________________
परिच्छेदः]
'रुचिराख्यया व्याख्यया समेतः। एकोऽङ्क एक एवात्र निपुणः पण्डितो विटः । रङ्गे प्रकाशमेत्स्वेनानुभूतीमतरेण वा ॥ ५२५ ॥ सम्बोधनोक्तिप्रत्युक्ती कुर्यादाकाशभाषितैः। सूचयेद्वीरशृङ्गारौ शौर्यसौभाग्यवर्णनैः ॥ ५२६ ॥ तत्रेतिवृत्तमुत्पाद्यं वृत्तिः प्रायेण भारती।
मुखनिर्वहणे सन्धी लास्याङ्गानि दशापि च ॥ ५२७ ॥ तन-आकाशभाषितरूपं परवचनमपि स्वयमेवानुवदन्नुत्तरप्रत्युत्तरे कुर्यात् । शृङ्गारवीररसौ च सौभाग्यशौर्य्यवर्णनया सूचयेत् । प्रायो भारती, कौशिक्यपि वृत्तिर्भवति, लास्याङ्गानि गेयपदादीनि उदाहरणं लीलामधुकरः । अथ व्यायोगः
५७२ ख्यातेतिवृत्तो व्यायोगः स्वल्पस्त्रीजनसंयुतः।
हीनो गर्भविमर्शाभ्यां नरैर्बहुभिराश्रितः ॥ ५२८॥ एकाङ्कश्च भवेदस्त्रीनिमित्तसमरोदयः । कौशिकीवृत्तिरहितः प्रख्यातस्तत्र नायकः ॥ ५२९ ॥ राजर्षिरथ दिव्यो वा भवेद्धीरोद्धतश्च सः।। हास्यशृङ्गारशान्तेभ्य इतरेत्राङ्गिनो रसाः ॥ ५३० ॥
यल्य तादृशः भाणः । स्यात् । अत्र माणे । एकः । अङ्कः । तथा-एकः। एव । निपुणश्चतुरः । पण्डितः । विटो धूर्तः । स्वेन । बा । इसरेण । अनुभूतम् 'वस्तु' इति शेषः । रङ्गे नाट्यशालायाम् । प्रकाशयेत् । एवम्-आकाशभाषितः । सम्बोधनोक्तिप्रत्युक्ती सम्बोधनेनोक्तिप्रत्युक्ती । कुर्यात् । तथा-शौर्यसौभाग्यवर्णनैः शौर्य्यवर्णनेन, सौभाग्य ( शृङ्गारावस्था ) वर्णनेन चेत्यर्थः । वीरशृङ्गारौ । सूचयेत् 'कवि' रिति शेषः। तत्र भाणे । उत्पाद्यं कविना कल्पनीयम् । इतिवृत्तम्। वृत्तिः। प्रायेणाधिक्येन । भारती, 'क्वचित पुनः कौशिकी'ति । भावः मुखनिर्वहणे तदाख्यौ ॥ सन्धी । च एवम् । दश सर्वाणीति भावः । अपि । लास्याङ्गानि गेयपदादीनीत्यर्थः ॥ ५२४ ॥ ५२५ ॥ ५२६ ॥ ५२७ ।।
कारिकायाः कठिनमंशं सुगमयति-तत्रेत्यादिना । स्पष्टम् । व्यायोगं लक्षयितुमाह-अथ । व्यायोगः । लक्ष्यते ।
५७२ ख्यातेतिवृत्तः ख्यातं पुराणादिषु प्रसिद्धमितिवृत्तं यत्र तथोक्तः । स्वल्पस्त्रीजनसंयुतः कतिपयाभिरेव स्त्रीभिर्युतः । गर्भविमर्शाभ्यां तदाख्याभ्यां सन्धिभ्याम् । हीनः । बहुभिः । नरैः पुरुषैः । आश्रितः। एकाङ्क एकोऽको यत्र तादृशः। च तथा । अस्त्रीनिमित्तसमरोदयः स्त्रीनिमित्तव्यतिरिक्तनिमित्तकसङ्गामवर्णनात्मक इति भावः । कौशिकीवत्तिरहितः सात्वत्यारभटीभारतीभिर्वत्तिभिरुपकृत इति भावः । व्यायोगः। भवेत व्यायोगे । प्रख्यातःप्रसिद्धचरितः । नायकः। 'भवे' दिति शेषः । स नायकः । च । राजर्षिः। अथदिव्या खगभवः । वा ( इदं समुच्चयार्थम् ) । धीरोद्धतस्तल्लक्षणाकान्तः । 'ज्ञेय' इति शेषः । अत्र व्यायोगे इत्यर्थः । नायटारशान्तभ्यः । इतरे व्यतिरिक्ताः । रसाः । अङ्गिनः प्रधानतया वर्णनीयाः । 'भषन्ती' ति शेषः ॥ ५२८ ॥ ५२९ ॥ ५३०॥