________________
५०६ साहित्यदर्पणः।
[षष्ठः५१६ सङ्केपो यत्तु स पादात्माऽन्यार्थे प्रयुज्यते । यथा मम चन्द्रकलायाम्-'राजा-प्रिये,
____ 'अङ्गानि खेदयसि किं शिरीषकुसुमपरिपेलवानि मुधा । (आत्मानं निर्दिश्य ) अयमीहितकसमानां सम्पादयिता तवास्ति दासजनः ॥३१०॥'
५१७ गुणानां कीर्तनं यत्तु तदेव गुणकीर्तनम् ॥ ४८९ ॥ यथा तत्रैव
'नेत्रे खञ्जनगञ्जने सरसिजप्रत्यर्थि-' इत्यादि ।
५१८ सलेशो भण्यते वाक्यं यत्सादृश्यपुरःसरम् । यथा वेण्याम्-'राजा
'हते जरति गाङ्गेये पुरस्कृत्य शिखण्डिनम् ।
या श्लाघा पाण्डुपुत्राणां सैवास्माकं भविष्यति ॥ ३११॥' ५१९ मनोरथस्त्वभिप्रायस्योक्तिर्भङ्गयन्तरेण यत् ॥ ४९० ॥
यथा
'रतिकेलिकलः किश्चिदेष मन्मथमन्थरः । पश्य सुभ्र ! समालम्भात्कादम्बश्चुम्बति प्रियाम् ॥ ३१२॥" ५२० विशेषार्थीहविस्तारोऽनुक्तसिद्धिरुदीर्यते ।
सङ्क्षपं लक्षयति-५१६ यत् यतः । तु। अन्यार्थे । सझेपालघूकृत्य। आत्मा प्रयुज्यते। सः-सक्षेपः ।
उदाहरति-यथा। मम । चन्द्रकलायाम् । 'राजा। (कुसुमावचयं कुर्वन्ती प्रत्याह)। हे प्रिये!मुधा व्यर्थम् । शिरीषकुसुमपेलवानि शिरीषपुष्पाणीव कोमलानि । अङ्गानि । किम् । खेदयसि । ननु कस्तहिं पुष्पाण्यवचिनुयादित्याह-(आत्मानम् । निर्दिश्य लक्षयित्वा) अयम्।तवादासजनःसेवकः । ईहितकुसुमानामभिलषितानां पुष्पाणाम् । सम्पादयिता सङ्ग्रहीताऽवतिष्ठते । अत्रात्मनो दासत्वेनोद्भावनम् । आयां छन्दः ॥ ३१०॥'
गुणकीर्तनं लक्षयति-५१७ गुणानामित्यादिना । स्पष्टम् ॥ ४८९ ॥ उदाहरति-यथा। तत्र तस्यां चन्द्रकलायाम् । एव । 'नेत्रे..' इत्यादि । व्याख्यातपूर्वमिदम् । लेशं लक्षयति-५१८ यत् । सादृश्यपुरःसरं सादृश्यतात्पर्यकम् । वाक्यम्। भण्यते उच्चार्यते । सः। लेशः ।
उदाहरति-यथा वेण्या वेणीसंहारे । 'राज्ञा दुर्योधनः (विनयन्धरं कञ्चुकिनं प्रत्याह ) शिखण्डिनं स्त्रीपूवैत्वात् दत्ताभयं द्रुपदपुत्रम् । पुरस्कृत्य । जरति वृद्धे । 'जीनो जीणों जरनपी त्यमरः । गाड़ेये गङ्गानन्दने भी मे । हते निधनं प्रपिते । या । पाण्डुपुत्राणाम् । श्लावाऽपयश इति भावः । सा । एव । अस्माकमेकाकिनमशस्त्रं बालमभिमन्यु निहतवताम् । भविष्यति । अत्र हि पाण्डवकर्तकभीष्महननस्य सादृश्योद्भावनम् ॥ ३११॥' ।
मनोरथं लक्षयति-५१९ यत् यतः । भङ्गयन्तरेण प्रकारान्तरेण । 'व्याजच्छलनिभे भङ्गिरिति रभसः । अभिप्रायस्य । उक्तिः कथनम् । तु । मनोरथः ॥ ४९०॥
. उदाहरति-यथा-'हे सुध्रु! पश्य । एषः। रतिकेलिकलो रत्यै केलिकला यस्य तथोक्तः । अत एवकिश्चित । मन्मथमन्धरो मन्मथः कामस्तेन मन्थरः शिथिलोऽन्यतो विमुखः । समालम्भादादराधिक्येन । कादम्बो हंसः। 'कादम्बः कलहंसः स्या'दित्यमरः। प्रियां हंसीम् | चुम्बति। अत्र स्वस्य चुम्बनाभिप्रायः सूचितः॥३१२॥'
अनुक्तसिद्धिं लक्षयति-५२० विशेषार्थोहविस्तारो विशेषो रूपलावण्यातिशयस्तस्याओं ज्ञापनं तदर्थ य महायाश्चेष्टामा विस्तारः । अनुक्तसिद्धिः। उदीर्यते कथ्यते ।