________________
साहित्यदर्पणः।
[षष्ठः
५५३ युक्तिरावधारणम् ॥ ५०८ ॥ यथा तत्रैव
'यदि समरमपास्य नास्ति मृत्योर्भयमिति युक्तमितोऽन्यतः प्रयातुम् । अथ मरणमवश्यमेव जन्तोः किमिति मुधा मलिनं यशः कुरुध्वम् ॥ ३२६ ॥'
५५४ प्रहर्षः प्रमदाधिक्यं यथा शाकुन्तले-'राजा-तरिकमिदानीमात्मानं पूर्णमनोरथं नाभिनन्दामि ।'
५५५ शिक्षा स्यादुपदेशनम् । यथा तत्रैव-'सहि, ण जुत्तं अस्समवासिणो जणस्स अकिदसकारं अदिधिविसेसं उज्झिम सच्छन्ददो गमणम् । ___ एषां च लक्षणं नाट्यालङ्काराणां सामान्यत एकरूपत्वेऽपि भेदेन व्यदेशो गड्डुलिकाप्रवाहेण । एषु च केषाश्चिद्गुणालङ्कारभावसंध्यङ्गविशेषान्तर्भावेऽपि नाटके प्रयत्नतः कर्तव्यत्वात्तद्विशेषोक्तिः ।
एतानि च'पञ्चसंधि चतुर्वृत्ति चतुःषष्टयङ्गसंयुतम् । षट्त्रिंशल्लक्षणोपेतमलंकारोपशोभितम् ॥ महारसं महाभोगमुदात्तरचनान्वितम् । महापुरुषसत्कारं साध्वाचारं जनप्रियम् ॥ सुश्लिष्टसंधियोगं च सुप्रयोग सुखाश्रयम् । मृदुशब्दाभिधानं च कविः कुर्यात्तु नाटकम् ॥' . इति मुनिनोक्तत्वान्नाटकेऽवश्यं कर्तव्यान्येव ।
युक्तिं लक्षयति-५५३ अर्थावधारणं कर्तव्यस्य निश्चयः । युक्तिः ॥ ५०८॥
उदाहरति-यथा । तत्र वेणीसंहारे । एव । यदि । समरं सङ्ग्रामम्। 'अस्त्रियां समरानीकरणा' इत्यमरः । अपास्य परित्यज्य। मृत्योर्मरणस्य । भयम्। न । अस्ति । तर्हि-इतः सङ्ग्रामात्-अन्यतोऽन्यत्र । प्रयातं . गन्तुम् । युक्तम् । अथ यदि च 'अद्य वाऽब्दशतान्ते वा मृत्युबै प्राणिनां ध्रुव' इत्यादिनथेन । जन्तोः प्राणिनः । मरणम् । अवश्यम् । एव । तर्हि-किमिति । यशः स्वधर्मपालनजन्यां प्रशंसाम् । मुधा व्यर्थम् । मलिनम् । कुरुध्वम् । अत्र समरः कर्तव्य एवेत्यवधारणम् । पुष्पिताग्रा वृत्तम् । तल्लक्षणं चोक्तं प्राक् ॥ ३२६ ॥'
प्रहर्ष लक्षयति-५५४ प्रमदाधिक्यं प्रमदस्यानन्दस्याधिक्यम् । प्रहर्षः।
उदाहरति-यथा । शाकुन्तले । 'राजा। पुत्रप्राप्त्यनन्तरम् (आत्मगतम् ) तत्। इदानीम् । आत्मानम्। पूर्णमनोरथम् । किम् । न । अभिनन्दामि।'
उपदेशनं लक्षयति-५५५ शिक्षा युक्तमार्गे प्रवर्तनम् । उपदेशनम् । स्यात् ।
उदाहरति-यथा । तत्राभिज्ञानशाकुन्तले । एव । ( अनसूया शकुन्तलां प्रत्याह) सहि सखि ! अस्लमवासिणो आश्रमवासिनः । जणस्य जनस्य । अकिदसकारमकृतसत्कारम् । अदिधिविसेसं अतिथिविशेषमुत्तमम
तिथिमिति यावत् । उज्झिअ उज्झित्वा । सच्छन्ददो स्वच्छन्दतः स्वाभिप्रायमिति यावत् । गमणं गमनम् । • ण न । जुत्वं युक्तम् ।
ननु नात्र युक्त्यादीनां युक्त्यादिसिध्यङ्गेषु नीत्यादीनां नीत्या च शिक्षाऽऽदिषु चान्तर्भाबे सिद्धे पुनरुपादानं किमिस्थाशङ्कयाह-एषामित्यादि । स्पष्टम् । . उक्तमर्थ समर्थयते--एतानि नाट्यलक्षणादीनि । 'च। कविः। पश्चसन्धि पञ्च सुखादयः सन्धयो यत्र तत्तथोक्तम् । चतुर्वत्ति चतस्रः कौशिक्याद्या वृत्तयो यत्र तत् । चतुःषष्टयसंयुतम् । तत्र द्वादशमुखस्य । त्रयो. दशप्रतिमुखस्य गर्भस्य विमर्शस्य निर्वहणस्य च सन्धेः प्रभेदाः । एतैरङ्गैरिव संयुतमिति भावः । षटत्रिशल्लक्षणोपेतंभूषणादिभिः षट्त्रिंशलक्षणैर्युत्ताम् । अलङ्कारोपशोभितं प्रयस्त्रिंशत्सङ्ख्याकैराशिरादिभिरलङ्कारैर्युक्तम् । महान् शृङ्गा.