________________
परिच्छेदः ] रुचिलख्यया व्याख्यया समेतः।
५४८ याच् तु कापि याच्या या स्वयं दूतमुखेन वा ॥ ५०६॥ यथा'अद्यापि देहि वैदेही दयालुस्त्वयि राघवः। शिरोभिः कन्दुकक्रीडां किं कारयसि वानरान् ३२४॥'
५४९ परिहार इति प्रोक्तः कृतानुचितमार्जनम् । यथा'प्राणप्रयाणदुःखात उक्तवानस्म्यनक्षरम् । तत्क्षमस्व विभो, किं च सुग्रीवस्ते समर्पितः३२५॥'
५२० अवधीरितकर्तव्यकथनं तु निवेदनम् ॥ ५०७॥ यथा राघवाभ्युदये-'लक्ष्मणः-आर्य, समुद्राभ्यर्थनया गन्तुमुद्यतोऽसि । तत्किमेतत् ।'
५५१ प्रवर्तनं तु कार्यस्य यत्स्यात्साधु प्रवर्तनम् ।। यथा वेण्याम्-'राजा-कञ्चुकिन् , देवस्य देवकीनन्दनस्य बहुमानादत्तस्य भीमसेनस्य विजयमङ्गलाय प्रवर्तन्तां तत्रोचिताः समारम्भाः।'
५५२ आख्यानं पूर्ववृत्तोक्तिर यथा तत्रैव
'देशः सोऽयमरातिशोणितजलैर्यस्मिन्वदाः पूरिताः' इत्यादि ।
आदिपदेन 'दिव्यैरिन्द्रजिदत्र लक्ष्मणशरैर्लोकान्तरं लम्भितः केनाप्यत्र मृगाक्षि! राक्षसपतेः कृत्ता च कण्ठाटवी इति पादद्वयस्य ग्रहणम् ।
याच्चांलक्षयति-५४८ याच्नेत्यादिना । स्पष्टोऽर्थः। इदं तु बोध्यम्-इयं स्वयं कृता दूतद्वारा कृता चेति द्विविधा तत्राद्या यथा-'भो लकेश्वर ! दीयतां जनकजा रामः स्वयं याचते' इत्यादौ । द्वितीया तूदाहृतैव ग्रन्थकृतेति ॥ ५०६ ॥
उदाहरति-यथा-'अद्यापि । वैदेहीं विदेहनन्दनीम् । देहि । राघबो रामः । त्वयि । दयालुरकृतकोपः । अथ-किम् । शिरोभिः 'रामबाणैः पातितैः स्वस्य दशभिः' इति शेषः । वानरान् वानराणाम् । (णिजन्तत्वे कर्म. पदमिदम् ) । कन्दुकक्रीडाम् । कारयसि । अङ्गदस्य रावणं प्रत्युक्तिरियम् ॥ ३२४॥
परिहारं लक्षयति-५४९ कृतानुचितमार्जनं कृतस्यानुचितस्य कर्मणो मार्जनम् । परिहारः। इति । प्रोक्तः।
उदाहरति-यथा । 'हे विभो प्रभो ! प्राणप्रयाणदुःखार्तः प्राणानां प्रयाणं तस्य दुःखेनातः सन् । यत्अक्षरं दुर्वचः । उक्तवान् । अस्मि । तत् । क्षमस्व । किंच-ते तव । सुग्रीवः । समर्पितः इतः परमस्य रक्षणं त्वदधीनमिति भावः । मरणासन्नस्य वालिनः श्रीरामं प्रत्युक्तिरियम् ॥ ३२५ ॥'
निवेदनं लक्षयति-५५० अवधीरितकर्तव्यकथनमवधीरितमवज्ञातं यत् कर्त्तव्यं कार्य तस्य कथनम् । तु। निवेदनम्॥ ५०७॥
उदाहरति-यथा । राघवाभ्युदये । स्पष्टोऽर्थः । समुद्रप्रसादेन गमनं नोचितमिति भावः । प्रवर्तन लक्षयति-५५१ यत् । कार्यस्य । साधु शोभनं यथा भवेत्तथा । प्रवर्त्तनम् । तु । प्रवर्तनम् । उदाहरति-यथा। वेण्यां वेणीसंहारे । राजा युधिष्ठिरः । स्पष्टमन्यत् । आख्यानं लक्षयति-५५२ पूर्ववृत्तोक्तिर्भूतपूर्वस्येतिवृत्तस्य कथनम् । आख्यानम् ।
उदाहरति-यथा। तत्र वेणीसंहारे । एव । 'यस्मिन् यस्यां भूमौ । अरातिशोणितजलैररातीनां शत्रणां शोणितरूपैर्जलैः । इदाः (अत्र बहुवचनं पञ्चानां स्यमन्तकानां बोधकम् )। पूरिताः। सः । अयम् । देशः।' इत्यादि । आदिपदेन 'क्षत्रादेव तथाविधः परिभवस्तातस्य केशग्रहः तान्येवाहितशत्रघस्मरगुरूण्यत्राणि भास्वन्ति मे । यद्रामेण कृतं तदेव कुरुते द्रोणायनिः क्रोधनः।' इति पादत्रयस्य ग्रहणम् । केशेषु प्रहत्य समाहितत्य मध्ये समरं द्रोणस्य हनने कुपितस्याश्वत्थाम्न उक्तिरियम् ।