________________
परिच्छेदः ।
रुचिराख्यया न्याख्यया समेतः। ४४८ नृपदेशादिशान्तिस्तु प्रशस्तिरभिधीयते ॥ ४११॥ यथा मम प्रभावत्यां भरतवाक्यम् । 'राजानः सुतनिर्विशेषमधुना पश्यन्तु नित्यं प्रजा जीयासुः सदसद्विवेकपटवः सन्तो गुणग्राहिणः । सस्यस्वर्णसंमृद्धयः समधिकाः सन्तु क्षमामण्डले
भूयादव्यभिचारिणी त्रिजगतो भक्तिश्च नारायणे ॥३८१॥' अत्र काव्यसंहारप्रशस्त्योरन्ते एकक्रमेणैव स्थितिः । "इह मुखसन्धौ उपक्षेपपरिकर-परिन्यास-युक्तयु-द्भेद-समाधानानां प्रतिमुखे च परिसर्पण प्रगमन-वज्रो-पन्यास-पुष्पाणाम् । गर्भे चाभू. ताहरण-मार्ग तोटका-धिबल-क्षेपाणाम् । विमर्श चापवाद-शक्ति-व्यवसाय प्ररोचना-दानानां प्राधान्यम् । अन्येषां तु यथासम्भवं स्थितिः । इति च केचिदाहुः।
४४९ चतुःषष्ठिविधं ह्येतदङ्गं प्रोक्तं मनीषिभिः ।
कुर्यादनियते तस्य सन्धावपि निवेशनम् ॥ ४१२ ॥
रसानुगुणतां वीक्ष्य रसस्यैव हि मुख्यता । यथा वेणीसंहारे तृतीयेऽङ्के दुर्योधनकर्णयोर्महत्सम्प्रधारणम् । एवमन्यदपि । यत्नु रुद्रटादिभिनियम एवेत्युक्तं तल्लक्ष्यविरुद्धम् ।
प्रशस्ति लक्षयति-४४८ नृपेत्यादिना ।
४४८ नृपदेशादिशान्तिः नृपाणां राज्ञा देशानां प्रजानां च निरुपद्रुततया भवनमिति भावः । तु । प्रशस्तिः । भभिधीयते । इयं च गर्भसन्ध्यङ्गभूतां प्रार्थनामखीकुर्वद्भिरेव मतेति बोध्यम् ॥ ४११॥
उदाहरति-यथेत्यादिना।
यथा। मम । प्रभावत्याम् । भरतवाक्यम् । 'राजानः। अधुना। सुतनिर्विशेषं सुतेभ्यो निर्विशेषम् । निर्गतो विशेषो यत्र (कर्मणि) तन्निर्विशेषम् । पुत्रानिवेति भावः। प्रजाः। नित्यम्। पश्यन्तु । सदसद्विवेकपटवः। सन्तश्चासन्तस्तेषां विवेकस्तत्र पटवश्चतुराः । अत एव-गुणग्राहिणः परेषांदोषानगृहीत्वा गुणान् ग्रहीतार इति भावः । अत 'एव-सन्तः। जीयासुर्जयन्तु । क्षमामण्डले पृथ्वीमण्डले । समधिका अत्यन्तमुन्नताः । सस्यस्वर्णसमृद्धयः । सस्यानि धान्यादिक्षेत्राणि स्वर्णाणि चेति तेषां समृद्धयः । सन्तु । त्रिजगतस्त्रिलोक्याः । भक्तिः । च । नारायणे परमात्मनि । अव्यभिचारिणी कामं निरता । भूयात । शार्दूलविक्रीडितं वृत्तम् ॥ ३८१॥' यद्यपि रूपके सन्ध्य. जानां न स्थितिनियमः किन्तु काव्यसंहारप्रशस्त्योरन्ते निर्वेशनियम एवेत्याह-अवेत्यादिना । स्पष्टम् ॥
"इहैषु रूपकेषु मध्ये इति यावत् । मुखसन्धौ निरूप्यमाणे इति शेषः...प्राधान्यमावश्यकत्वम् । अन्येषामुपक्षेपादिभ्यो व्यतिरिक्तानां विलोभनादीनामिति भावः । स्पष्टमन्यत् ।" इति । च । केचित् । आहुः।
एवं सन्ध्यङ्गानि निर्दिश्यैषां सङ्ख्यानिर्देशपूर्वकं निवेशविधिं दर्शयति-४४९ चतुःषष्ठिविधमित्यादिना ।
४४९ एतदङ्गम् । अत्र जात्यभिप्रायेणैकवचनम् ।चतुःषष्ठिविधम् । मनीषिभिः प्रोक्तम् । तथाहि-मुखाहानि द्वादशप्रतिमुखाङ्गानि त्रयोदश (चतुर्दश) चेति । अयं विशेष:-गर्भाङ्गभूतायाः प्रार्थनायाः निर्वहणाङ्गभूतायाः प्रशस्तेश्चैकस्या एव ग्रहणम्-अन्यस्यास्तत एव गतार्थत्वात् । तस्य तत्तत्सन्धिसम्बन्धितयाऽभिहितस्याङ्गस्येति भावः । रसानुगुणताम् । वीक्ष्य । अनियते । अपि । सन्धौ। निवेशनं । कुर्यात् । कविरिति शेषः । ननु कोऽत्र हेतुरित्याह-हि यतः । रसस्य एव न त्वङ्गस्य न वा सन्धेरिति शेषः । मुख्यता प्राधान्यम् ॥ ४११ ॥
उदाहरति-यथेत्यादिना । स्पष्टम् । सम्प्रसारणं युक्तिः ।
सन्ध्यङ्गानां नियतत्वेन स्वीकारे दोषं दर्शयति-यत्त्वित्यादिना । ..लक्ष्यविरुद्धं महाकविसम्प्रदायाननुगतम् । स्पष्टम् । रुद्रटाभिरिति त्वधिकः पाठः प्रतीयते । रुद्रटमेन्थे तदनुपलम्भात् । यदि स्यादुद्भटादिभिरिति पाठान्तरं तदा स्यात्कदाचितू-उद्भदादीनां ग्रन्थानां प्रायो लुप्तत्वात् ।