________________
- साहित्यदर्पणः। एवं चेष्टयापि ।
५०९ वाक्यैः स्निग्धैरनुनयो भवेदर्थस्य साधनम् ॥ ४८५ ॥ यथा वेण्याम-अश्वत्थामानं प्रति 'कृपः-दिव्यास्त्रग्रामकोविदे भारद्वाजतुल्यपराक्रमे किं न सम्भाव्यते त्वयि ।'
५१० माला स्याद्यदभीष्टार्थ नैकार्थप्रतिपादनम् । यथा शाकुन्तले-'राजा
किं शीतलैः क्लमविमर्दिभिरार्द्रवातं सञ्चारयामि नलिनीदलतालवृन्तः । अङ्के निवेश्य चरणावुत पद्मताम्रौ संवाहयामि करभोरु ! यथासुखं ते ॥ ३०६॥'
___५११ अर्थापतिर्यदन्यार्थोऽर्थान्तरोक्तेः प्रतीयते ॥ ४८६ ॥ यथा वेण्याम्-द्रोणोऽश्वत्थामानं राज्येऽभिषेक्तुमिच्छतीति कथयन्तं कर्ण प्रति 'राजा-साधु अङ्गराज! साधु । कथमन्यथा
दत्त्वाभयं सोऽतिरथो वध्यमानं किरीटिना ।
सिन्धुराजमुपेक्षेत नैवं चेत्कथमन्यथा ॥ ३०७ ॥' ५१२ दूषणोद्धोषणायां तु भर्त्सना गर्हणं तु तत् ।
लङ्काम् । पुरीम् । प्रसाधयालकुरु । हि यतः । त्वम् । हि । अस्याः राजा । कथमहमित्यत आह-आर्येण श्रीरामेण । अनुगृहीतस्य । सिद्धिम् । अन्तरा विना । न । विघ्नः किंतु-सिद्धिर्भवत्येवेति भावः ॥३०५॥'
एवम् । चेष्टया । अपि । 'ऊह्यमुदाहरण मिति शेषः । तद् यथाऽभिज्ञानशाकुन्तले 'तदहमेनामनृणां करोमि' इत्यङ्गुलीयकं ददाति ।' इत्यत्र हि-अगुलीयकदानेन शकुन्तलायाः प्रीणनम् ।
अनुनयं लक्षयति-५०९स्निग्धैः । वाक्यैः । अर्थस्य कार्यस्य । साधनं सम्पादनम् । अनुनयः ॥ ४८५ ॥
उदाहरति-यथा। वेण्यां वेणीसंहारे। अश्वत्थामानम् । प्रति । 'कृपः (आह)। दिव्यास्त्रग्रामकोविदे दिव्यानि यान्यस्त्राणि तेषां ग्रामः साकल्यं तस्य कोविदश्चतुरस्तस्मिन् । भारद्वाजतुल्यपराक्रमे द्रोणानुरूपपराक्रमशालिनि । स्वयि अश्वत्थानि । किम् । न । सम्भाव्यते किंतु सर्व सम्भाव्यते इति भावः ।'
मालां लक्षयति-५१. यत् । अभीष्टार्थमभिप्रेतार्थसिद्धये । नैकार्थप्रतिपादनमनेकोपायानुष्ठानम् । माला। स्यात् ॥ ४८६ ॥ ___ उदाहरति-यथा । शाकुन्तले 'राजा-शीतलैः सन्तापहरणक्षमैः । अत एव-क्लमविमर्दिभिः क्लमं ग्लानि विमर्दयन्तीत्येवंशीलैः । नलिनीदलतालवृन्तः कमलिनीदलरूपन्यजनैः । किम् । आर्द्रवातं शीतलं पवनम् । सञ्चारयामि। उताथवा । हे करभोरु ! अङ्के उत्सङ्गे। निधाय। पद्मताम्रौरक्तकमकसदृशौ। ते।चरणौ। यथासुखं यथा क्लेशो न भवेत्तथेति भावः । संवाहयामि प्रापयामि । अत्र दुष्यन्तस्य सुरतार्थ वायुसञ्चारणाद्युपायालम्बनम् । अत्र वसन्ततिलकं वृतम् ॥ ३०६ ॥'
अर्थापत्तिं लक्षयति-५११ यत् यदि । अर्थान्तरोक्तरन्यार्थकथनेन । अन्यार्थस्तद्भिन्नोऽभिप्रायः । प्रतीयते। तर्हि-अर्थापत्ति ॥ ४८६ ॥
उदाहरति-यथा । वेण्यां वेणीसंहारे। 'द्रोणः...अङ्गराजादेशाधिराज कर्ण ।... स द्रोणः । अतिरथोडमितरथिमिः सममेकः सन् योद्धं प्रत्युत तांश्च पराजेतुं समर्थः । किरीटिनाऽर्जुनेन ।.. सिन्धुराज जयन्द्रथम् । अन्यथा किरीटी तं कथं हन्तुं प्रभवेदिति भावः । स्पष्टमन्यत् अत्र हि द्रोणेन जयद्रथवधापेक्षयाऽश्वत्थाम्रोऽभिषेक एवाभिमत इति स्थिरीकरणम् ॥ ३०७ ॥'
गर्हणं लक्षयति-५१२ दूषणोद्धाषणायामित्यादिना । भर्त्सना तिरस्कारः । स्पष्टमन्यत् ।