________________
४९९
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः। ४९० हेतुर्वाक्यं समासोक्तमिष्टकृद्धेतुदर्शनात् ॥ ४७५ ॥ यथा वेण्यां भीमं प्रति 'चेटी-एवं मए भणिदं भाणुमदि, तुह्माणं अमुक्केसु केसेसु कहं देवीए केसा संजमिअन्तित्ति ।'
४९१ संशयोऽज्ञाततत्वस्य वाक्ये स्याद्यदनिश्चयः । . यथा ययातिविजये'इयं स्वर्गाधिनाथस्य लक्ष्मीः, किं यक्षकन्यका । किं चास्य विषयस्यैव देवता,किमु पार्वती॥२९०॥'
__४९२ दृष्टान्तो यत्तु पक्षेऽर्थसाधनाय निदर्शनम् ॥ ४७६ ॥ .... यथा वेण्याम्-'सहदेवः-आर्य, उचितमेवैतत्तस्या यतो दुर्योधनकलत्रं हि सा' इत्यादि ।
४९३ तुल्यतर्को यदर्थेन तर्कः प्रकृतिगामिना । यथा तत्रैव'प्रायेणैव हि दृश्यन्ते कामं स्वप्नाः शुभाशुभाः। शतसङ्ख्या पुनरियं सानुजं स्पृशतीवमाम्॥२९१॥'
न काऽपि । शशिना चन्द्रमसा। विना। निशा रात्रिः। का। इदं हि पति विपन्नमपि सेवमानां प्रति कस्या अपि साध्व्याः , परलोके वा पत्या सह स्वर्ग प्राप्तां प्रति वा कस्याश्चिद्देवाङ्गनाया वचनमिदम् ॥ २८९ ॥'
हेतुं लक्षयति-४९० हेतुदर्शनात् कारणज्ञानात् । इष्टकृत स्वार्थसम्पादकम् ।समासोक्त सङ्क्षिप्तमभिहितम् । वाक्यम् । हेतुः॥ ४७५॥
___ उदाहरति-यथा । वेण्यां वेणीसंहारे । भीमम् (प्रति ) 'चेटी । (प्राह) एवं एवम् । मए मया । भणितं कथितम्। हे भाणुमदि भानुमति ! तुम्हाणं युष्माकम् । अमुक्केसु अमुक्तेषु। केसेसु केशेषु सत्सु। कहं कथम् । देवीए देव्याः । केसा केशाः । सञ्जमिअंतित्ति संयम्यन्ते इति । अत्र द्रौपदीकेशासंयमनस्य हेतुर्भानुमतीकेशसंयमनं तद्दर्शनेन दुर्योधनवधोत्तरमेव देव्याः केशसंयमनम्भविष्यतीत्यभिमतार्थो भीमस्य सम्पन्नः । संशयं लक्षयति-४९१ अज्ञाततत्त्वस्य । वाक्ये । यत् यः। (इदमव्ययम्)। अनिश्चयः । सः-संशयः उच्यते ।
उदाहरति-यथा-ययातिविजये तदाख्ये रूपके । 'इयम् । स्वर्गाधिनाथस्येन्द्रस्य । लक्ष्मीः 'मूर्तिमती'ति शेषः । किम् 'वेति शेषः । यक्षकन्यका । किंच किंवा । अस्य। विषयस्य देशस्य । एव । देवता 'काऽपी'ति शेषः । किमु किमुत । पार्वती । अत्र हि स्फुटस्तत्त्वानिर्णयः ॥ २९० ॥'
दृष्टान्तं लक्षयति-४९२ यत् । तु । पक्षे । अर्थसाधनाय साध्यस्य साधनाय । समस्तपाठेऽप्ययमेवार्थः । निदर्शनं हेतुप्रदर्शनम् । तत्-दृष्टान्तः॥ ४७६ ॥ ___ उदाहरति- यथा । वेण्या वेणीसंहारे । 'सहदेवः ( भीमं प्रति ) आर्य ! तस्या भानुमत्याः । एतत् साभिमानं विकत्थनम् । उचितम् । एव । यतः।सा भानुमती। दुर्योधनकलत्रम् । हि एव ।' 'अइ जण्णसेणि! पंच ग्गामा पत्थीअतित्ति सुणीअति ता कीम दाणी वि दे केसा ण संजमीअंति? (अयि याज्ञसेनि । पञ्च प्रामाः प्रार्थ्यन्त इति श्रूयते तत् कस्मादिदानीमपि ते केशा न संयंम्यन्ते? )' इति च तद्वाक्यम् ।
तुल्यतकै लक्षयति-४९३ प्रकृतगामिना प्रकृतात्मना परिणमिष्यमाणेन । अर्थेन वस्तुना। यत् यः (इदमव्ययम् ) तर्को भाव्यर्थसूचनम् । स तुल्यतर्कः।
उदाहरति-यथा । तत्र वेणीसंहारे। एव । ( दुर्योधनो भानुमत्याः खप्नवृत्तान्तं श्रुत्वाऽऽह ) 'प्रायेण । एव । हि । शुभाशुभाः शोभना अशोभनाश्च । स्वप्नाः। कामम् । दृश्यन्ते । इयम् 'सहि सुमरिदं अज किल पमदवणे आसीणाए मह अग्गदो एव्य दिव्वरूविणा णउलेण अहिसदं वावादितं ( सखि! स्मृतम्, अद्य किल प्रमदवने आसीनाया ममाग्रत एव दिव्यरूपिणा नकुलेनाहिशतं व्यापादितम् )' इति वाक्यश्रवणेन प्रतिबोधितेति भावः । । शतसङ्ख्या । पुनः । सानुजम् । माम् । स्पृशतीव । अत्र खप्नदर्शनं प्रकृतार्थे परिणामि ॥ २९१॥'