________________
परिच्छेदः ।
रुधिराण्यया व्याख्यया समेतः। ४६६ मन्त्रार्थदेवशक्तयादेः साङ्घात्यः सङ्घभेदनम् । मन्त्रशक्त्या यशा मुद्राराक्षसे राक्षससहायानां चाणक्येन स्वबुद्ध्या भेदनम् । अर्थशक्तयाऽपि तत्रैव । देवशक्त्या यथा रामायणे रावणाद्विभीषणस्य भेदः।
४६७ संलापः स्याद्गभीरोक्तिर्नानाभावसमाश्रया ॥ ४२८ ॥ यथा वीरचरिते-'रामः-अयं स यः किल सपरिवारकार्तिकेयविजयावर्जितेन भगवता नीललोहितेन परिवत्सरसहस्रान्तेवासिने तुभ्यं प्रसादीकृतः परशुः । परशुरामः-राम ! दाशरथे, ! स एवायमार्यपादानां प्रियः परशुः । इत्यादि ।
४६८ प्रारब्धादन्यकार्याणां कारणं परिवर्तकः। यथा वेण्याम्-'भीमः-सहदेव ! गच्छ त्वं गुरुमनुवर्तस्व । अहमप्यस्त्रागारं प्रविश्यायुधसहायो भवामीति यावत् । अथवा आमन्त्रयितव्यैव मया पाञ्चाली।' इति । अथारभटी
४६९ मायेन्द्रजालसङ्ग्रामक्रोधोद्भ्रान्तादिचोष्टतैः ॥ ४२९ ॥
संयुक्ता वधबन्धाद्यैरुद्धताऽऽरभटी मता।। ४७० वस्तूत्थापनसम्फेटौ सद्धिप्तिरवपातनम् ॥ ४३०॥
सप्तमीयम् ) । वैतृष्ण्यमननुरक्तत्वम् । कुतः । ननु पुरस्तात् स्थिते शत्रौ क्रोधौचित्ये चक्षुर्वैतृष्ण्यं युक्तमेवेति पुनः किं पुनस्तथा शोचसे इत्याशङ्कयाह-यत् माइल्यसुखस्य रमणीयतैकभाजनस्य तव दर्शनतो जायमानस्य अलौकिकाहादस्य । विषयः। न.। अस्मि भवानि न तत् सुचिरमनुभवितुं चक्षुरवतिष्ठते इति भावः । ननु किं त्वं बोद्धं समागतः किं वा दृष्टमिति विमृश्याह-किं वा । बहुव्याहतैः । अस्मिन् । विस्मृतजामदग्न्यविजये विस्मृतो जामदग्न्यस्य परशुरामस्य विजयो येन तथोक्ते । बाहौ । धनुः । जृम्भतां बाणप्रक्षेपार्थमुद्यतं स्यात् । शार्दूलविक्रीडितं वृत्तम् ॥२८५॥'
साङ्घात्यं लक्षयति-४६६ मन्त्रात्यादिना ।
४६६ मन्त्रार्थदैवशत्यादेमन्त्रो विचारोऽर्थों धनं देवं प्रारब्धं तेषां शक्त्यादिस्तस्मात् । आदिना-परत्र तत्तद्वैपरी. त्याग्रहणम् । सङ्गभेदन सङ्घस्य सहायकसमाजस्य भेदनं भेदः । साक्षात्यः।
उदाहरति-मन्त्रशक्तयेत्यादिना । स्पष्टम् । संलापं लक्षयति-४६७ संलाप इत्यादिना । स्पष्टम् ॥ ४२८ ॥
उदाहरति-यथा। वीरचरिते महावीरचरिते । 'रामः श्रीरामचन्द्रः (परशुरामं प्रत्याह) सपरिवारकार्तिकेयविजयावर्जितेन सपरिवारो यः कार्तिकेयोऽर्जुनस्तस्य विजयस्तेनावर्जितः संतोषितस्तेन । भगवता । नीलकण्ठेन महादेवेन । परिवत्सरसहस्त्रान्तेवासिने परिवत्सराणां संवत्सराणां सहस्रेणान्तेवासी शिष्यस्तस्मै । तुभ्यम् । यः। किल । प्रसादीकृतः प्रत्तः । सः । अयम् । परशुः । परशुरामः राम! दाशरथे ! दशरथनन्दन ! सः । एव । अयम् । आर्यपादानां पूज्यानां महादेवानाम् । प्रियः। परशुः।' इत्यादि । अत्र हि-म. हादेव विषयरतिमत्युत्साहानामाश्रयः ।
परिवर्तकं लक्षयति-४६८ प्रारब्धेत्यादिना । प्रारब्धं कार्य परिहायान्यस्य करणं परिवर्तकः । इति वर्तुलार्थः । उदाहरति-यथेत्यादिना स्पष्टोऽर्थः । अत्र हि शस्त्रं गृहीतुं प्रवृत्तेद्रौपद्या सममामन्त्रणावश्यकतया परित्यागः । आरभटी लक्षयितुमाह-अथ । आरभटी । लक्ष्यते-४६९ मायेन्द्रेत्यादिना ।
४६९ मायेन्द्र... | मायाऽसतो वस्तुनः सद्रूपेणोद्भावनम् । इन्द्रजाल: सतोऽप्यर्थस्यासत्ताविधानम् । तथावधबन्धाद्यैः। आद्यपदेन मोहनादीनां ग्रहणम् । संयुक्ता। आरभटी तदाख्या वृत्तिः ।मता । स्पष्टमन्यत् ॥ ४२९॥
अस्या भेदान् गणयति-४७० वस्तूत्थापनसम्फेटानित्यादिना । स्पष्टम् ॥ ४३० ॥ .