________________
साहित्यदर्पणः।
[षष्ठः४५० इष्टार्थरचनाश्चर्यलाभो वृत्तान्तविस्तरः ॥ ४१३ ॥
रागप्राप्तिः प्रयोगश्च गोप्यानां गोपनं तथा ।
प्रकाशन प्रकाश्यानामङ्गानां षडिधं फलम् ॥ ४१४ ॥ ४५१ अङ्गहीनो नरो यदन्नैवारम्भक्षमो भवेत् ।।
अङ्गहीनं तथा काव्यं न प्रयोगाय युज्यते ॥ ४१५ ॥ ४५२ सम्पादयेतां सन्ध्यङ्गं नायकप्रतिनायको ।
तदभावे पताकाऽऽद्यास्तदभाव तथेतरत् ॥ ४१६ ॥ प्रायेण प्रधानपुरुषप्रयोज्यानि सन्ध्यङ्गानि भवन्ति 'किन्तु प्रक्षेपादित्रयं बीजस्याल्पमात्रसमुद्दिष्टत्वादप्रधानपुरुषप्रयोजितमेव साधु ।
४५३ रसव्यक्तिमपेक्ष्यैषामङ्गानां सन्निवेशनम् ।
न तु केवलया शास्त्रस्थितिसम्पादनेच्छया ॥ ४१७ ॥ अङ्गानां फलमाह-४५० इष्टार्थेत्यादिना। ४५० अङ्गानां निरुक्तलक्षणानांमुखादिसन्ध्यङ्गानामिति भावः । इष्टार्थरचना अभीप्सितार्थोद्भावनम् । आश्चर्यलाभ आश्चर्यजनको लाभ इति भावः । वृत्तान्तविस्तर इतिवृत्तस्य रसानुकूलतया समुद्भाव्यत्ववर्णनम् । रागप्राप्तिरनुरागलाभः । च । प्रयोगश्च प्रयोगसम्बन्धित्वमिति भावः । गोप्यानां गोपनीयानामर्थानाम् । गोपनम् । तथा। प्रकाश्यानां सुस्पष्टमुद्भावनीयानामर्थानाम् । प्रकाशनम् । इत्येवम् अङ्गानां सन्ध्यङ्गानाम् । षधिम् । फलम् ॥४१३॥४१४॥
अङ्गप्रशंसामाह ४५१ अङ्गहीन इत्यादिना। ४५१ यद्धत् । अङ्गहीनो नेत्राद्यङ्गविकल नरः इति भावः । आरम्भक्षम आरम्भ कार्योद्यमे क्षमः । नैव भवेत् । तथा । अहीनं सन्ध्यङ्गशून्यम् । काव्यं दृश्यमिति शेषः । प्रयोगाय प्रयोक्तमिति भावः । न युज्यते ॥४१५॥
सन्ध्यङ्गादि कस्य सम्पाद्यमित्याशङ्कयाह--४५२ सम्पादयेतामित्यादिना ।
४५२ नायकप्रतिनायकौ सन्ध्यङ्गं मुखादिसन्धीनामुपक्षेपायङ्गमात्रम् । सम्पादयेताम् । तदभावे सन्यज्ञानामसम्पादनीयत्वावसरे पताकाद्याः पताकाप्रकरीकार्याचा अर्थप्रकृती: सम्पादयेतामिति भावः । तदभावे पताकाद्यानामर्थप्रकृतीनां सम्पादनानवसरे इति भावः । तथा पूर्ववत् । इतरद्धीजं बिन्दं वा । 'सम्पादयेता' मिति पूर्वतोऽनुसक्तम् ॥ ४१६॥
अत्र विशेष निर्दिशति-प्रायेणेत्यादिना ।
प्रायेण प्रायः सति सम्भवे प्रधानपुरुषप्रयोज्यानि प्रधानपुरुषो नायकप्रतिनायको 'नायिका प्रतिनायिका घे' त्येतद्यं तु अत्रैव गतार्थम् ताभ्यां प्रयोज्यानि । सन्ध्यङ्गानि । भवन्ति । किन्तु (स्वारस्येनेदमाह ) उपक्षेपादित्रयमुपक्षेपपरिकरपारन्यासाख्यसन्ध्यङ्गत्रयं न तु तद्भिन्नान्यन्यान्यपि सर्वाणीति भावः । बीजस्य अल्पमात्रमित्यादिना निरुक्तस्यकारणविशेषस्य । अल्पमात्रसमुद्दिष्टत्वात् । तस्य चैतदर्थमात्रत्वादिति शेषः । अप्रधानपुरुषप्रयोजितं नायकप्रतिनायकेतरप्रयोज्यम् । एव न तु नायकप्रतिनायकप्रयोज्यमिति शेषः । साधु । अयं भावः- बीजं तावदल्पमात्रं समुद्दिष्टं बहुधा यत्प्रसर्पतीत्युक्तः कारणविशेषः । उपक्षेपाद्यङ्गत्रयं पुनः बीजमात्रोपकारि बीजस्य चाप्रधानपुरुषप्रयोज्यत्वे सम्प्रदायानुकूलत्वमिति'तदप्यप्रधानपुरुषप्रयोज्यमेव साधिति ।।
न च सर्वाण्येवाङ्गानि · यत्र न यदि लभ्यरन् तत्र रूपकत्वन्न सम्भवेदिति न मन्तव्यमित्यभिप्रायेणाह ४५३ रसव्यक्तिमित्यादिना ।
४९३ रसव्यक्तिं-रसोद्भावनम् । अपेक्ष्य । एषां निरुक्तानामुपक्षेपादीनामिति भावः । अङ्गानाम् । सन्निवेशनम् । येन येनाङ्गनिवेशनेन रसाभिव्यक्तिः स्यात्तदेवाझं निवेशनीयमिति भावः । रमाननुगुणशास्त्रोपदेश