________________
५०८
साहित्यदर्पणः। यथा वेण्याम्-'कवुकी-हा देवि कुन्ति । राजभवनपताके-' इत्यादि ।
५२५ कपटं मायया यत्र रूपमन्यद्विभाव्यते ॥ ४९६ ॥ यथा कुलपत्यङ्के'मृगरूपं परित्यज्य विधाय कपटं वपुः । नीयते रक्षसा तेन लक्ष्मणो युधि संशयम ॥३१६॥'
५२६ अक्षमा सा परिभवः स्वल्पोऽपि न विषह्यते। यथा शाकुन्तले-'राजा-भोः सत्यवादिन् , अभ्युपगतं तावदम्माभिः, किं पुनरिमामतिसन्धाय लभ्यते । शार्ङ्गरवः-विनिपातः-' इत्यादि।
५२७ गर्वोऽवलेपजं वाक्यं यथा तत्रैव-'राजा-ममापि नाम सत्त्वैरभिभूयन्ते गृहाः।'
५२८ कार्यस्यारम्भ उद्यमः ॥ ४९७ ॥ यथा कुम्भाङ्के-'रावणःपश्यामि शोकविवशोऽन्तकमेव तावत' ।
५२९ ग्रहणं गुणवत्कार्यहेतोराश्रय उच्यते । यथा विभीषणनिर्भर्त्सनाङ्के-'विभीषणः-राममेवाश्रयामि ।' इति ।
५३० उत्प्रासनं तूपहासो योऽसाधौ साधुमानिनि ॥ ४९८ ॥
उंदाहरति-यथा । वेण्या वेणीसंहारे । स्पष्टमन्यत् । धृतमुनिवेषेण दुर्योधनमित्रेण राक्षसेन श्राविते भीमहनने कश्चिकिनः प्रलापोऽयम् ।
कपटं लक्षयति-५२५ यत्र । मायया। अन्यत् । रूपम् । विभाव्यते । तत्-कपटम् ॥ ४९६ ॥ उदाहरति-यथा कुलपत्यड़े तदाख्ये रूपके । 'मृगरूप'मित्यादौ । 'तेन मारीचेन । स्पष्टमन्यत् ॥३१६ ॥ अक्षमां लक्षयति-५२६ यः स्वल्पः । अपि । परिभवः। न । विषह्यते । सा । अक्षमा।
उदाहरति-यथा। शाकुन्तलेऽभिज्ञानशाकुन्तले । 'राजा ( शारवं प्रत्याह ) अभ्युपगतं ज्ञातम् ।.. अभिसन्धाय वञ्चयित्वा । विनिपातो नरके पतनम् । 'लभ्यते'इति पूर्वतोऽन्वेति । स्पष्टमन्यत् ।
गर्व लक्षयति--५२७ अवलेपजमवलेपो धनाद्युत्कर्षेणाविनयस्तस्माज्जायते इति तथोक्तम् । वाक्यम् । गर्वः । अत्रोपचारादभेदः ।
उदाहरति- यया। तत्र अभिज्ञानशाकुन्तले । एव । 'राजा । मम । अपि । गृहाः । 'गृहाः पुंसि च
भूमन्येवे'त्यमरः । सत्त्वैः प्राणिभिः । अभिभूयन्ते परिभवं नीयन्ते । अत्र हि को नाम परिभवितुं मम गृहान् । क्षमतेति गर्वाविष्करणम् ।
उद्यम लक्षयति-५२८ कार्यस्य कर्त्तव्यस्यार्थस्य । आरम्भः । उद्यमः॥ ४९.७ ॥
उदाहरति-कुम्भा कुम्भकर्णवधप्रधानेऽङ्के । 'रावणः।-शोकविवशः कुम्भकर्णमरणजशोकपराभूतः । तावर ( इदं वाक्यालङ्कारे)। अन्तकं यमम् । एव । पश्यामि ।' अत्र हि रावणस्य परलोकगमनकार्यारम्भः ।
आश्रयं लायति-कार्यहेतोः कार्यसिद्धिनिमित्तम् । गुणवदुत्कृष्टम् । ग्रहणम् । आश्रयः । उच्यते ।
उदाहरति-यथा। विभीषणनिर्भर्सनाड़े विभीषणस्य नितराम्भर्त्सनामुपजीव्य प्रारब्धेऽङ्के । स्पष्टमन्यत् । अत्र हि-लकाराज्यप्राप्तिनिमित्तं रामचरणग्रहणम् ।
उत्प्रासनं लक्षयति-५२९ यः। साधुमानिनि सज्जनम्मन्ये । अतएव-असाधौ दुर्जने । उपहासः । स-तु। उत्प्रासनम् ॥ ४९८ ॥