________________
परिच्छेदः]
रुधिराण्यया व्याख्यया समेतः। यथा मम प्रभावत्याम्-'अनेन खलु सर्वतश्चरता चश्चरीकेणावश्यं विदिता भविष्यति प्रियतमा मे प्रभावती।
४९८ विचारो युक्तिवाक्यैर्यदप्रत्यक्षार्थसाधनम् । यथा मम चन्द्रकलायाम्-'राजा-नूनमियमन्तःपिहितमदनविकारा वर्तते । यतः। .
हसति परितोषरहितं निरीक्ष्यमाणाऽपि नेक्षते किंचित् । सख्यामुदाहरन्त्यामसमधसमुत्तरं दत्ते ॥ २९५ ॥'
४९९ देशकालस्वरूपेण वर्णना दिष्टमुच्यते ॥ ४८० ॥ यथा वेण्याम्-'सहदेवःगद्वैद्युतमिव ज्योतिरायें कुद्धेऽद्य सम्भृतम् । तत्प्रावृडिव कृष्णेयं नूनं संवर्धयिष्यति ॥२९६॥'
५०० उपदिष्टं मनोहारि वाक्यं शास्त्रानुसारतः । यथा शाकुन्तले
'शुश्रूषस्व गुरुन्कुरु प्रियसखीवृत्तिं सपत्नीजने भर्तुर्विप्रकृताऽपि रोषणतया मा स्म प्रतीपं गमः। भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ॥२९७ ॥'
उदाहरति-यथा । मम । प्रभावत्याम । 'अनेनैत्यादौ । चश्चरीको भ्रमरः । स्पष्टमन्यत् । 'अत्र हि सर्वतः सौरभलोभेन भ्रमणेनांशेन सुरभितवदनायाः प्रभावत्या दर्शनं निश्चितम् । इति प्रन्थस्य हृदयम् ।
विचारं लक्षयति-४९८ युक्तिवाक्यैर्नीतिपूर्णैर्वाक्यः । यत् । अप्रत्यक्षार्थसाधनं परोक्षस्यार्थस्य निर्णयः । विचारः ।
उदाहरति-यथा । मम । चन्द्रकलायां तदाख्यायां नाटिकायाम् । 'राजा-नूनम् असंशयम् । इयं चन्द्रकलाऽभिधेया प्रेयसी। अन्तःपिहितमदनविकाराऽन्तर्वलत्कामाग्निना पुटपाकसदृशी। वर्तते । यतः
परितोषरहितमुदासीनतया। हसति।निरीक्ष्यमाणा परैरवलोकविषयीक्रियमाणा। अपि । किश्चित् । न ईक्षते पश्यति । सख्यां प्रियसहचर्याम्। उदाहरन्त्यां श्वेलितं कथयन्त्याम् । असमञ्जसमप्रियम् । उत्तरम्। दत्ते ॥ २९५ ॥"
दिष्टं लक्षयति-४९९ देशकालानुसारेण देशकालानुरूपतया । वर्णना । दिष्टम् । उच्यते ॥ ४८० ॥
उदाहरति-यथा । वेण्यां वेणीसंहारे । 'सहदेवः 'नेयथ्याभिमुखमवलोक्यात्मगत'मिति शेषः । क्रुद्धे । आर्ये ज्येष्ठे भीमसेने इति यावत् । यत् । वैद्युतमिव विद्युत्सम्बन्धीव । ज्योतिस्तेजः क्रोधाग्निरिति यावत् । सम्भृतं स्थितम् । तत् तेजः (कर्म) प्रावृडिव वर्षा इव । इयम् । कृष्णा द्रौपदी । नूनम् । संवर्धयिष्यति ॥ २९६ ॥'
उपदिष्टं लक्षयति-५००शास्त्रानुसारतो यथाशास्त्रं सदिति भावः । मनोहारि । वाक्यम् । उपदिष्टम।
उदाहरति-यथा। शाकुन्तले। (कण्वः शकुन्तला प्रत्याह)-'गुरून श्वधूप्रभृतीन् पूज्यजनान् । शुश्रूषस्व सेवस्व । सपत्नीजने पत्युर्नायिकान्तरे । प्रियसखीपूर्ति प्रियसख्युचितं व्यवहारं प्रकटय । विप्रकृता तिरस्कृता। अपि । रोषणतयेय॑या । भर्तः। प्रतीपं प्रतिकूलताम् । मास्म नैव । गमो याहि । परिजने सेवकजने । भूयिष्ठमतिशयेन । दक्षिणा चतुरा सर्वतोऽनुकूलताऽऽपादनशीलेति यावत् । भव । भाग्येषु सपत्नीनामैश्वर्येषु । अनुत्तेकिन्यनुत्कण्ठिता भव । एवं मदुपदिष्टमार्गेण प्रवर्त्तमानाः । युवतयः स्त्रियः । गृहिणीपदं गृहाधीश्वरीत्वम् । यान्ति । इतः-चामाः प्रतिकूलशीलाः 'पुनः' इति शेषः । कुलस्य । आधयः शोककारणभूता भवन्ति । यद्वावामाः सुन्दर्यः। कुलस्याधय उज्जीवनाशारूपा भूत्वा गृहिणीपदं यान्तीत्यर्थः। 'वामौ वल्गुप्रतीपौ द्वौ' इत्यमरः । 'आधिमानसपीडायां प्रत्याशायां च बन्धने । व्यसने चाप्यधिष्ठाने' इति विश्व शार्दूलविक्रीडितं वृत्तम् ॥ २९७ ॥'