________________
पारच्छेदः ]
रुचिराख्यया व्याख्यया समेतः । यथा वेण्याम्'निहताशेषकौरव्यः क्षीबो दुःशासनासृजा । भङ्गा दुर्योधनस्यो: मोऽयं शिरसा नतः॥३०१॥'
५०५ बहूनां कीर्तनं सिद्धिरभिप्रेतार्थसिद्धये ॥ ४८३ ॥ यथा-- 'यद्धीर्य कूर्मराजस्य यश्च शेषस्य विक्रमः । पृथिव्या रक्षणे राजनेकत्र त्वयि तत्स्थितम्॥३०२॥'
५०६ हप्तादीनां भवेद्भशो वाच्यादन्यतरद्वचः।। वेण्याम-कञ्चुकिनं प्रति 'दुर्योधनः
सहभृत्यगणं सबान्धवं सहमित्रं ससुतं सहानुजम् । स्वबलेन निहन्ति संयुगे न चिरात्पाण्डुसुतः सुयोधनम् ॥३०३॥'
५०७ विचारस्यान्यथाभावः संदेहात्तु विपर्ययः ॥ ४८४ ॥ यथा'मस्वा लोकमदातारं संतोषे यैः कृता मतिः । त्वयि राजति ते राजन्न तथा व्यवसायिनः॥३०४॥'
५०८ दाक्षिण्यं चेष्टया वाचा परचित्तानुवर्तनम् ।। वाचा यथा'प्रसाधय पुरी लङ्कां राजा त्वं हि बिभीषण । आर्येणानुगृहीतस्य न विनः सिद्धिमन्तरा॥३०५॥'
उदाहरति-यथा । वेण्यां वेणीसंहारे ( भीमः कृतकार्यो युधिष्टिरचरणान्तिकं प्रतिपद्याह ) 'निहिताशेषकौ. रव्यो निहता अशेषाः कौरव्या दुर्योधनादयो येन सः । दःशासनासृजा दुःशासनरुधिरेण लक्षणया तद्रूपमधुपानेन । क्षीबो मतः । दुर्योधनस्य । ऊः। भङ्गा हन्ता अयम् । भीमः। शिरसा । नतः 'स्वा'मिति शेषः॥३०१॥'
सिद्धिं लक्षयति-५०४ अभिप्रेतार्थसिद्धयेऽभिमतस्यार्थस्य निष्पत्त्यर्थम् । बहूनामेकव्यतिरिक्तानामित्यर्थः । अत्रापि बहुवचनमविवक्षितम् । कीर्तनम् । सिद्धिः ॥ ४८३ ॥ . उदाहरति-यथा- 'यद्धीर्य'मित्यादौ । स्पष्टोऽर्थः । अत्र हि पृथिवीपालनभारासहिष्णुत्वातिशय बोधयितुं राज्ञि कूर्मशेषयोर्गुणसद्भावकथनम् ॥ ३०२॥
भ्रंशं लक्षयति-५०६ दृप्तादीनाम् । आदिप्रदेन-हृष्टदुःखितोद्विग्नादीनां ग्रहणम् । वाच्याद्वक्तुं युक्तात् । अन्य. तरद्भिन्नम् । वचः । भ्रंशः। भवेत्।
उदाहरति-वेण्या वेणीसंहारे । 'दुर्योधनः । कञ्चुकिनम् । प्रति । 'आहे'ति शेषः ।
पाण्नुसतो युधिष्ठिरः । स्वबलेन निजपराक्रमेण नतु परसाहाय्येन । सहभृत्यगणमनुचरसहितम् । सबान्धवं बन्धुजनसहितम्। सहमित्रं कर्णादिसहितम्। ससुतं सलक्ष्मणादिपुत्रवर्गम् । सहानुजं दुर्योधनादिसहितम् । सुयोधनम् । न चिरात झटिति । संयुगे सझामे । निहन्ति । अत्र 'पाण्डुसुतं सुयोधन' इति वक्तव्यम् , किन्तु प्रमादात्तथा विपरीतमुक्तमिति भ्रंशः। अत्र सुन्दरीवृत्तम्, तल्लक्षणं च यथोक्तम्, 'विषमे ससजा गुरुः समे सभरा ल्गौ यदि सुन्दरी तदा ।' इति ॥ ३३० ॥'
विपर्ययं लक्षयति-५०७ सन्देहात।तु पुनः। विचारस्य चिन्तितार्थस्य । अन्यथाभावः। विपर्ययः॥४८४॥
उदाहरति-यथा-यैः। लोकं संसारम् । अदातारं कृपणम् । मत्वा । सन्तोषे । मतिर्निश्चयः । कृता। हैराजन् ! त्वयि । राजति विराजमाने सति । न । तथा। 'यथापूर्व सर्व लोकं कृपणं ज्ञातवन्त' इति शेषः । व्यवसायिनः। अत्र त्वादृशेऽदातृत्वस्य विचाराभावः किन्तु दातृत्वस्यैवेति पूर्वविचारत्यागः ॥ ३०४ ॥'
दाक्षिण्य लक्षयति-५०८ चेष्टया। वाचा। च-परचित्तानुवर्तनं सेवनीयजनाभिप्रायानुकूलतया भवनमिति भावः । दाक्षिण्यम्।
उदाहरति-वाचा 'परचित्तानुवर्तन'मिति शेषः । यथा-( लक्ष्मणो विभीषणं प्रत्याह) 'हे विभीषण