पुरः प्रथमम् । शुष्कं शुद्धं संस्कृतमयमिति यावत् । गानम् । गेयपदम् ॥ ५११ ॥
उदाहरति - यथा । गौरीगृहे पार्वतीप्रासादे 'स्थिते 'ति शेषः । वीणाम् । वादयन्ती । " मलयवती गायति' इति शेषः ।
उत्फुल्लकमलकेसरपरागगौरद्युते उत्फुलकमलस्य केसराः किंजल्कास्तेषां परागस्तद्वगौरी द्युतिर्यस्यास्वरस • बुद्धौ तथो ! भगवति ! गौरि ! तव सुप्रसादेन शोभनेनानुग्रहेण । मम । हि नूतनम् । अभिवाञ्छितम् । प्रसिध्यतु सफलीभूयात् । आर्याछन्दः ॥ ३३० ॥”
स्थितपाठ्यं लक्षयति-५५८ मदनोत्तापिता कामार्दिता । स्थिताऽवस्थिता । तु । यत् । प्राकृतं प्राकृतभाषामयम् । पठति तत् । स्थितपाठ्यम् । उच्यते । यथा- विक्रमोर्वश्यां चतुर्थेऽङ्के "चित्रलेखा (प्रदेशान्तरे द्विपदिकया