________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः
यथा
'इन्द्रजिचण्डवीर्योऽसि नाम्नैव बलवानसि । धिग्धिक्प्रच्छन्नरूपेण युध्यसेऽस्मद्भयाकुलः ॥ ३२१ ॥' ५४० भर्त्सना तु परीवादो
यथा सुन्दराङ्के-'दुर्योधनः- धिग्धिक् सूत, किं कृतवानसि ।
वत्सस्य मे प्रकृतिदुर्ललितस्य पापः पापं विधास्यति समक्षमुदायुधोऽसौ । इत्यादि ।
५४१ नीतिः शास्त्रेण वर्तनम् ।
यथा शाकुन्तले- 'दुष्यन्तः - विनीतवेषप्रवेश्यानि तपोवनानि ।' इति ।
५४२ उक्तस्यार्थस्य यत्तु स्यादुत्कीर्तनमनेकधा ॥ ५०३ ॥ उपालम्भविशेषेण तत्स्यादर्थविशेषणम् ।
५११
यथा शाकुन्तले राजानं प्रति 'शार्ङ्गरवः- आः, कथमिदं नाम । ननु भवानेव नितरां लोकवृतान्तनिष्णातः ।
'सतीमपि ज्ञातिकुलैकसंश्रयां जनोऽन्यथा भर्तृमतीं विशङ्कते ।
अतः समीपे परिणेतुरिष्यते प्रियाप्रिया वा प्रमदा स्वबन्धुभिः ॥ ३२२ ॥'
५४३ प्रोत्साहनं स्यादुत्साहगिरा कस्यापि योजनम् ॥ ५०४ ॥
उदाहरति - यथा 'इन्द्रजि' दित्यादौ । स्पष्टोऽर्थः । प्रच्छन्नस्य हननं दुःसाध्यं मन्वानस्य लक्ष्मणस्य प्रकटं योधने प्रवर्त्तयितुमिन्द्रजितम्प्रत्युक्तिरियम् ॥ ३२१॥'
परीवादं लक्षयति- ५४० भर्त्सना सोपालम्भं वचः । तु । परीवादः |
उदाहरति-यथा । सुन्दराङ्के वेणीसंहारस्य चतुर्थेऽङ्के । ' दुर्योधनः ( सूतं प्रत्याह ) । सूत ! धिग्धिक् । किम् । कृतवान् । असि । पापो दुष्टः । असौ भीमः । उदायुध उद्यतशस्त्रः । मे मम । समक्षम् । प्रकृतिदुर्ललितस्य प्रकृत्या स्वभावेनालभ्यविषयकत्वाद्दुष्टं ललितं सौन्दर्य सौभगं वा यस्य तस्य । वत्सस्य लालनीय - स्यानुजस्य दुःशासनस्येत्यर्थः । पापं वक्षोविदारणरूपमनर्थम् । विधास्यति - ' इत्यादि । अन्त्यं पादद्वयं चास्य'अस्मिन्निवारयसि किं व्यवसायिनम्मां क्रोधो न नाम करुणा न च तेऽस्ति लज्जा ॥' इति ।
नीति लक्षयति- ५४१ शास्त्रेण शास्त्रानुसारेण । वर्त्तनं यत्नः । नीतिः ।
उदाहरति-यथा । शाकुन्तले 'दुष्यन्त' इत्यादौ । स्पष्टम् ।
अर्थविशेषणं लक्षयति-५४२ यत् । तु । उक्तस्य। अर्थस्य । अनेकधाऽनेकैः प्रकारैः । उपालम्भमिषेण । उत्कीर्त्तनं सूचनम् । तत् । अर्थविशेषणम् । स्यात् ॥ ५०३ ॥
उदाहरति-यथा । शाकुन्तले । राजानं दुष्यन्तम् । प्रति । शार्ङ्गरवः । आः (इदं सखेदमाचर्याभिधाने )। कथम् । इदं शकुन्तलारूपं वस्तूपन्यस्तमिति भाषसे । नाम ( इदं वाक्यालङ्कारे ) । ननु । भवान् । एव । नितरामत्यन्तम् । लोकवृत्तान्त निष्णातो लौकिकव्यवहाराभिज्ञः । जनो लोकः । भर्तृमतीं सजीवितभर्तृकाम् । ज्ञातिकुलैकसंश्रयां ज्ञातिकुलं पितृकुलमेकः संश्रयो यस्यास्तादृशीम् । पितृगृहे वसन्तीमिति भावः । सतीं शुद्धचरिताम् । अपि । अन्यथा 'असतीय' मित्यात्मना । विशङ्कते । अतः । परिणेतुः । समीपे । 'एवे ' ति शेषः । स्वबन्धुभिः ज्ञातृजनैः । प्रिया । अप्रिया । वा । प्रमदा । 'प्रस्थापितु' मिति शेषः । इष्यते । अत्र वंशस्थं वृत्तम् ॥ ३२२ ॥
प्रोत्साहनं लक्षयति-५४३ उत्साहगिरोत्साहवर्धिया वाचा । कस्यापि । योजनं कार्यान्तरे प्रवर्त्तनम् । प्रोत्साहनम् ॥ ५०४ ॥