________________
रुचिराख्यया व्याख्यया समेतः। यथा शाकुन्तले, "शाङ्गरवः-राजन्, अथ यदि पूर्ववृत्तान्तमन्यसङ्गाद्विस्मृतवान् भवान् । तत्कथमधर्मभीरोदरपरित्यागः।"
५३१ आकाङ्क्षा रमणीयत्वादस्तुनो या स्पृहा तु सा । यथा तत्रैव, 'राजा-"चारुणा स्फुरितेनायमपरिक्षतकोमलः। पिपासतो ममानुज्ञां ददातीव प्रियाधरः ॥ ३१७ ॥"
५३२ अधिक्षेपवचःकारी क्षोभः प्रोक्तः स एव तु ॥ ४९९ ॥ यथा-"त्वया तपस्विचाण्डाल ! प्रच्छन्नवधवर्तिना।
न केवलं हतो वाली, स्वात्मा च परलोकतः॥ ३१८॥" .
५३३ मोहावधीरितार्थस्य पश्चात्तापः स एव तु। यथानुतापा), "रामः-किं देव्या न विचुम्बितोऽसि बहुशो मिथ्याभिशप्तस्तदा" इति ।
५३४ उपपत्तिर्मता हेतोरुपन्यासोऽर्थसिद्धये ॥ ५००॥ यथा वध्यशिलायाम्--"म्रियते म्रियमाणे या त्वयि जीवति जीवति ।
तां यदीच्छति जीवन्ती रक्षात्मानं ममासुभिः॥ ३११॥" ___ उदाहरति-यथा । शाकुन्तलेऽभिज्ञानशाकुन्तले 'पञ्च मेऽङ्के' इति शेषः । "शार्डरवः। 'दुष्यन्तं प्रत्याहे ति शेषः । राजन । अथ । यदि । पूर्ववृत्तान्तं शकुन्तलया सह गान्धर्वविधिना परिणयनादिरूपम् । अन्यसात कार्यान्तरेषु व्यग्रतया । भवान् । विस्मृतवान् । तत् । कथम् । अधर्मभीरो'रधर्मों मां न स्पृशेदिति बिभ्यतो भवतः । दारपारत्यागः स्त्रीपरित्यागजन्यं पातकं स्यादिति भावः । अत्र हि-पूर्ववृत्तान्तस्यैवं विस्मरणासम्भव इति तथाऽभिधानमुपहासमात्रम्।"
स्पृहां लक्षयति-५३१ या।तु। वस्तुनः पदार्थस्य । रमणीयत्वात् । आकाक्षासा। स्पृहा । उदाहरति-यथा। तत्राभिज्ञानशाकुन्तले । एव 'तृतीयेऽः' इति शेषः । 'राजा।
"अपरिक्षतकोमलो न परिक्षतो दष्टोऽसौ कोमलः (अत्र विशेषणोभयसमासः, विशेषणविशेष्यभावस्य प्रायिकत्वात् )। अयम् । प्रियाधरः । चारुणा सुन्दरेण । म्फुरितेन स्फुरणेन । मम । पिपासतः पातुमिच्छतः । अनुज्ञामनुमतिम् । ददातीव 'प्रतीयते' इति शेषः । अत्राधरस्य रमणीयतयाकाङ्क्षा ॥ ३१७॥"
क्षोभ लक्षयति-५३२ अधिक्षपवचःकारी भर्त्सनवाक्यहेतुः । क्षोभः अन्तश्चाञ्चल्यम् । त । स क्षोभः । एव 'मत' इति शेषः ॥ ४९९ ॥
उदाहरति--यथा "हे तपस्विचाण्डाल तपखिषु चाण्डालः तत्सम्बुद्धौ तथोक्त ! त्वया। प्रच्छन्नवधव. तिना प्रच्छन्नो भूत्वाऽसौ वधवी वधकारी तेन तथोक्तेन। वधं वर्त्तयति सम्पादयतीति वधवती। केवलम् ।वाली। न । हतः । किन्तु-परलोकतः स्वर्गादेः । स्वात्मा। चापि (इदं समुच्चयार्थम् )। श्रीरामं प्रति मरणासन्नस्य वालिन उक्तिरियम् ॥ ३१८॥"
पश्चात्तापं लक्षयति.-५३३ मोहावधीरितार्थस्य मोहेनाज्ञानेन विस्मृत्या वाऽवधीरितः पराभूतो योऽर्थस्तस्य । पश्चात्तापः 'मोहावसानदशायां पुनरिति शेषः । तु । स पश्चात्तापः । एव ।
उदाहरति--यथा। अनुतापाङ्केऽनुतापप्रधाने के। "रामः 'अन्तःशोचती'ति शेषः । तदा परित्यागावसरे । देव्या सीतया । बहुशः । मिथ्याऽभिशप्तो मिथ्याऽभिशप्ता येन तादृशः । किम् । न। विचुम्बितः। अस्म्यहम् । सीतां परित्यज्यानुतपतो रामस्येयमुक्तिः । मया यन्मृषा सा कलंकिता तद् यद्यपि, अवश्यं प्रसादनीयाऽप्यासीत्, अथापि न प्रसादितेति नितान्तमनर्थकारीति भावः।” यथा वाऽभिज्ञानशाकुन्तले षष्ठेऽङ्के शकन्तलामवज्ञाय दुष्यन्तस्य तामनुस्मरत उक्तौ।
उपपत्तिं लक्षयति ५३४ अर्थसिद्धये कार्यसम्पत्तये। हेतोः कारणस्य । उपन्यासः । उपपत्तिः। मता ५००
उदाहरति-यथा । वध्यशिलायां यत्र वध्यचिह्ना आरोह्यन्ते तादृश्यां शिलायामित्यर्थः । “हे शङ्खचूड 1(इदं पूर्वतोऽनुप्रसक्तम्।यात्वियि(पुत्र)। म्रियमाणे। 'सती'ति शेषः । म्रियते।तथा-जीवति 'सती'ति शेषः । जीवति । ताम् आत्ममातरम् । यदि । जीवन्तीम् । इच्छसि । तर्हि-मम जीमूतवाहनस्य । असुभिर्गरुडाय मत्समर्पणेनेति भावः । आत्मानं स्वम् । रक्ष । जीमूतवाहनस्य 'इयम् ( माता) अस्मद्विपत्तिविक्लवा न यथा जीवितं जह्यात्तथाऽभ्युपायश्चिन्त्यतामिति प्रार्थयमानं शङ्खचूडं प्रति दयावीरस्योक्तिरियम् । नागानन्दस्य चतुर्थाकस्य पद्यमिदम् ॥ ३१९ ॥"