________________
-१९८
साहित्यदर्पणः ।
षष्ठः
यथा
'आक्षिपन्त्यरविन्दानि मुग्धे तव मुखश्रियम् । कोषदण्डसमग्राणां किमेषामस्ति दुष्करम् ॥२८७॥'
४८७ वर्णनाक्षरसङ्घातश्चित्रार्थैरक्षरैर्मितैः। ___यथा शाकुन्तले-'राजा-कच्चित्सखीं वो नाविबाधते शरीरसंतापः । प्रियंवदा-संपदं लधोसहो उअसमं गमिस्सदि।'
४८८ सिद्धैरथैः समं यत्राप्रसिद्धोऽर्थः प्रकाशते ॥ ४७३ ॥
श्लिष्टलक्षणचित्रार्था सा शोभेत्यभिधीयते । यथा-- 'सवंशसंभवः शुद्धः कोटिदोऽपि गुणान्वितः । कामं धनुरिव क्रूरो वर्जनीयः सतां प्रभुः ॥२८८॥'
४८९ यत्र तुल्यार्थयुक्तेन वाक्येनाभिप्रदर्शनात् ॥ ४७४ ॥
साध्यतेऽभिमतश्चार्थस्तदुदाहरणं मतम् । यथा-- 'अनुयान्त्या जनातीतं कान्तंसाधुत्वया कृतम् । का दिनश्रीविनार्केण का निशा शशिना विना २८९॥'
उदाहरति-यथा-'आक्षिपन्ती'त्यादी।
'हे मुग्धे! अरविन्दानि कमलानि । तव । मुखश्रियम् । आक्षिपन्ति निन्दन्ति । ननु किमितीत्याशङ्कयाह-कोषदण्डसमग्राणां कोषैः (बीजकोषैः, निधिभिश्च ) दण्डैः (नालैः, चतुर्थोपायैश्च ) च समप्राणि परिपूर्णतया समृद्धानि तेषाम् । एषामरविन्दानाम् । किम् । दुष्करम् । अस्ति । न किमपीति भावः । अत्र च-अरविन्दानामचेतनतयाऽऽक्षेपकत्वासम्भवात्सादृश्यं कल्प्यत इति निदर्शनाऽलङ्कारेण माधुर्यप्रसादयोर्योग इति लक्षण. समन्वयो बोध्यः ॥ २८७ ॥'
अक्षरसङ्घातो लक्ष्यते-४८७ चित्राथै रमणीयाथैः । मितैः कतिपयैः । अक्षरैः। वर्णना। अक्षरसङ्घातस्तन्नाम लक्षणम् ।
उदाहरति-यथा। शाकुन्तलेऽभिज्ञानशाकुन्तले। राजा दुष्यन्तः। (प्रियंवदामनुसूयां च पृच्छति )कच्चित । वो युष्माकम् । सखीम् । शरीरसन्तापः । शरीरे वर्तमाना पीडा। न । अतिबाधते । प्रियंवदा (उत्तरयति) संपदं साम्प्रतम् । लधोसहो लब्धौषधो लब्धमौषधं यस्य तादृशः शरीरसन्ताप इत्यर्थः । उअसमं उपशमम् । गमिस्त्रदि गमिष्यति । इदं तत्त्वम्-राज्ञा अशरीर (काम) सन्तापः शकुन्तलां कचिन्नातिबाधते इत्यभिप्रायानुकूलं पृष्टया प्रियंवदयोत्तरितमिदानीं तस्यौषधरूपो भवानुपलब्ध इति । एवं च साकूतोक्त्या । स्फुटं चित्रार्थत्वमिति ।
शोभां लक्षयति-४८८ यत्र । सिद्धैः सम्पन्नैः । अथः। समम्। अप्रसिद्धोऽसम्पन्नः । अर्थः । प्रकाशते । सा। श्लिष्टलक्षणचित्रार्था श्लिष्टमभिप्रायान्तरगर्भितं लक्षणं स्वरूपं यस्य अतएव चित्रो रमणीयोऽर्थो यत्र सा । शोभा। इति । अभिधीयते ॥ ४७३ ॥
उदाहरति-यथा-'सद्धंशप्रभवः सन् साधुर्यो वंशः कुलं वेणुर्वा तस्मात्प्रभवतीति तथोक्तः । शुद्धः पूतः कीटदंशजरन्ध्ररहितश्च । कोटिदो बहुधनप्रदः कोट्याऽग्रभागेन द्यतीति वा। गुणान्वितः शौर्यादिसम्पन्नो मौर्योपस्कृतो वा । करः । प्रभुः। सताम् । कामं यथेष्टम् । धनुरिव चाप इव । 'धनुश्चापौ' इत्यमरः । वर्जनीयः। अत्र सिद्धैरन्वयादिभिः सममेव धनुषोऽप्यन्वयादिसद्भावः ॥ २८८ ॥
उदाहरणं लक्षयति-४८९यत्र । तुल्यार्थयुक्तन समानाभिप्रायकेण । वाक्येन । अत्र साधने तृतीया । भभिप्रदर्शनादभिप्रायदर्शनरूपाल्लिङ्गात् । अभिमतः। अर्थः। साध्यते । तत् । उदाहरणम् । मतम् ॥४७४॥
उदाहरति-यथा-'जनातीतं जनेभ्यो लोकेभ्योऽतीतोऽसदृशतया व्यतिरिक्तो मृततया वा त्यक्तस्तम् । कान्तम् । अनुयान्त्या । त्वया । साधु । कृतम् । यतः-अर्केण सूर्येण । विना। दिनश्रीः। का।