________________
२५
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः। - ४८१ प्रायेण ण्यन्तकः साधिर्गमे स्थाने प्रयुज्यते । यथा शाकुन्तले ऋषी 'गच्छावः' इत्यर्थे 'साधयावस्तावत्' इति । ४८२ राजा स्वामीति देवेति भृत्यैर्भट्टति चाधमैः ॥ ४४१ ॥
राजर्षिभिर्वयस्येति तथा विदूषकेण च । । राजन्नित्यृषिभिर्वाच्यः सोऽपत्यप्रत्ययेन च ॥ ४४२ ॥ स्वेच्छया नामभिर्विप्रैविप्र आयेति चेतरैः । वयस्येत्यथवा नाम्ना वाच्यो राज्ञा विदूषकः ॥ ४४३ ॥ वाच्यौ नटीसूत्रधारावार्यनाम्ना परस्परम् । . सूत्रधारं वदेद्भाव इति वै पारिपार्धिकः ॥ ४४४ ॥ सूत्रधारो मारिषेति हण्डे इत्यधमैः समाः। वयस्येत्युत्तमैहहो मध्यरायति चाग्रजः ॥ ४४५ ॥ भगवन्निति वक्तव्याः सर्वैर्देवर्षिलिङ्गिनः। वदेद्राज्ञी च चेटी च भवतीति विदूषकः ॥ ४४६ ॥ आयुष्मत्रथिनं सूतो वृद्धं तातेति चेतरः । वत्स पुत्रक तातेति नाम्ना गोत्रेण वा सुतः ॥ ४४७ ॥ शिष्योऽनुजश्च वक्तव्योमात्य आर्येति चाधमैः। विप्रेरयममात्योत सचिवेति च भण्यते ॥ ४४८ ॥ साधो इति तपस्वी च प्रशान्तश्चोच्यते बुधैः । स्वगृहीताभिधः पूज्यः शिष्यायेविनिगद्यते ॥ ४४९ ॥ उपाध्यायेति चाचार्यो महाराजोत भूपतिः । स्वामीति, युवराजस्तु कुमारो भर्तृदारकः ॥ ४५० ॥ भद्रसौम्यमुखेत्येवमधमैस्तु कुमारकः । वाच्या प्रकृतिभी राज्ञः कुमारी भर्तृदारिका ॥ ४५१ ॥ पतिर्यथा तथा वाच्या ज्येष्ठमध्याधमैः स्त्रियः। हलेति सदृशी, प्रेष्या हले, वेश्याऽज्जुका तथा ॥ ४५२ ॥
. अथ कविसमयसाम्राज्यं दर्शयति-४८१ प्रायेण । गमेः गच्छतेर्धातोः । स्थाने प्रयोक्तव्यत्वे । ण्यन्तकः साधिः। प्रयुज्यते । एवं च-एतादृशप्रयोगे न च्युतसंस्कृतत्वं शङ्कथेत, प्रत्युत तथा सहृदयत्वं । दृश्येते । प्रायेणेति तु गमः प्रयोगोऽपि युज्यते इति निष्कृष्टम् । . उदाहरति-यथेत्यादिना । स्पष्टम् । - पात्राणां सम्बोध्यत्वप्रकारं लक्षयति-४८२ राजेत्यादिना । स राजा । अपत्यप्रत्ययेनापत्यसूचकपदेन । यथ पौरवरघुनन्दनेत्यादि । इतरो युवा बालश्च । गोत्रेणापत्यसूचकेन पदेन । अयममात्यः । प्रशान्तो विरक्तः