________________
साहित्यदर्पणः।
[षष्ठ:
यथा बालरामायणे
'कालरात्रिकरालेयं स्त्रीति किं विचिकित्ससि । तज्जगत्रितयं त्रातुं तात ताडय ताडकाम् ॥३२३॥'
५४४ साहाय्यं सङ्कटे यत्स्यात्सानुकूल्यं परस्य च । यथा वेण्याम-कृपं प्रति 'अश्वत्थामा-त्वमपि तावद्राज्ञः पार्श्ववर्ती भव । कृपः-वाञ्छाम्यहमद्य प्रतिकर्तुम्-' इत्यादि।
५४५ अभिमानः स एव स्यात् यथा तत्रैव-दुर्योधनः
मातः किमप्यसदृशं कृपणं वचस्ते' इत्यादि । ५४६ प्रश्रयादनुवर्तनम् ॥ ५०५॥
अनुवृत्तिर् यथा शाकुन्तले-'राजा (शकुन्तलां प्रति । ) अयि, तपो वर्धते। अनुसूया-दाणिं अदिधिविसेसलाहेण' इत्यादि।
५४७ भूतकार्याख्यानमुत्कीर्तनं मतम् । बथा बालरामायणे
'अत्रासीत्फणिपाशबन्धनविधिः शक्त्या भवद्देवरे गाढं वक्षसि ताडिते हनुमता द्रोणाद्रिरत्राहतः।' इत्यादि ।
उदाहरति-यथा । बालरामायणे । ( विश्वामित्रो रामं प्रत्याह ) हे तात । इयम् । कालरात्रिकराला कालराच्या तुल्यं भयावहा । अतः-स्त्री । इति । किम् । विचिकित्ससि विचारयसि । अस्या हननेन स्त्रीहत्यापातकभयं न कर्तव्यमिति भावः । तत्-यतः कालरात्रिवत् लोकान् हन्तुं प्रवृत्तेयं तस्मादिति भावः । जगत्रितयम् । त्रातुं रक्षितुम् । ताडकाम् । ताडय जहि ।। ३२३ ॥'
साहाय्यं लक्षयति-५४४ सङ्कटे विपत्तौ । उपस्थित इति भावः । च । यत् । परस्य। सानुकूलत्वं सहायकात्मना भवनम् साहाय्यम् ।
उदाहरति-यथा वेण्यां वेणीसंहारे । स्पष्टमन्यत् । अभिमानं लक्षयति-५४५ अभिमानः । सोऽभिमानः । एव । स्यात् ।
उदाहरति-यथा । तत्र वेणीसंहारे । एव । दुर्योधनः (गान्धारी प्रत्याह)। 'मात' रित्यादि । आदिपदेन 'सुक्षत्रिया व भवती कच दीनतैषा । निर्वत्सले सुतशतस्य विपत्तिमेतां त्वं नानुचिन्तयसि, रक्षसि भागयोग्यम् ॥' इत्यंशस्य ग्रहणम् । अत्र विपत्तावपि मातुराक्षेपपूर्वकं तथोद्यमनमित्यभिमानः । अर्थः स्पष्टः ।
अनुवृत्तिं लक्षयति-५४६ प्रश्रयाद्विनयेन । अनुवर्तनमनुकूलात्मना भवनम् । अनुवृत्तिः ॥ ५०५॥
उदाहरति-यथा...दाणिं इदानीम् । अदिधिविसेसलाहेण अतिथिविशेषलाभेनातिथिवरस्य भवतो लाभेनेति यावत् । स्पष्टमन्यत् ।
उत्कीर्तनं लक्षयति-५४७ भूतकार्याख्यानम्भुतस्य कार्यस्य कथनम् । उत्कीर्तनम् । मतम् ।
उदाहरति-यथा । बालरामायणे (श्रीरामोऽयोध्या प्रत्यावर्त्तमानस्तंतं प्रदेशं दर्शयति )। हे मृगाक्षि (इदं चतर्थचरणगतम)। अत्र । फणिपाशबन्धनविधिः फणिनो नागस्य पाशस्तेन बन्धनं तस्य विधिः । आसीत । अ शक्तयेन्द्रजिता प्रयुक्तेनामोघेनायुधविशेषेण । भवद्देवरे भवत्या देवरे लक्ष्मणे । गाढम् । वक्षसि (विषये सप्तमीयम् )। ताडिते प्रहृते सति । हनुमता। द्रोणाद्रिोणपर्वतः । आहत आनीतः ।' इत्यादि।