________________
परिच्छेदः] रुचिराख्यया व्याख्यया समेतः।
५०५ यथा तत्रैव-कर्ण प्रति 'अश्वत्थामा
निवार्य गुरुशापभाषितवशास्कि मे तवेवायुधं सम्प्रत्येव भयाद्विहाय समरं प्राप्तोऽस्मि किं त्वं यथा । जातोऽहं स्तुतिवंशकीर्तनविदां किं सारथीनां कुले
क्षुद्रारातिकृताप्रियं प्रतिकरोम्यस्त्रेण नास्त्रेण यत् ॥ ३०८॥'
५१३ अभ्यर्थनापरैर्वाक्यैः पृच्छान्वेिषणं मता ॥ ४८७ ॥ यथा तत्रैव-'सुन्दरकः-अजा, अवि णाम सारधिदुदिओ दिट्ठो तुझेहिं महाराओ दुर्योधणो ण वेति ।'
५१४ प्रसिद्धिलॊकसिद्धार्थैरुत्कृष्टैरर्थसाधनम् । यथा विक्रमोर्वश्याम्-'राजा
सूर्याचन्द्रमसौ यस्य मातामहपितामहौ । स्वयं कृतः पतिर्दाभ्यामुर्वश्या च भुवा च यः ॥ ३०९ ॥'
५१५ सारूप्यमभिभूतस्य सारूप्यात्क्षोभवर्धनम् ॥ ४८८॥ यथा वेण्याम्-दुर्योधनभ्राग्त्या भीमं प्रति 'युधिष्ठिरः-दुरात्मन् , दुर्योधनहतक-'इत्यादि । उदाहरति-यथा । तत्र वेणीसंहारे । एव । कर्णम् । प्रति । अश्वत्थामा ( आह)
किम् । तदेव । मे मम । आयुध शस्त्रम् । गुरुशापभाषितवशात् गुरोः शापमहिम्ना। निर्वीर्यमकिञ्चित्करम् । किम । यथा । त्वम् । सम्प्रतीदानीम् । एव । भयात् । समरं सङ्ग्रामम् । विहाय । प्राप्तः । तथा-अस्म्यहम् । 'प्राप्त' इति पूर्वतोऽन्वेति । किम् । अहम् । त्वमिवेति शेषः । स्तुतिवंशकीर्तनविदा स्ततिः प्रशंसा वंशकीर्तनं चेति ते विदन्ति जानन्तीति तेषाम् । सारथीनाम्। कुले। जातः। अहम् । यत् । क्षुद्रारातिकृताप्रियं क्षुद्रा येऽरातयः शत्रवः तैः कृतमप्रियम् । अत्रेणाश्रुपातेन । प्रतिकरोमि । अस्त्रेण । न । 'प्रतिकरोमी'ति पूर्वतोऽन्वेति । अत्र शार्दूलविक्रीडितं वृत्तम् ॥ ३०८ ॥'
पृच्छां लक्षयति-५१३ अभ्यर्थनापरैः सविनयैः । वाक्यैः । अर्थान्वेषणं कार्यगवेषणम् । पृच्छा। मता॥ ४८७ ॥
उदाहरति-यथा । तत्र वेणीसंहारे । एव । 'सुन्दरकः कर्णसारथिः । अज्जा आर्याः । अवि अपि । णाम । नाम । सारधिदुदिओ सारथिद्वितीयः । महाराओ महाराजः । दुय्योधणो दुर्योधनः । तुह्महिं युष्माभिः । दिवो दृष्टः । ण वेत्ति न वेति ।'
प्रसिद्धिं लक्षयति-५१४उत्कृष्टैः । लोकसिद्धार्थैर्लोकप्रसिद्वैः कार्यैः । अर्थसाधनम् । प्रसिद्धिः ।
उदाहरति-यथा । विक्रमोर्वश्याम् । 'राजा सोऽय'मिति शेषः । यस्य । सूर्याचन्द्रमसौ सूर्यश्चन्द्रश्च । मातामहपितामहौ मातुः पिता, पितुः पिता च । यः । च । स्वयमात्मना । उर्वश्या तदाख्यया देवाङ्गनया। भुवा पृथिव्या । च । इति-द्धाभ्याम् । पतिः । कृतः। (इदम्बोध्यम् ) पुरूरवाश्चन्द्रपुत्रस्य बुधस्य पुत्र इति चन्द्रस्तस्य पितामहः । सूर्यपौत्रस्य मानवस्य सुयुम्नस्य 'इतःप्रभृतीह य आगन्ता स स्त्री भविष्यतीति रुदेण प्रशप्ते देशे प्रविष्टस्य स्त्रीत्वे उत्पन्न इति सूर्यो मातामहः । यद्यपि तथा प्रमातामहत्वं तथाऽप्युपचारात्तथा प्रयोगः। इति ॥३०९॥' .. सारूप्यं लक्षयति -५१५ अभिभूतस्य । तिरस्कृतस्य । 'अनुरूपस्थे'ति पाठान्तरे सशस्येत्यर्थः । स्पष्टमन्यत् ॥ ४८८ ॥
उदाहरति-यथा । वेण्यां वेणीसंहारे । स्पष्टमन्यत् ।