________________
- साहित्यदर्पणः।
[षष्टः५३५ आशंसनं स्यादाशंसा यथा श्मशाने-"माधव:सम्भूयेव सुखानि चेतसि परंभूमानमातन्वते यत्रालोकपथावतारिणि रतिं प्रस्तौति नेत्रोहवः। यद्वालेन्दुकलोच्चयादवचितैःसाररिवोत्पादित, तत्पश्येयमनङ्गमङ्गलगृहं भूयोऽपि तस्या मुखम्३१९"
५३६ प्रतिज्ञाऽध्यवसायकः । यथा मम प्रभावत्याम्-"वज्रनाभःअस्य वक्षः क्षणेनैव निर्मथ्य गदयानया । लीलयोन्मूलयाम्येष भुवनद्वयमद्य वः ॥ ३२०॥"
५३७ विसो यत्समारब्धं कर्मानिष्टफलप्रदम् ॥५०१॥ यथा वेणीसंहारे तृतीये? "राजा. एकस्य तावत्पाकोऽयं दारुणो भुवि वर्तते । केशग्रहे द्वितीयेऽस्मिन् नूनं निःशेषिताः प्रजाः ॥३२१॥"
५३८ कार्यदर्शनमुल्लेख: यथा शाकुन्तले-राजानं प्रति 'तापसौ-समिदाहरणाय प्रस्थितावावाम् । इह चास्मद्गुरोः साधिदैवत इव शकुन्तलयाऽनुमालिनीतीरमाश्रमो दृश्यते । न चेदन्य ( था) कार्यातिपातः, प्रविश्य गृह्यतामतिथिसत्कारः' इति ।
५३९ उत्तेजन मितीष्यते ।
स्वकार्यसिद्धयेऽन्यस्य प्रेरणाय कठोरखाक् ॥ ५०२॥ आशंसां लक्षयति-५३५ आशंसनं स्वाभीष्टमात्रलिप्सा। आशंसा। स्यात् । उदाहरति-यथा । श्मशाने तद्वर्णनप्रस्तुते मालतीमाधवस्य पञ्चमेऽङ्के । "माधवः 'साशंस' मिति शेषः ।
सुखानि आनन्दाः । सम्भूयेव मिलित्वेव स्थितानि सन्तीति भावः (इदं कर्तवचनम् ) चेतसि चित्ते 'ममे ति शेषः । परमत्यन्तं केवलं वेत्यर्थः । भूमानमतिशयितत्वम् । आतन्वते विदधति । मम मनसि सर्वविधा: पमोदा उल्लसन्तीति भावः । 'अतः सम्भाव्यते' इति शेषः । यत्र यस्मिन् मालतीमुखे इत्यर्थः । आलोकपथावतारिणी आलोको दर्शने नेत्रे इति यावत् तयोः पथस्तत्रावतारीति तत्र । दृष्टे सति इति भावः । नेत्रोत्सवो नेत्रयोरुत्सव आहादः । रतिं क्रीडाम् । प्रस्तौति प्रथयति । यत् 'चे' ति शेषः । बालेन्दुकलोच्चयावालो मूढः प्रियामुख मिवामृतं निपाय्य परोपकारानभिज्ञ इति यावत् , असाविन्दुस्तस्य कलोच्चयस्तस्मात्तमाश्रित्येति भावः । ['मूर्खेऽर्भकेऽपि बालः स्या' दित्यमरः ] । अवचितैरेकत्र स्थापितैः । सारैः सद्धमैः । इव । उत्पादितम् । तत् । अनङ्गमङ्गलगृहमनङ्गस्य कामस्य मङ्गलगृहमामोदस्थानरूपम् । तस्या माधव्याः । मुखम् । भूयः पुनरपि । पश्येयम् । न मालत्या आशंसन, येनाशिषा सङ्करः स्यात्, किन्तु स्वात्मन एव तन्मुखचुम्बनार्थम् ॥'
अध्यवसायं लक्षयति-५३६ प्रतिज्ञा सशपथं निश्चितोऽर्थः । अध्यवसायकोऽध्यवसायः । उदाहरति-यथा । मम । प्रभाक्त्याम्। "वज्रनाभः 'प्रतिजानीते' इति शेषः ।
अस्य पुर:स्थितस्य दुष्टस्येति भावः । वक्षः (कर्म)। अनया। गदया। क्षणेन । एव । निर्मथ्य विदार्य । एषः । अहम्-अद्य । वो युष्माकम् । भुवनद्वयं स्वर्ग पृथिवीं च । लीलयानायासेन । उन्मूलयामि । कस्यापि राक्षसराजस्य नरराजस्य वा देवराजन समं युध्यमानस्य तं प्रति उक्तिरियम् ॥ ३२०॥'
विसर्प लक्षयति-५३७ यत् । प्रारब्धम् । अनिष्टफलप्रदमनिष्टफलकम् । कर्म । विसपः॥ ५०१॥
उदाहरति-यथा । वेणीसंहारे । तृतीये । अङ्के। राजा । “एकस्य...।" उदाहृतपूर्वमिदम् । अत्र केश , ग्रहणस्यानिष्टफलोद्रेकत्वम् ।
उल्लेखं लक्षयति-५३८ कार्यदर्शनं कार्यस्य कर्तव्यत्वेन प्रदर्शनम् । उल्लेखः ।
उदाहरति-यथा। शाकुन्तले। 'तापसौ(दुष्यन्तं प्रत्याहतुः) समिदाहरणाय हवनोपयोगिकाष्ठमानेतुम् । आवाम् । प्रस्थितौ 'साधयाव' इति पाठे गच्छाव इत्यर्थः । इहास्मिन्वने । च । अस्मद्गुरोः कण्यमहर्षेः । शकुन्तलया। साधिदैवतोऽधिष्ठात्र्या देवतयाऽनुगृहीतम् । इव । मालिनीतीरम्मालिन्या नद्यास्तीरम् । अनु पश्चात्कृत्य । आश्रमः। दृश्यते । चेत् । अन्यकार्यातिपातः कार्यान्तरावश्यकता । न तर्हि-प्रविश्य । अतिथिसत्कारः। गृह्यताम् । अत्र हि- राज्ञा समम्प्रस्थानाभावे समिदाहरणं हेतुः, राशश्च कार्यान्तरानावश्यकत्वेऽतिथिस. स्कारग्रहणावश्यकत्वं दर्शितम् ।'
उत्तेजनं लक्षयति--५३९स्वकार्यसिद्धये खाभीष्ट सम्पत्तये । अन्यस्य । प्रेरणाय खानुकूलकार्ये प्रवर्तयितुम् । कठोरवाक् । उत्तेजनम् । इति । इष्यते काम्यते । 'आचार्य' रिति शेषः । ५०२ ॥