________________
दर्पणः ।
इति भेदास्तु चत्वार आरभटयाः प्रकीर्तिताः । ४७१ मायाद्युत्थापितं वस्तु वस्तूत्थापनमुच्यते ॥ ४३१ ॥ यथोदात्तराघवे - 'जीयन्ते जयिनोऽपि सान्द्रतिमिरव्रातैर्वियद्वयापिभिर्भास्वन्तः सकला रवेरपि कराः कस्मादकस्मादमी । एते चोकबन्धकण्डरुधिरैराध्मायमानोदरा
मुञ्चन्त्याननकंदरानलमुचस्तीत्रात्रवान्फेरवाः ॥ २८६ ॥ ' इत्यादि । ४७२ सम्फेटस्तु समाघातः क्रुद्धसत्वरयोर्द्वयोः । यथा मालत्यां माधवाघोरघण्टयोः ।
४७३ सङ्क्षिता वस्तुरचना शिल्पैरितरथापि वा ॥ ४३२ ॥ समितिः स्यान्निवृत्तौ च नेतुर्नत्रन्तरग्रहः ।
४९१
[ षष्ठ:
यथोदनचरिते कलिञ्जहस्तिप्रयोगः द्वितीयं यथा वालिनिवृत्त्या सुग्रीवः । यथा वा परशुमस्यौद्धत्यनिवृत्या शान्तत्वापादानम्--' पुण्या ब्राह्मणजाति:-' इति ।
वस्तूत्थापनं लक्षयति-४७१ मायेत्यादिना । निगदव्याख्यातम् ॥ ४३१ ॥ उदाहरति यथा । उदात्तराघवे । 'जीयन्ते' इत्यादौ ।
'जयिनो जेतारः । अपि । अमी । कस्मात् । अकस्मात् प्रकटकारणं विना । भास्वन्तः प्रकाशनशीलाः । रवेः सूर्यस्य । अपि 'किम्पुनरन्यस्ये 'ति शेषः । वियद्वयापिभिराकाशे व्याप्तैः । सान्द्रतिमिरव्रातैः सान्द्रा निबिड ये तिमिरत्रातास्तैः । जीयन्ते पराभूयन्ते । एते । उग्र... उग्रा भयङ्करा ये कबन्धाः छिन्नशिरस्का अपि युद्धाय प्रवृत्तास्तेषां कण्ठरुधिरैः । आध्मायमानोदरा आध्मायमानानि परिपूर्यमाणान्युदराणि येषां ते । आननकन्दराऽनलमुच आननान्येव कन्दरास्ताभ्योऽनलमुचोऽग्निवर्षणशीलाः । फेरवाः शृगालाः । च । तीव्रान् । रवान् । 'कस्मादकस्मा' दिति पूर्वतोऽनुवृत्तम् । मुञ्चन्ति । असौ मायिकस्य मायाप्रभावं दृष्टवत उक्तिरियम् । अत्र शार्दूलविक्रीडितं वृत्तम्॥ २८६ ॥ ' इत्यादि । अत्रादिपदेन' एष ब्रह्मा सरोजे रजनिचरकला शेखरः शङ्करोऽयं दोर्भिर्देत्यान्तकोऽसौ सधनुर सिमदाचकचित्रैश्चतुर्भिः । एषोऽप्यैरावतस्थ स्त्रिदशपतिरमी देवि देवास्तथाऽन्ये नृत्यन्ति व्योत्रि चैताश्चलचरणरणन्नूपुरा दिव्यनार्थः ॥ ' इत्यादीन्युदाहरणान्यूयानि ।
सम्फेटं लक्षयति-४७२क्रुद्धसत्वरयोः क्रुद्धः कुपितः सत्वरो झटिति तत्प्रतिकर्ते व्यग्रस्तयोः । द्वयोः । 'कयोश्चित्' इति शेषः । समाघात एकत्र सङ्ग्रहः । तु । सम्फेटः ।
उदाहरति यथा । मालत्या म्मालतीमाधवाख्ये प्रकरणे । माधवाघोरघण्टयोः । अयम्भावः - माधवी चण्डिकायै वलीकर्तुम्प्रवृत्तमघोरघण्टमवलोक्य माधवस्य सत्त्वरम् 'अलं दुरात्मन् अपेहि प्रतिहतोऽसि कापालिकाप तद' इति प्रवेशः । एवं च स्फुटस्तयो परस्परं समाघातः । इति ।
सङ्क्षिप्तिं लक्षयति-४७३ शिल्पैः । अथ । (इदं पक्षान्तरे) । इतरथाऽन्यथा प्रकारान्तरेणेति यावत् । अपि । वा ( इदं समुच्चये ) । सङ्क्षिप्ता । वस्तुरचना पदार्थनिर्माणम् । च तथा । नेतुर्नायकस्य । निवृत्तौ आमना सत्त्वे स्वभावतो वाऽतथाभूतत्वे इति भावः । नेत्रन्तरग्रहो नेत्रन्तरस्यान्यस्य नायकस्य प्रह उपादानम् । इदं तम् - यदि नायको हतस्तदाऽन्यस्य नायकस्योपासनम्, यदि च सतोऽपि नायकस्य स्वभाव परिवृत्तिस्तति । सङ्क्षिप्तिः । स्यात् ॥ ४३२ ॥
उदाहरति-यथा | उदयनचरिते रूपकविशेषे । कलिञ्जहस्तिप्रयोगः । कलिञ्जहस्तिनः काष्ठनिर्मितगजस्य प्रयोगः । ( इदं शिल्पोदाहरणम् ) द्वितीयं नेत्रन्तरग्रहणम् । यथा । वालिनिवृत्त्या वालिनो मरणानन्तरम् । सुग्रीव 'स्ताराया उपास्यत्वेन संस' इति शेषः । यथा वा । परशुरामस्य । औद्धत्यनिवृत्त्या स्तब्धत्व निवृत्तौ ।