________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः । यथा-गृहवृक्षवाटिकायाम्'दृश्येते तन्वि यावेतौ चारुचन्द्रमसं प्रति । प्राज्ञे! कल्याणनामानावुभौ तिष्यपुनर्वसू ॥३१३॥'
५२१ स्यात्प्रमाणयितुं पूज्यं प्रियोक्तिहर्षभाषणम् ॥ ४९१ ॥ यथा शाकुन्तले
'उदेति पूर्व कुसुमं ततः फलं घनोदयः प्राक्तदनन्तरं पयः।
निमित्तनैमित्तिकयोरय विधिस्तव प्रसादस्य पुरस्तु सम्पदः ॥ ३१॥' अथ नाट्यालंकाराः५२२ आशीराक्रन्दकपटाक्षमागर्वोद्यमाश्रयाः ।
उत्मासनस्पृहाक्षोभपश्चात्तापोपपत्तयः॥ ४९२ ॥ आशंसाध्यवसायौ च विसपोल्लेखसज्ञितौ ।' उत्तेजनं परीवादो नीतिरर्थविशेषणम् ॥ ४९३ ॥ प्रोत्साहनं च साहाय्यमभिमानोऽनुवर्तनम् । उत्कीर्तनं तथा याच्या परिहारो निवेदनम् ॥ ४९४ ॥ प्रवर्तनाख्यानयुक्तिपहश्चिोपदेशनम् । . .
इति नाट्यालङ्कृतयो नाट्यभूषणहेतवः ॥ ४९५ ॥ ५२३ आशीरिष्टजनाशंसा यथा शाकुन्तले'ययातेरिव शर्मिष्ठा पत्युर्बहुमता भव । पुत्रं त्वमपि सम्राजं सेव पूरुमवाप्नुहि ॥३१५॥'
५२४ आक्रन्दः प्रलपितं शुचा।
उदाहरति-यथा। गृहवृक्षवाटिकायां गृहोपवने । 'विश्वामित्रसमीपे रामलक्ष्मणौ दृष्ट्वा नायको नायिका प्रत्याहे'ति शेषः । हे तन्वि कृशोदरि ! यौ । एतौ । चारुचन्द्रमसं प्रति सुन्दरचन्द्रसन्निधौ। दृश्यते । तौ-उभौ । हे प्राज्ञे विदुषि ! कल्याणनामानौ सुगृहीताभिधेयौ। तिष्यपुनर्वसू पुष्यः पुनर्वसुश्चेत्यर्थः ॥३१३॥
प्रियवचो लक्षयति-५२१ पूज्यम् । प्रमाणयितुं प्रमाणं कर्तुम् । यत्-हर्षभाषणं हर्षावहवाक्यम् । तत्प्रियोक्तिः प्रियवचो नाम नाटयलक्षणमिति भावः । स्यात् ॥ ४९१॥
उदाहरति-यथा । शाकुन्तलेऽभिज्ञानशाकुन्तले । पूर्वम् । कुसुमं पुष्पम् । उदेति-विकसति । ततः तदनन्तरम् । फलम् । प्राक़ । घनोदयो जलधरः । तदनन्तरम् । पयः। निमित्तनैमित्तिकयोः कार्यकारणयोः । विधिनियमः । अयम् । तव मारीचस्य महर्षेः। तु। प्रसादात् । पुरः। सम्पदः । प्रसादोत्तरं सम्पत्सद्भाव उचितः, कित्त्वन्यत्रैवं नियमो नात्राचिन्त्यप्रभावे भगवतीति भावः । वंशस्थं वृत्तम् ॥ ३१४ ॥'
एवं लक्षणानि दर्शयित्वा नाट्यालङ्कारान् दर्शयितुमाह-अय । नाट्यालङ्काराः। नामतो निर्दिश्यन्ते-५२२ आशीरित्यादिना । स्पष्टम् ॥ ४९२-४९५॥
आशिष लक्षयति-५२३ इष्टजनाशंसेप्टजनस्य बान्धवादेराशंसाऽभिमतप्राप्तीच्छा । आशीः। - उदाहरति-यथा । शाकुन्तले। 'कण्वः शकुन्तला प्रत्याहेति शेषः । 'ययातेस्तदाख्यस्य नरेन्द्रस्य । शर्मिष्ठा तदाख्या राज्ञी। इव । पत्युर्दुष्यन्तस्य । बहमताऽत्यन्तं सम्मानिता । भव | सा शर्मिष्ठा । पूरुं तदाख्यं पुत्रम् । इवा त्वम् । अपि । सम्राजं चक्रवर्तिनम् । पुत्रम् । अवाप्नुहि लभस्व ॥ ३१५॥'
आकन्दं लक्षयति-५२४ शुचा शोकेन । प्रलपितं प्रलापः । आक्रन्दः।