________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः। ४७४ प्रवेशत्रासनिष्क्रान्तिहविद्रवसम्भवम् ॥ ४३३ ॥
अवपातनामत्युक्तं यथा कृत्यरावणे षष्ठेऽङ्के-(प्रविश्य खगहस्तः पुरुषः।)' इत्यतःप्रभृति निष्क्रमणपर्यन्तम् ।
४७५ पूर्वमुक्तैव भारती।। अथ नाट्योक्तयः-- ४७६ अश्राव्यं खलु यद्वस्तु तदिह स्वगतं मतम् ॥ ४३४ ॥
सर्वश्राव्यं प्रकाशं स्यात्तद्भवेदपवारितम् । रहस्यं तु यदन्यस्य परावृत्य प्रकाश्यते ॥ ४३५ ॥ त्रिपताककरेणान्यानपवार्यान्तरा कथाम् । अन्योन्यामन्त्रणं यत्स्यात्तजनान्ते जनान्तिकम् ॥ ४३६ ॥ किं ब्रवीषीति यन्नाट्ये विना पात्रं प्रयुज्यते । श्रुत्वैवानुक्तमप्यर्थ तत्स्यादाकाशभाषितम् ॥ ४३७ ॥
शान्तरवापादानं तपखितया भवनम् । तथा सति-पुण्या ब्राह्मणजातिः' इति । इदं बोध्यम्-'पुण्यब्राह्मणजातिरन्वयगुणः शास्त्रं चरित्रं च मे येनैकेन हतान्यमूनि हरता चैतन्यमात्रामपि। एकः सन्नपि भूरिदोषगहनं सोऽयं स्वया प्रेयसा वत्स ! ब्राह्मणवत्सलेन शमितः क्षेमाय दर्पामयः ॥' इत्युच्चरतः परशुरामस्य शान्तत्वमिति । इदं च बोध्यम्.शिल्पेतरेण वस्तुरचना कविप्रतिभोत्थापितैव भवति, यथाऽभिज्ञानशाकुन्तले भ्रमरबाधोद्भावनेन कबिना शकुन्तलाया आननं कमलात्मनोद्भावितमिति। ____ अवपातनं लक्षयति-४७४ प्रवेशवासनिष्क्रान्तिहर्षविद्रवसम्भवं प्रवेश: पात्रान्तरप्रवेशस्तेन त्रासः, स च निष्कान्तिः पात्रान्तरनिष्कमणं तया हर्षश्च, तयोर्विद्रवो झटिति कार्यात्मना परिणमनं स सम्भव उत्पत्तिस्थानं यस्य तथो. कम् । अवपातनम् । इत्युक्तम् ॥४३३॥ . उदाहरति-यथेत्यादिना । स्पष्टोऽर्थः । इदं तु बोध्यम्-कृत्यरावणो नाम कस्यचिद्रूपकस्य षष्ठोऽङ्कः, सच राम सीतां वा मोहयितुं रावणनिर्मितां सीताप्रतिकृतिं रामप्रतिकृति वा निर्दिश्य रामस्य सीताया वा त्रासहर्षयोरुद्भावनार्थः । एतच्च श्रीरामायणं दृष्टवतामतिरोहितम् । इति ।
अथ भारतीवृत्तेर्निरूपणस्य क्रमप्राप्तत्वेऽपि तदनावश्यकत्वम्मन्वान आह-४७५ पूर्वमित्यादि । पूर्व स्थापककर्त्तव्यप्रस्तावे । स्पष्टमन्यत् ।
एवं वृत्तीर्दशयित्वा नाटयोक्तीलक्षयितुमाह-अथ । नाट्योक्तयः । लक्ष्यन्ते-४७६ अश्राव्यमित्यादिना ।'
४७६ यत् । अश्राव्यं परस्य श्रवणानहम् । खलु । वस्तु इतिवृत्तम् । तत् । इह रूपके । स्वगतम् । अत्र खशब्द आत्मशब्दस्याप्युपस्थापकः, तेन-क्वचित्-'आत्मगत'मित्ययभिहितं सङ्गच्छते । मतम्। सर्वश्राव्यम् । पुनः-प्रकाशं तत्सझम् । स्यात् । यत् । तु पुनः । परावृत्यान्यत्र गत्वा । अन्यस्य । रहस्यम् । प्रकाश्यते । तत् । अपवारितम् । भवेत् । त्रिपताककरण पताकात्रयसदृशेन हस्तेन ।: अन्यान् । अपवार्य निवर्त्य । कथाम् । अन्तरा मध्ये । जनान्ते कस्यापि जनस्य सन्निधौ । यत् । अन्योऽन्यामन्त्रणम् । स्यात् । तत् । जनान्तिकम् । यत् । नाट्ये रूपके । पात्रे प्रष्टव्यम् । विना । प्रयुज्यते । तत्-किम् । ब्रवीषि । इति 'कीर्त्यते'इति शेषः । यच्चैवम्-अनुक्तम् । अपि । अर्थम् । श्रुत्वेव। 'प्रयुज्यते'इति शेषः । तत् । आकाशभाषितम् । स्यात् ॥४३४-४३७॥