________________
३
परिच्छेदः रुचिराख्यया व्याख्यया समेतः। -
४८३ __ ४३९ वदन्ति परिभाषणम् ।
परिवादकृतं वाक्यं यथाऽभिज्ञानशाकुन्तले 'राजा (प्रकाशम्) अय सा तत्रभवती किमाख्यस्य राजर्षेः पत्नी । तापसी-को तस्त धम्मदारपरिदृइणो णामं गेहिस्सदिए ।
४४० लब्धेऽथ शमनं कृतिः ॥ ४०८॥ यथा वेणीसंहारे 'कृष्णः-एते भगवन्तो व्यासवाल्मीकिप्रभृतयोऽभिषेकं धारयन्तस्तिष्ठन्ति ।
४४१ शुश्रूषादिः प्रसादः स्याद्यथा तत्रैव भीमेन द्रौपद्याः केशसंयमनम् ।
४४२ आनन्दो वाञ्छितागमः । यथा तत्रैव-'द्रौपदी-णाह विसुमरिदं एदं वावारं णाधस्त पसादेण पुणोवि सिक्सिंसं' कुम् । रणाग्नौ । दग्धम् । हे क्षितिप राजन् ! यद् । ब्रवीषि । तत् । दुर्योधन इत्याकारम् । एकम् । अधुना । धार्तराष्ट्रस्य दुर्योधनस्य । नाम । शेषं शिष्टम् । शेषशब्दोऽयं कर्मण्यजन्तः, नतु घजन्त इति वाच्यलिङ्गः । अत्र हि साक्षादनुभूतार्ण्यवर्णनम् । शार्दूलविक्रीडितं वृतम् ॥ ३७९ ॥'
परिभाषणं लक्षयति-४३९. वदन्तीत्यादिना।। .४३९ परिवादकृतं परिवादेन निन्दया कृतं सम्पादितम् । वाक्यम् । परिभाषणम् । वदन्ति 'विद्वांस' इति शेषः।
उदाहरति-यथा। अभिज्ञानशाकुन्तले सप्तमेऽके । 'राजा दुष्यन्तः । (प्रकाशं तापसी पृच्छतीति शेषः) अथ (प्रश्नसूचकमव्ययम् ) प्राप्येति. पाठान्तरम् । सा । 'यैनामिह प्रसूतवती'ति शेषः । तत्रभवती पूज्या ( तवधि खभार्यात्वेन तस्या अपरिचयात् )। किमाख्यस्य किनामधेयस्य । राजर्षेः । पन्नी । तापसी । 'राजानं प्रत्याहेति शेषः । को कः । तम्ल तस्य । धम्मदारपरिट्टाइणो धर्मदारपरित्यागिनो । धर्मेण (गृहीता) ये दारास्तान परित्यजतीति तस्य । णामं नाम । गेहिम्प्लदि ग्रहीव्यति । कीर्तयिष्यतीत्यर्थः ।
कृतिं लक्षयति-४४० लब्धेत्यादिना। ४४० अर्थे प्रयोजने । लब्धे सिद्धे सति । शमनं शान्तिः । कृतिः ॥ ४०८ ॥
उदाहरति-यथा । वेणीसंहारे षष्ठेऽङ्के। कृष्णः 'युधिष्ठिरं प्रत्याहेति शेषः । स्पष्टमन्यत् । अत्र कृष्ण:-महाराज युधिष्ठिर ! व्यासोऽयं भगवानमी च मुनयो वाल्मीकिरामादयो धृष्टद्युम्नमुखाश्च सैन्यपतयो माद्रीसुताधिष्ठिताः । प्राप्तामागधमत्स्य यादवकुलैराशाविधेयैः समं स्कन्धोत्तम्भिततीर्थवारिकलशा राज्याभिषेकाय ते ॥ इति प्रायः पाठः स्पष्टश्चार्थः ।
प्रसादं लक्षयति-४४१ शुश्रूषादिरियादिना । ४४१ शुश्रूषादिः शुश्रूषा आदियंत्र (तदनुकूलकर्ममात्रे ) सः । प्रसादः । स्यात् ।
लक्ष्यं दर्शयति-यथा तत्र वेणीसंहारे षष्टेऽङ्के। एव । भीमेन भीमकर्तकम् । द्रौपद्याः। केशसंयमनं केशानां दुर्योधनरुधिरेणाभिषिच्य बन्धनम् ।
आनन्दं लक्षयति-४४२ आनन्द इत्यादिना । स्पष्टम् । • ४४२ उदाहरति-यथा । तब वेणीसंहारे षष्टाङ्के। एव। द्रौपदी 'भीमं प्रत्याहे ति शेषः । णाह नाथ ! एदं एनम् । केशसंयमनरूपम् । विसुमरिदं विस्मृतम् । वावारं व्यापारम् । णाहस्त नाथस्य । पसादेण प्रसादेन प्रसन्नतयेति यावत् । पुणोवि पुनरपि । सिक्खिस्सं शिक्षिष्ये । एतावन्तं कालं केशा न मया बद्धा अतस्तद्वन्धनं विस्मृतम् । अथैनं तद्वयापारं निरूप्य भवान् दर्शयतु-अथाहं प्रत्यभिज्ञास्यागीति भावः । अत्र द्रौपद्या अभिलाषितार्थलाभः । ' कस्तस्य धर्मदारपरित्यागिनो नाम ग्रहीष्यतीति संस्कृतम् । नाथ ! २ 'विस्मृतमेनं व्यापारं नाथस्य प्रसादेन पुनरपि शिक्षिष्ये' इति संस्कृतम् ।