________________
- साहित्यदर्पणः।
[पक्ष___ यः कश्चिदर्थो यस्मारोपपनीयस्तस्यान्तरतः । ऊर्ध्वसर्वाङ्गुलिनामितानामिकं विपताकलक्षणं करं कृत्वाऽन्येन सह यन्मन्यते तज्जनान्तिकम् । परावृत्यान्यस्य रहस्यकथनमपवारितम् । शेष स्पष्टम्।
४७७ दत्तां सिद्धां च सेनां च वेश्यानां नाम दर्शयेत् ।
दत्तप्रायं च वणिजां चेटचेट्योस्तया पुनः ॥ ४३८ ॥
वसन्तादिषु वर्ण्यस्य वस्तुनो नाम यद्भवेत् । वेश्या यथा वसन्तसेनादिः । वणिग्विष्णुदत्तादिः। चेटः कलहंसादिः । चेटी मन्दारिका दिः ।
__ ४७८ नाम कार्य नाटकस्य गर्भितार्थप्रकाशकम् ॥ ४३९ ॥ यथा रामाभ्युदयादिः।
४७९ नायिकानायकाख्यानात्संज्ञा प्रकरणादिषु । यथा मालतीमाधवादिः।
४८० नाटिकासट्टकादीनां नायिकाभिर्विशेषणम् ॥ ४४० ॥ यथा रत्नावली-कर्पूरमञ्जर्यादिः।
अश्राव्यं कथं श्रावणीयमित्याशङ्कयाह-यः। कश्चित् । अर्थः। यस्मात् । गोपनीयः। सः-तस्य । अन्तरतो व्यवहितत्वे भवतीत्यर्थः । त्रिपताक करेणोत्यस्याऽर्थ लक्षयन् जनान्तिकपदार्थमाह-ऊर्ध्वसर्वाङ्गुलिनामितानामिकमू ( कृताः ) सर्वाङ्गुलयो यत्र सोऽसौ नामिताऽधः कृताऽनामिका यत्र तादृश इति तं तथोक्तम् । करं हस्तम् । कृत्वा । अन्येन । सह । यत । मन्यते विचार्यते तत् । जनान्तिकम् । सिंहनिरीक्षण. न्यायेनापवारितपदार्थ दर्शयति-परावृत्य स्थानान्तरं गत्वा । स्पष्टमन्यत् ।
पात्राणां सज्ञां लक्षयति-४७७ दत्तामित्यादिना। ४७७ यदा-वेश्यानाम् । नाम । दर्शयेत् प्रयुञ्जीत । तदा-दत्तां दत्तान्तम् । च । सिद्धां सिद्धान्तम् । सेना सेनान्तम् । च । 'कृत्वे'ति शेषः । 'दर्शयेदिति पूर्वतोऽन्वेति, एवम्परत्र । वणिजां वेश्यानाम् । च। यदा नाम दर्शयेत् तदा । दत्तप्राय प्रायेण दत्तान्तं कृत्वेति भावः । तथा । चेटचेट्योः । पुनः। नाम यदा दर्शयेत् तदावसन्तादिषु 'ऋतुषु'इति शेषः । वय॑स्य । वस्तुनः । नाम । यत् । भवेत् । 'तत् कृत्वे'ति शेषः । इदं त्वव. धेयम्-अयं नियमः कल्पितेतिवृत्ते एव रूपके, अत एव-वेणीसंहारादौ बुद्धिमतिकासुसङ्गताऽऽदिसञ्ज्ञा सङ्गच्छते। यत्तूक्तं 'ब्रह्मक्षत्रिययोः सज्ञा गोत्रकर्मानुरूपतः । शान्ता चैव वर्मान्ता कार्यां काव्ये विचक्षणैः ॥' इत्यादि, तदपि न नियतम् । 'पुरूरवाश्चारुदत्तः' इत्याद्यप्रयोज्यत्वापत्तेः । इति दिक् ॥ ४३८ ।।
रूपकसज्ञाप्रकारमाह-४७८ गर्भितार्थप्रकाशकंग भितो रूपके निरूप्य दर्शिष्यमाणो योऽर्थस्तस्य प्रकाशक सूचकम् । नाटकस्य । नाम । कार्यम् ॥ ४३९ ॥
उदाहरति-यथेत्यादिना । स्पष्टम् ।
प्रकारणादेः सज्ञाविधानप्रकारं दर्शयति-४४९ नायिकानायकाख्यानात् नायिकानायकयोराख्यानं नाम तदततीति तथोक्ता । प्रकरणादिषु । आदिपदेन भाणादीनां ग्रहणम् । सज्ञा 'कार्य'ति शेषः । एषोऽपि न नियमः । सौगन्धिकाहरणादौ. व्यभिचारात् ।
उदाहरति-यथेत्यादिना । स्पष्टम् ।
नाटिकाऽऽदीनां सज्ञाविधानं लक्षयति-४८० नाटिकेत्यादिना । आदिपदेन । त्रोटकनाट्यरासकादीनां प्रणम् । स्पष्टमन्यत् ॥ ४४० ॥
उदाहरति-यथेत्यादिना । स्पष्टम् ।