________________
साहित्यदर्पणः । ४९४ संश्चयोऽर्थानुरूपो यः पदानां स पदोच्चयः ॥ ४७७ ॥ यथा शाकुन्तले-'अधरः किसलयरागः कोमलविटपानुकारिणौ बाहू।
कुसुममिव लोभनीयं यौवनमङ्गेषु संनद्धम् ॥ २९२॥' अत्र पदपदार्थयोः सौकुमार्य सदृशमेव । - ४९५ यत्रार्थानां प्रसिद्धानां क्रियते परिकीर्तनम् ।
परपक्षव्युदासाथै तन्निदर्शनमुच्यते ॥ ४७८ ॥ यथा'क्षात्रधर्मोचितैर्धमैरलं शत्रुवधे नृपाः । किं तु वालिनि रामेण मुक्तो बाणः पराङ्मुखे॥२९३॥'
४९६ अभिप्रायस्तु सादृश्यादभूतार्थस्य कल्पना । यथा शाकुन्तले-'इदं किलाव्याजमनोहरं वपुस्तपःक्लमं साधयितुं य इच्छति ।
ध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेनुमृषिर्व्यवस्यति ॥२९४॥' ४९७ प्राप्तिः केनचिदंशेन किश्चिद्यत्रानुमीयते ॥ ४७९ ॥
पदोश्चर्य लक्षयति-२९४यः । अर्थानुरूपोऽयभिधेयसदृशः । पदानाम् । सञ्चयः । सः । पदोच्चयः ॥४७७॥
उदाहरति-यथा । शाकुन्तलेऽभिज्ञानशाकुन्तले । 'अधर'इत्यादौ ।
'अधरोऽधरौष्ठः । किसलयरागः किसलयस्य रागो रक्तिमा तद्रूप इति यावत् । बाहू । कोमलविटपानुकारिणौ कोमलौ अभिनवोद्भवौ यौ विटपौ स्कन्धोवंशाखौ तदनुकारिणौ । यौवनम् । लोभनीयं स्पृहणीयम् । कुसुममिव । अङ्गेषु अवयवेषु । सन्नद्धं संलग्नम् । 'अत्राझेष्विति बहुवचनेन वदने कान्तिमत्ता, नेत्रयोस्तरलता। कण्ठे कम्बुत्रिरेखावत्त्वम् , वक्षसि स्तनोज्जृम्भणम् , नाभौ गभीरता, नितम्बे मध्यनिम्नत्वम् , उभयभागे चतुरस्रत्वम् , जघनजङ्घाजानुमण्डलोरुदेशानां मांसलत्वम्, गतौ सविलासत्वमित्यादि ध्वनितम्'इति टिप्पणीकाराः । गतेरङ्गत्वाभावात् तत्र तथा सविलासत्वध्वनिश्चिन्त्यः । शकुन्तलां दृष्टवतो दुष्यन्तस्येयमुक्तिः, अत्र स्फुटः प्रतिपाद्यायाः कोमलाङ्गयाः शकुन्तलाया अनुरूपः कोमलपदविन्यासः ॥ २९२ ॥'
लक्ष्यं समर्थयते-अत्रेत्यादिना । पदार्थः प्रतिपाद्यः शकुन्तलारूपोऽर्थः । स्पष्टम् ।
निदर्शनं लक्षयति-४९५यत्र । परपक्षव्युदासार्थ परपक्षनिरसनाय । प्रसिद्धानां खपक्षसाधकतया ख्यातानाम् । अर्थानाम् । परिकीर्तनम् । क्रियते । तत् । निदर्शनम् । उच्यते ॥ ४७८ ॥
उदाहरति-यथा-'हे नपाः वीराः । शवधे 'कर्तव्ये' इति शेषः । क्षात्रधर्मोचितः। धर्म"अनुष्ठीयमानै. रिति शेषः । अलं पर्याप्तम् । न तत्र धर्मविचारः कर्तव्य इति भावः । किंतु यतः (अव्यवानामनेकार्थत्वादिदमुक्तम् )। पराङ्मुखे सुग्रीवेण समं योधने व्यग्रे । वालिनि । रामेण । बाणः । मुक्तः प्रहृतः ॥ २८३ ॥'
अभिप्राय लक्षयति-४९६ अभिप्राय इत्यादिना । अभूतार्थोऽसम्भवोऽर्थः । स्पष्टमन्यत् । उदाहरति-यथा। शाकुन्तलेऽभिज्ञानशाकुन्तले । 'इदमि'त्यादौ ।।
'यः कण्वः । इदम् । किल । अव्याजमनोहरमव्याजेन वस्तुतया मनोहरम् । वपुः शकुन्तलायाः शरीरम् । तपालमं तपश्चर्योपयोगि । साधयितुम् । इच्छति । सः। ऋषिः । ध्रुवम् । नीलोत्पलधारया नीलकमलाग्रभागेन । शमीलतां शमीवृक्षरूपां लताम् । 'समिल्लता मिति पाठे तु काष्ठमात्रस्वरूपां लताम् । छेत्तुम् । व्यवस्यति चेष्टते । नीलकमलाग्रभागेन शमीछेदनमिव शकुन्तलायाः शरीरेण तपश्चर्या न सम्भवतीति भावः । इदं शकु. न्तलां तपस्विकन्यावेषेण नाटयन्तीं पश्यतो दुष्यन्तस्य वचः । अत्र वंशस्थं छन्दः, तल्लक्षणं च प्रागुक्तम् ॥२९४॥'
प्राप्ति कक्षयति-४९७ प्राप्तिरित्यादिना । अंशेन विशेषणेन । स्पष्टमन्यतू ॥ ४७९ ॥