________________
५०२
साहित्यदर्पणः ।
५०१ गुणातिपातः कार्यं यद्विपरीतं गुणान्प्रति ॥ ४८१ ॥
यथा मम चन्द्रकलायां चन्द्रं प्रति
( पष्ठ:
'जइ संहरिज्जइ तमो धेय्यइ सअलेहिं ते पाओ ।
वसति सिरे पसुबइणो तहवि ह इत्थीअ जीअणं हरसि ॥ २९८ ॥' ५०२ यः सामान्यगुणोद्रेकः स गुणातिशयो मतः ।
यथा तत्रैव - 'राजा - ( चन्द्रकलाया मुखं निर्दिश्य । ) असावन्तश्चञ्चद्विकचनवनीलाब्जयुगल - स्तलस्फूर्जत्कम्बुर्विलसद लिसङ्घात उपरि । विना दोषास सततपरिपूर्णाखिलकलः कुतः प्राप्तश्चन्द्रो विगलितकलङ्कः सुमुखि ! ते ॥ २९९॥' ५० ३ सिद्धानर्थान्बहूनुक्त्वा विशेषोक्तिर्विशेषणम् ॥ ४८२ ॥
यथा
1
' तृष्णापहारी विमलो द्विजावासो जनप्रियः। हृदः पद्माकरः, किंतु बुधस्त्वं स जलाशयः ३०० ' ५०४ पूर्वसिद्धार्थकुथनं निरुक्तिरिति कीर्त्यते ।
गुणातिपातं लक्षयति- ५०१ यत् । गुणान् । प्रति । विपरीतं प्रतिकूलम् । कार्यम् । सत्खपि गुणेषु दुष्टात्मना भवनरूपमित्यर्थः । गुणातिपातः ॥ ४८१ ॥
उदाहरति यथा । मम । चन्द्रकलायाम् । चन्द्रम् । प्रति 'नायकविरहिता चन्द्रकला आहे'ति शेषः । 'जइ यदि । तमो तमः । संहरिज्जई संहियते 'स्वये 'ति शेषः । तर्हि ते तव । पाओ पादः किरणः | 'चरण' मिति श्लेषः । सअलेहिं सकलैः । धेय्यइ गृह्यते । संहर्तु चरणोपासनं विरुद्ध, मथाप्यद्य सम्भवतीति भावः । पसुबइणो पशुपतेर्देवदेवस्य महेश्वरस्येति यावत् | सिरे शिरसि । वससि निवससि । तहवि तथाऽपि तत्पुनरिति यावत् । इथी स्त्रिया: मादृश्या वियोगिन्या इति यावत् । जीअणं जीवनम् । हरसि । महादेवेन यदा शिरसि स्थापितः तत्पुनस्त्वं स्त्रिया नतु कस्यचिद्वीरस्य प्राणान् हर्तुं प्रवृत्त इति भावः ॥ २८९ ॥'
गुणातिशयं लक्षयति-५०२ यः । सामान्यगुणोद्रेकः सामान्यगुणेभ्य उपमानोपमेयवृत्तिसाधारणधर्मेभ्य उद्रेक अतिशयित्वप्रतिपादनम् । सः । गुणातिशयः । मतः ।
उदाहरति यथा । तत्र चन्द्रकलायाम् । एव । 'राजा ( चन्द्रकलायाः मुखं निर्दिश्य ) - हे सुमुखि । असौ । अन्तश्चश्च... अन्तर्गर्भे चञ्चत्स्फुरत् यत् विकचं प्रफुलं नवलीलाब्जयुगलं तद्रूपं नेत्रद्वयं यस्य सः । तलस्फूर्जकम्बुस्तलेऽधोभागे स्फूर्जन् कम्बुः कण्ठरूपः शङ्खो यस्य सः । उपरि । विलसदलिसङ्कातो विलसन्नलीनां भ्रमराणां सङ्घातो वालपुञ्जरूपो यस्य सः । दोषासङ्गं रात्रेः सम्बन्धम् । अन्यत्र दूषणानां सम्पर्कम् । विना । सततपरिपूर्णाखिलकलः सततं निरन्तरं परिपूर्णा अखिलाः कलाः षोडशभागाः कलाशास्त्राणि वा यस्य तथोक्तः । विगलितकलङ्को दूरीकृतलाञ्छनः । चन्द्रः । कुतः । प्राप्तः । अत्र साधारणधर्माणामतिशय उपमेयगतः । एवमन्यत् । अत्र शिखरिणीवृत्तम् ॥ २९९ ॥ '
विशेषणं लक्षयति- ५० ३ सिद्धान् प्रसिद्धान। बहून् । अर्थान् वस्तूनि । उक्त्वा । विशेषोक्तिर्भेदाभिधानम् । विशेषणम् ॥ ४८२ ॥
उदाहरति यथा । ' तृष्णाऽपहारी जलदानेन धनदानेन च परस्य तृषां लिप्सां वाऽपहरतीति तथोक्तः । विमलोऽनुत्थितरजस्कः पूतश्च । द्विजावासो द्विजानां पक्षिणां ब्राह्मणानां वाssवास आश्रयो यत्र यस्माद्वा सः । जनप्रियः । पद्माकरः कमलानामाकरभूतः पद्माया लक्ष्म्या वाssकरः । हृदः । किंतु । हे राजन् त्वं भवान् । बुधः । स हदः । पुनः - जडाश्रयो जलाश्रय इति तु श्लिष्टाऽर्थः ॥ ३०० ॥'
निरुक्ति लक्षयति- ५०४ पूर्वसिद्धार्थकथनं पूर्वतः सम्पन्नानामर्थानां प्रतिपादनम् । निरुक्तिः । इति । कीर्त्यते ।