________________
____४२७
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः ।। यद्देश्यं नीचपात्रं तु तद्देश्यं तस्य भाषितम् । कार्यतश्चोत्तमादीनां कार्यो भाषाविपर्ययः ॥ ४६५ ॥ योषित्सखीबालवेश्याकितवाप्सरसां तथा।
वैदग्ध्यार्थ प्रदातव्यं संस्कृतं चान्तराऽन्तरा ॥ ४६६ ॥ आसामुदाहरणान्याकरेषु बोडव्यानि, भाषालक्षणानि मम तातपादानां भाषार्णवे । ४८४ षट्त्रिंशलक्षणान्यत्र, नाट्यालङ्कृतयस्तथा।
त्रयस्त्रिंशत्, प्रयोज्यानि वीथ्यङ्गानि त्रयोदश ॥ ४६७॥
लास्याङ्गानि दश यथालाभं रसव्यपेक्षया । यथालाभं प्रयोज्यानीति सम्बन्धः । अत्रेति नाटके । तत्र लक्षणानि४८५ भूषणाक्षरसङ्घातौ शोभोदाहरणं तथा ॥ ४६८ ॥ .
हेतुसंशयदृष्टान्तास्तुल्यतर्कः पदोच्चयः । निदर्शनाभिप्रायौ च प्राप्तिर्विचार एव च ॥ ४६९ ॥ दिष्टोपदिष्टे च गुणातिपातातिशयौ तथा । विशेषणनिरुक्ती च सिद्धिभ्रंशविपर्ययौ ॥ ४७० ॥ दाक्षिण्यानुनयौ मालार्थापत्तिर्गर्हणं तथा । पृच्छा प्रसिद्धिः सारूप्यं सङ्केपो गुणकीर्तनम् ॥ ४७१ ॥ लेशो मनोरथोऽनुक्तसिद्धिः प्रियवचस्तथा । लक्षणानि
४८६ गुणैः सालङ्कायोगस्तु भूषणम् ॥ ४७२ ॥
आसामाकरेषु (महाकविप्रबन्धेषु) उदाहरणानि दृष्टचराणि, लक्षणानि च भाषार्णवे (खप्रबन्धे निरूपितानि) द्रष्टव्यानीत्याह-आसामित्यादिना । स्पष्ठम् । 'एषा'मिति पाठस्तु सामान्याभिप्रायेण ।
नाटकीयवस्तुनो रमणीयताऽतिशयं प्रतिपादयितुं कर्तव्य निर्दिशति-४८४षत्रिंशदित्यादिना । यत्र यदाकाक्षित योग्य वा स्यात् तस्मिन् रसे तदेव लक्षणाद्यन्यतमं योज्यमिति भावः । स्पष्टमन्यत् ॥ ४६७ ॥
कारिकाऽथै सुगमयितुमाह-यथालाभमित्यादि । स्पष्टम् ।
अथ लक्षणादीनि विभज्य लक्षयितुमाह-तत्र तेषु रसव्यपेक्षया प्रयोज्येषु लक्षणादिषु मध्ये। लक्षणानि नामतो निर्दिश्यन्ते-४८५भूषणेत्यादिना। लक्षणानि षट्त्रिंश'द्भूषणे' त्यारभ्य 'प्रियवच'इत्यन्तमभिहिताभिधानानीति भावः । स्पष्टमन्यत् ॥ ४६८-४७१ ॥
अथैतानि क्रमालक्षयितुमाह तत्र भूषणं तावल्लभ्यते-४८६ गुणैरित्यादिना । . ४८६ सालङ्कारैरनुप्रासादिसहितैः । गुणैर्माधुर्यादिभिः । तु पुनः । योगः परस्परम्मिश्रणम् । भूषणं तमाम लक्षणमित्यर्थः ॥ ४७२ ॥