________________
४८२
साहित्यदर्पणः । यथा तत्रैव 'भीमसेनः-आर्य स एवाहं तन्मुश्चतु मामार्यः क्षणमेकम् । युधिष्ठिरः-किमपरमवशिष्टम् ? भीमसेनः-सुमहदवशिष्टम् । संयमयामि तावदनेन सुयोधनशोणितीक्षितेन पाणिना पाश्चाल्या दुःशासनावकृष्टं केशहस्तम् । युधिष्ठिरः-गच्छतु भवान्, अनुभवतु तपस्विनी वेणी. संहारम् ।' इत्यनेन केशसंयमनकार्यस्यान्वेषणाद्विबोधः ।
४३७ उपन्यासस्तु कार्याणां ग्रथनं यथा तत्रैव 'भीमः-पाश्चालि ! न खलु मयि जीवति संहर्सव्या दुःशासनविलुलिता वणिरात्मपाणिभ्यां तिष्ठ स्वयमेवाहं संहरामि' इत्यनेन कार्यस्योपक्षपाद प्रथनम् ।
४३८ निर्णयः पुनः ॥ ४०७ ॥
अनुभूतार्थकथनं यथा तत्रैव 'भीमः-देव ! अजातशत्रो ! क्वाद्यापि दुर्योधनहतकः मया हि तस्य दुरात्मनः। भूमौ क्षिप्तं शरीरं निहितमिदमसृक् चन्दनाभं निजाने, लक्ष्मीरायें निषिक्ता चतुरुदधिपयःसीमया सार्धमुर्ध्या भृत्या मित्वाणि योधाः कुरुकुलमखिलं दग्धमेतद्रणाग्नौ नामैकं यब्रवीषि क्षितिप ! तदधुना धार्तराष्ट्रस्य शेषम् ॥३७९ ॥'
उदाहरति-यथा। तत्र वणीसहारे षष्टेऽके । एव ।)भीमः 'युधिष्ठिरं प्रत्याहेति शेषः । आर्य! सः।यस्तवा. नुजः-इति शेषः । एव । अहम् । तत्तस्मात् । आर्यः भवान्। माम्। एकम् । क्षणम् । मुश्चतु । युधिष्ठिरः । किम् । अपरमन्यत्कार्यमित्यर्थः । अवशिष्टम् । भीमलनः । सुमहत कार्यमिति शेषः । अवशिष्टम् । किन्तदित्याह-तावत् कात्स्न्येन अनेन । सुयोधनशोणितोक्षितेन सुयोधनस्य रुधिरलिप्तेन । पाणिना हस्तेन । पाश्चाल्याः द्रौपद्याः । दुःशासनावकृष्टं दुःशासनेनावकृष्टं बलादाकृष्टम् । केशहस्तं केशपाशम् । 'पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे' इत्यमरः । संयमयामि बध्नामि । युधिष्ठिरः । भवान् । गच्छतु । तपस्विनी द्रौपदी। वेणीसंहारं वेण्याः केशपाशस्य संहारः संयमनं तम् । अनुभवतु।' इत्यनेन । केशसंयमनकार्यस्य । अन्वेषणात्सम्भावनात् । विवोधः।
ग्रथनं लक्षयति-४३७ उपन्यास इत्यादिना ।। ४३७ कार्याणामाधिकारिकाणां प्रासनिकानाश्च कर्तव्यानाम् । उपन्यास:समाप्य विश्रमणम् । तु । ग्रथनम् । उदाहरति-यथा। तत्र वेणीसंहारे षष्टेऽके । एव । 'भीम आहेति शेषः । स्पष्टमन्यत्।
लक्ष्य सङ्गमयति-इत्यनेन । कार्यस्य कौरवकुलसंहारणानुपदं द्रौपदीकेशसंहरणरूपस्य कर्तव्यस्य । उपक्षेपात समाप्य ततो निवर्तनात् । ग्रथनम् ।
निर्णय लक्षयति-४३८ निर्णय इत्यादिना। ४३८ अनुभूतार्थकथनं अनुभूतार्थस्य स्वात्मना सम्पाद्य कृतप्रत्यक्षस्य कार्यार्थस्य कथनम् । पुनः । निर्णयः॥४०७॥ . उदाहारति-यथा। तब वेणीसंहारे षष्टेऽङ्के। एव । 'भीमः 'युधिष्ठरं प्रत्याहेति शेषः । हे अजातशत्रो न जातः सर्वत्र शान्ततया शत्रुर्यस्य तत्सम्बुद्धौ देव राजन् ! अद्य । अपि । दुर्योधनहतकः पापात्मा दुर्योधन इति भावः । व कुत्रास्ति? न कुत्रापि जीवनवस्थित इति भावः । तदेव द्रढयति-हि यतः । मया । तस्य । दुरात्मनः दुर्योधनहतकस्येत्यर्थः । शरीरम्। भूमौ पृथिव्याम् । क्षीप्तं गदयोरू विदार्येति शेषः । इदम् । चन्दनाभं रक्तचन्दनसदशम्। असृक् रुधिरम् । निजाङ्गे खशरीरे । भीमगात्रे क्रोधोद्भूतभयंकरेऽस्मिनङ्गे इति भावः । निहितं सिक्तम् । आयें पूज्ये भवतीति यावत् । चतुरुदधिपयःसीमया चत्वार उदधयः समुद्रास्तेषां पयः सीनि सीमा वा यत्यास्तया। उा पृथिव्या । सार्धम् ! लक्ष्मी राज्यलक्ष्मीः । निषिक्ताऽभिषिक्ता । भृत्याः किरा अनुजीविन इति यावत् । मिवाणि प्रेम्णा वशवदाः। योधा योद्धारः । तथा-एतत अखिलम् । कुरु.