________________
-: साहित्यदर्पणः। . .
४४३ समयो दु:खनिर्याणं यथा रत्नावल्यां “वासवदत्ता (रत्नावलीमालिङ्गय) समस्तसिहि वहिणि समस्लसिहि" .
४४४ तद्भवेदुपगृहनम् ॥ ४०९ ॥
यत् स्यादद्भुतसम्प्राप्तिः यथा मम प्रभावत्यां नारददर्शनात्मा “प्रद्युम्नः (ऊध्वमवलोक्य ) दधद्विद्युल्लखामिव कुसुममालां परिमलभ्रमभृङ्गश्रेणीध्वनिभिरुपगीतां तत इतः । दिगन्तं ज्योतिर्भिस्तुहिनकरगौरैर्धवलयनितः कैलासाद्रिः पतति वियतः किं पुनरयम्॥३८०॥'
४४५ सामदानादि भाषणम् ।। यथा चण्डकौशिके-'धर्मः-... तत्कृतं करणीयम् । इदानी ब्रह्मलोकमभिप्रतिष्ठस्व।
४४६ पूर्ववाक्यं तु विज्ञेयं यथोक्तार्थोपदर्शनम् ॥ ४१० ॥ यथा वेणीसंहारे "भीमा-बुद्धिमतिके !क सा भानुमती परिभवतु सम्प्रति पाण्डवदारान् ।"
४४७ वरप्रदानसम्प्राप्तिः काव्यसंहार इष्यते । यथा सर्वत्र “किं ते भूयः प्रियमुपकरोमि" इति ।
समयं लक्षयति-४४३ समय इत्यादिना । ४४३ दुःखनिर्याणं दुःखस्य निर्याणं विसर्जनम् । समयः ।
उदाहरति-यथा रत्नवल्यां चतुर्थेऽङ्के । 'वासवदत्ता (रत्नावलीमालिङ्गाय आहेति शेषः ।) वहिणि. भगिनि ! समस्लसिहि समाश्वसिहि । समस्ससिहि समाश्वसिहि ।'
उपगूहन लक्षयति-४४४ तद्भवेदित्यादिना ।। ४४४ यत् यतः । अद्भुतसम्प्राप्तिरद्भुतार्थलाभः । स्यात् । तत् । उपगृहनम् । भवेत् ॥ ४०९ ॥
उदाहरति-यथा । मम । प्रभावत्यां नाटिकायाम् । नारददर्शनात् । प्राक् प्रथमम् । प्रद्युम्नः (ऊर्ध्वमाकाशे । अवलोक्य अवतरन्तं 'नारद'मिति शेषः ) विद्युल्लेखामिव विद्युत्पङ्क्तिमिव । परिमलभ्रमद्भश्रेणीध्वनिभिः परिमल: पुष्पाणां विमर्दनादुत्थितो यः सुगन्धस्तेन तल्लोभेन भ्रभन्तो ये भृङ्गा भ्रमरास्तेषां श्रेणी तस्याःध्वनयो झङ्कृतयस्तैः । उपगीताम् । कुसुममालां पुष्पमयीं मालाम्। दधत्। इत इतः। तुहिनकरगौरैः तुहिनकरश्चन्द्रस्तद्वद्गौराणि तैः । ज्योतिर्भिः । दिगन्तम् । धवलयन् अयम् कैलासाद्रिः कैलासपर्वतः । इतोऽस्मात् । वियत आकाशात् । किम् पुनः किननु। पतति ॥ ३८०॥'
भाषणं लक्षयति-४४५ सामेत्यादिना । स्पष्टम् ।
४४५ उदाहरति-यथा। चण्डकौशिक पञ्चमाङ्के ।'धर्मः 'हरिश्चन्द्र प्रत्याहेति शेषः । स्पष्टमन्यत् । तदेहि धर्मलोकमधितिष्ठेति पाठस्तु ग्रन्थानवलोकभूतः ।
पूर्ववाक्यं लक्षयति-४४६ पूर्ववाक्यमित्यादिना । ४४६ यथोक्तार्थोपदेशनं यथोक्तार्थस्य ज्ञापनम् । तु । पूर्ववाक्यं । विज्ञेयम् ॥ ४१० ॥
उदाहरति-यथा । वेणीसंहारे । षष्टाङ्के । 'भीमः...बुद्धिमतिके ? (तदाख्येयं चेटी)। साभानुमती दुर्योधनभार्या । क्व कुत्रास्ते । सम्प्रति । पाण्डवदारान् । परिभवतु अत्र हि भानुमतीकर्तृकस्य द्रौपदीपरिभवस्य भीमकर्तृकं ज्ञापनम् ।
काव्यसंहारं लक्षयति-४४७ वरप्रदानेत्यादिना । स्पष्टमन्यत् । १ समाश्वसिहि भगिनि ? समाश्वसिहीति संस्कृतम् ।